आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च
॥ 1-4-1 ॥
उक्तं परमपुरुषार्थलक्षणमोक्षसाधनतया जिज्ञास्यं …. … एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत् ॥
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥
पादसङ्गतिः प्रागुक्ता तत्तच्छब्दो लिङ्गिपर इति । तृतीयस्यान्त्ये अधिकरणे उक्तं जीववैलक्षण्यमयुक्तम् ; तत परस्य निषेधादित्यवान्तरसङ्गतिः । उक्तम् इत्यादिना इह त्रिपाद्यर्थोक्तिः सूत्रानुरोधात् । आनुमानिकमपि इति अन्ययोगव्यवच्छेदपरत्वं हि दर्शितम् । श्रीभाष्येऽपि ब्रह्मैककारणत्वस्थेम्ने इति एक - स्थेम शब्दाभ्या तत् सूचितम् । तत्तच्छब्दो लिङ्गिपर इति प्रधानपुरुषादिशब्देन व्यञ्जितम् । उच्यते , उत न इति संशयकरणम् अव्यक्तशब्दस्य प्रकृत्यवाचकत्वस्य सिद्धान्त्यभिमतत्वात् । अन्यथा कि ब्रह्मात्मकम् उत न इति संशयितव्यम् । शङ्काया अनुत्सूत्रत्वमाह - तदिदम् इति ॥
सिद्धान्तः
अत्रोत्तरम् - नेति । नाव्यक्तशब्देनाब्रह्मात्मकं … … अतः कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति ॥
रूप्यत इति रूपकम् - दृष्टान्तः । रूपकत्वेन विन्यस्तम् - कल्पितमित्यर्थः । कानि कथं रूपितानि इत्यत्राह - आत्म इति । किं रूपकवाक्यम् ; रूपितानामिहोक्तिरिति कथं ज्ञायते ; सा च किमर्था ; तत्र अव्यक्तशब्दस्य शरीरपरत्वं कथमित्यत्राह - एतदुक्तम् इति । सर्वस्य इति । सम्यगध्यवसायस्यापि इत्यर्थः । शरीरस्य वशीकार्यत्वं सात्त्विकाहारपोष्यत्वम् । उपासनोपकरणकोटिनिवेशः परस्य कथमित्यत्राह स खलु इति । पुरुषान्न परम् सा काष्ठा इत्यन्ययोगव्यवच्छित्तिः । अव्यक्त शब्दस्य शरीरपरत्वं परिशेषादित्याह - तदेवम् इति । पसङ्ग एव - प्रधानपरत्वोपगमेन ब्रह्मात्मकत्वमन्यत्रोक्तम् । इह तु न प्रधानवाचित्वमेव इति भावः ॥
न चात्र तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा … … एवंभूतेन रथिना वैष्णवं पदं
गन्तव्यमित्यर्थः ॥ 1 ॥
तन्त्रप्रत्यभिज्ञां दूषयति - न च इति । ग्रहणम् इत्यन्तम् एतदुक्तम् इति पूर्वेणान्वितम् । दर्शयति च इति सूत्रखण्डः । तदेव वशीकार्यत्वे परत्वमेव । छान्दसो दीर्घ इति । अन्यथा वाङ्मनसे इति वक्तव्यम् । न तु वाङ्मनसी इति । अतः छान्दसत्वे तुल्येऽपि प्रकरणानुगुण्यमधिकमिति भावः । आत्मनः परब्रह्मणि नियमनं तत्प्रवणीकरणम् । व्यत्ययेन तत् इत्यत्र तत् इति व्याख्येयं पदम् । सुप्तिङुपग्रह इत्यादेरर्थोऽभिप्रेतः ॥ 1॥
अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राह -
सूक्ष्मं तु तदर्हत्वात् ॥ 1-4-2 ॥
भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं … … रथवत् पुरुषार्थसाधनप्रवृत्त्यर्हत्वात् ॥ 2 ॥
अनन्तरसूत्रशङ्कामाह - अव्यक्त इति । सूक्ष्मं तु तदर्हत्वात् । कार्ये कारणोपचार इत्यर्थः । विपरीतं कस्मान्न इत्यत्राह - तदर्हत्वात् इति । अर्थविरोधादित्यर्थः ॥ 2 ॥
यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते …
तदधीनत्वादर्थवत् ॥ 1-4-3 ॥
परमकारणभूतपरमपुरुषाधीनत्वात् … … परमात्मा च सर्वेषामाधारः परमेश्वरः इति च ॥ 3 ॥
अनन्तरसूत्रशङ्कामाह - यदि - इति । तदधीनत्वादर्थवत् । प्रधानोपगमानुपगमचोद्यमर्थवत्वोक्त्या कथँ परिहृतमित्यत्राह - एतदुक्तम् इति । स्वरूपस्थिति इति । कार्यकरत्वस्य सत्तास्थितिसापेक्षत्वात् तस्य तादधीन्ये कथिते
तयोस्तादधीन्यमपि सिद्धमिति भावः । महिमवादश्रुतिः - यस्य पृथिवी शरीरम् इत्यादिः ॥ 3॥
ज्ञेयत्वावचनाच्च ॥ 1-4-4 ॥
यदि तन्त्रसिद्घमिह अव्यक्तम् … … अतो न तन्त्रसिद्धस्येह ग्रहणम्
॥ 4 ॥
ज्ञेयत्वावचनाच्च । स्पष्टम् ॥ 4 ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ 1-4-5 ॥
अशब्दमस्पर्शमरूपमव्ययम् … … पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते
॥ 5॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् । स्पष्टम् ॥ 5 ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ 1-4-6 ॥
अस्मिन् प्रकरणे हि उपायोपेयोपेतॄणां … … तस्मान्नेह तान्त्रिकस्याव्य क्तस्य ग्रहणम् ॥ 6 ॥
प्राज्ञपरत्वं न प्रधानपरत्वविरोधि ; प्राज्ञैकपरत्वाभावादित्यत्राह - त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । एवमुपन्यासः इति व्याख्येयम् । तत्र एवंपदं व्याचष्टे- ज्ञेयत्वेन इति । मोक्षोपायभूताम् इति । मोक्षोपायत्वमङ्गिद्वारा । येयम् इति । त्रयाणां प्रश्नः , प्रतिवचनप्रकारात् । धर्मः - उपायः । अधर्मः - धर्मादन्य उपेयः । कृताकृतम् वर्तमानम् । तपांसि इति - ज्ञानप्रधाना ब्रह्मपरा इति च उपरिभागाः। यस्य ज्ञानमयं तपः , श्रद्धा तप इत्युपासते इत्यादिषु तपःशब्दस्य ज्ञानपरतया ब्रह्मपरतया च प्रयोगदर्शनात् । पदम् - प्राप्यम् ॥ 6 ॥
महद्वच्च ॥ 1-4-7 ॥
यथा बुद्धेरात्मा महान् परः इत्यत्र … … न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ॥ 7 ॥
महद्वच्च । स्पष्टम् ॥ 7 ॥
इति आनुमानिकाधिकरणम् - 1