८ मध्वधिकरणम्

पूर्वपक्षसूत्रम्

मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ 1-3-30 ॥

ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीति … वमूनापेवैको भूत्वाषग्रिनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति इत्यादिना ॥ 30 ॥

मध्वादिष्वसंभवादनधिकारं जैमिनिः । उपासनसामान्ये देवतासामान्यस्याधिकारो निरूपितः । अथ प्राप्तफलत्वाच्च तद्विशेषाणां स निरूप्यते इति सङ्गति । कर्मकर्तृविरोधात् प्राप्तफलत्वाच्च सामर्थ्यार्थित्वाभावौ । तदुम्यं विशदयति -

मधुविद्यायम् इति उपास्यत्वम् इत्यर्थः ॥ 30 ॥

ज्योतिषि भावाञ्च ॥ 1-3-31 ॥

तं देवा ज्योतिषां ज्योतिः … … अत एषु वस्वादीनामनधिकारः ॥ 31 ॥

ज्योतिषि भावाच्च । देवा एत्र इत्युक्तम् , मनुध्यानधिकार प्रसङ्गात् अतो ज्योतिरेवेत्यर्थ इति भावः ॥ 31 ॥

सिद्धान्तसूत्रम् -

इति प्राप्तेऽभिधीयते -

भावं तु बादरायणोऽस्ति हि ॥ 1-3-32 ॥

आदित्यवास्वादीनामपि तेष्वधिकारभावं … … ब्रह्मण एव सर्वत्र निचाय्यपत्वात् इति ॥ 32 ॥

भावं तु वादरायणोऽस्ति हि । अक्षरार्थमुक्त्वा पूर्वपक्षयुकिं्त परिहरति ग्रन्थद्वयेन अस्ति हि इत्यादिना । उपास्तिफलयोर्ब्रह्यतत्प्राप्तिपर्यन्तत्वे सिद्धे ह्येवं परिहार इत्यत्राह - अत्र हि इति । उभयावस्थादित्योपासनं प्रतीनं , न तु तच्छरीरकपरविषयं , तत्प्राप्तिफलं चेत्यत्राह न ह वा इति । उपनिषदं वेद - उपास्तिं कुरुते ; आदेनपाकं पचति इतिवत् । उपसंहरति - अतः इति ॥

वस्वादिसमुदायस्योपास्यत्वेन एकैंस्योपासकत्वेन च कर्मकर्तृविरोधपरिहारः । कल्पान्तरे वखादित्वप्राप्तिमात्रस्य फलत्वसंभवश्च परैर्व्याख्यातौ न प्रामाणिकाविति दर्शितौ स्वाभिमतार्थस्य प्रामाणिकत्वेपपादनेन । खमतस्य सांप्रदयिकत्वं वदन् , परमतस्य असांप्रदायिकत्वं च सूचयति तदाह इति ॥ 32 ॥

इति मध्वधिकरणम् - 8