७ प्रमिताधिकरणगर्भे देवताधिकरणम्

तदुपर्यपि बादरायणः संभवात् ॥ 2-3-25 ॥

परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये … … अतः सामर्थ्यार्थित्वयोरभावात् देवादीनामनधिकार इति ॥

तदुपर्यपि वादरायणः संभवात् । प्रसङ्गात् सङ्गतिमाह - परस्य इति । मनुष्यशब्दव्यावर्त्यं किं तर्यङ्मात्रम् , उत देवादयोऽपीति शङ्कया सङ्गतिः इत्यर्थः । सामर्थ्याभावात् इति । अर्थित्वाभावस्याप्युपलक्षणम् । उपसंहारः - अनुष्ठानम् । यद्यपि इति । प्रवृत्तिनिवृत्तिरूपत्वाभावात् ब्रह्मवत् पुरुषार्थरूपत्वाभावाच्च । न विग्रहवत्त्वे तात्पर्यमित्यर्थः । अन्यपरत्वात् - स्तुत्यनुष्ठेयप्रकाशनयोः । कर्मणो द्रव्थदेवतानिरूप्यत्वात् तदपेक्षितत्वात् विग्रहादिसिद्धिरित्यत्राह - कर्मविधयश्च इति । अत एव - शरीरा भावादेव ॥

सिद्धान्तः

एवं प्राप्रे प्रचक्ष्महे - तदुर्यपि बादरायणः … … अतो विग्रहादित्त्वाद देवानामप्यधिकारोऽस्त्येव ॥ 25 ॥

राद्धान्ते अर्थित्वसामर्थ्ये क्रमादिवृणोति - अर्थित्वम् इत्यादिना । कानि विग्रहवत्त्वाभिधायीनि वचांसि, कथं तैस्तत्प्रतिपादनमित्यत्राह तथा हि इति । नामरूपव्याकरणश्रुत्या श्रुयत्यन्तरतदुपबृंहणस्मृत्यादिसिद्धतच्चातुर्विध्यमभिप्रेतम् । इन्द्रो वरुणः सोमो रुदं#ः इत्यादीन्यपि च सन्ति इति भावः । ततः किमित्यत्राह - देवादि इति ॥

उपासनप्रकरणेऽपि दर्शयति - तथा इति । विधिशेषत्वेन तत्सिद्धिमाह - कर्मविधि इति । न च असता इति । वेदवाक्यानां निरूपकाधइ कारिकतया न बालाद्युपच्छन्दनतुल्यता युक्तेति भावः । आपो वै शान्ताः , आदित्यो यूपः इत्यादिषु प्रमाणआन्तरसिद्धतद्विरुद्धार्थस्याप्युच्यमानत्वान्न सर्वत्र प्रामाण्यमिति शङ्कायामाह - तत्र प्रमाणान्तर इति । विध्यपेक्षिते हि तात्पर्यम् । कथं देवताविग्रहादेः विध्यपेक्षितत्वमित्यत्राह - कर्मविधेः इति । श्रउतहानाश्रुतक्लृप्ती इति भावः ।

व्युत्पत्तिसमयानवगतम् इति । वाच्यापूर्वपक्षे वलृप्तिर्गुर्विति भावः । फलमत इत्यत्र वक्ष्यमाण बुद्धिसौकर्यायेहोक्तम् । स्तुतिप्रकाशनाभ्यां तत्सिद्धिरत्रासाधारणार्थः । सङ्कीर्ण इति । नित्यानुमेयश्रुतिव्युदासः ॥ 25 ॥

विरोधः कर्मणीति चेन्नानेकप्रतिपत्ते

र्दर्शनात् ॥ 1-3-26 ॥

देवादीनां विग्रहादिमत्त्वाभ्युपगमे … … सौभरिप्रभृतीनां शक्तिमतां युगपदनेकशरीरप्रतिपत्तिः ॥ 26 ॥

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । न योग्यादृष्टिः विग्रहाणां , मन्त्रोषधादिभिरिव अदृश्यत्वसंभवादिति भावः ॥ 26 ॥

शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥ 1-3-27 ॥

विरोध इति वर्तते । मा भूत् कर्मणि … … वैदिकशब्दानामानर्थक्यं वैदस्यादिमत्त्वं च न प्रसज्यते ॥ 27 ॥

शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । अनित्यत्वम् - अनुच्चार्यमाणत्वम् । कथं शब्दार्थजन्म , ततश्च कथं चोद्यपरिहार इत्यत्राह - एतदुक्तम् इति । आकृत्यनित्यत्वेऽपि पशुव्रीह्याद्यनन्यत्व इव प्रवाहनित्यतया परिहारः ॥ 27 ॥

अत एव च नित्यत्वम् ॥ 1-3-28 ॥

यत एवेन्द्रवसिष्ठादिशब्दानां देवर्षिवाचिनां … … अचश्च वेदानां नित्यत्वम् , एषां च मन्त्रकृत्त्वमुपपद्यते ॥ 28 ॥

अर्थद्वारकमनित्यत्वं परिहृतम् । शब्दद्वारकमनित्यत्वं परिहरति । अत एव च नित्यत्वम् । कथमित्यपेक्षायाम् , उक्तं विशदयति एभिरेव इति । अनधीत्यैव अस्खलितस्वरवर्णतया दर्शनं मन्त्रकृत्त्वम् ॥

उत्तरसूत्रत्य शङ्कामाह - अथ स्यात् इति ॥

अथ स्पात् - नैमित्तिकप्रलयादिषु इन्द्राद्युत्पत्तौ … …

समाननामरूपत्त्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ 1-3-19 ॥

कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि … … अतो देवादीनामपि अर्थित्वसामर्थ्ययोगात् ब्रह्मविद्यायामधिकारोऽस्तीति सिद्धम् ॥

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च । पूर्वा क्तादेव इति । तत्तच्छब्देन तत्तदर्थस्मृतिपूर्वकसृष्ट्या समाननामरूपत्वं फलितमिति भावः । तदनुपपन्नम् , शब्दस्मृतिपूर्वकार्थस्मर्तुः अभावादित्यत्राह - तथा हि इति । शक्तिमात्रावशेषम् - भोक्तृत्वादियोग्यताऽस्ति , न चु तत्कार्यकरत्वमिति भावः । सर्वत् इति । नामरूपसाम्यं, वेदनित्यत्वं, सार्थकत्वं च ॥

शब्दस्योत्पत्त्याद्यभ्युपगमे कथं वेदनित्यता इत्यत्राह - एतदेव च इति । वर्णनित्यत्वादैः पौरुषेये व्यभिचारात् नित्यतया विभुतयोपगतवर्णानाम् आनुपूर्वीनिबन्धनोच्चारणानित्यत्वात् , पूर्वक्रमतुल्यक्रमतया उत्तरोत्तरमुच्चार्यमाणत्वं नित्यत्वमित्यर्थः । स्मृत्वोच्चारणे परस्यान्याधीनधीत्वमाशङ्क्याह इत्यान् इति । स्वयमेव अध्यापयितृनिरपेक्षम् । अवधारणद्वयेन अस्मदादेः पाश्चात्यप्राथमिकोच्चारण व्यावृत्तिः । बुहु स्ताम् इति ईदृशोच्चारणस्वस्वातन्याधीनः । उदाहृतश्रुतिस्मृतिषु सर्वासु सृष्ट्युपयोगिनो वेदोपगेशस्यकाचित्कत्वेऽप्यनुक्तत्यान्यतो ग्राह्यत्वात् सर्वासु तत्सिद्धिः ॥

ईश्वरसिद्धौ संप्रदायाविच्छेदसिद्ध्या नित्यत्वे सिद्धे , वेदप्रामाण्यसिद्धावीश्वरसिद्धिरितिं न चक्रकं शङ्कनीयम् , प्रमाण्यस्य स्वतस्त्वात् । अपवादेहेतोर्योग्यानुपलम्भनिरस्तत्वाच्च । कृत्स्त्रवेदप्रामाण्यमिति तक्रकं यथा परिहृतं , तद्वते ॥ 29 ॥

इति देवताधकरणम् - 7