शब्दादेव प्रमितः ॥ 1-3-13 ॥
कठवल्लीषु श्रूयते - अङगुष्ठमात्रः पुरुषः … … न च भूत भव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते ॥ 23 ॥
शब्दादेव प्रमितः । अल्पश्रुते ; इति परस्य अल्पपरिमाणत्वमुक्तम् । तद्विशेषो जीवस्य श्रूयते इति शङ्कया सङ्गतिः । परस्याप्यल्पपरिमाणत्वमुक्तमित्यत्राह - न च इति । कृत्वा चिन्तेयम् , अन्यत्र परस्य तच्छ्रवणात् । ईशानत्वं कथमित्यत्राह - ईशानत्वम् इति । प्रथमश्रुताङ्गुष्ठमात्रत्वस्वारस्यात् चरमश्रुतेशानत्वारस्यं पूर्वपक्षिणो मतम् ॥
राद्धान्ते - शब्दादेव, न लिङ्गात् । पर्थायशब्दादेवेत्यर्थः ॥ 23 ॥
कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह -
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ 1-3-24 ॥
परमात्मन उपासनार्थम् … … स्थितं तावदुत्तरत्र समापयिष्यते ॥ 24 ॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् । जीवस्यापि इति । उभयास्वारस्यात् एकाखारस्यं न्याय्यमित्यर्थः । अङ्गुष्ठमितत्वमननुगतमित्यत्राह मनुष्याणाम् इति । प्रसङ्गिकार्थस्याचिन्त्यत्वं बुद्ध्वाह - स्थितं तावत् इति ॥ 24 ॥