दहर उत्तरेभ्यः ॥ 1-3-13 ॥
इदमामनन्ति छन्दोगाः अथ यदिदमस्मिन् ब्रह्मपुरे … …. तथा सति हृदयावच्छिन्नस्य द्यावापृथिव्यादिसर्वाक्षयत्वं नोपपद्यते ॥
दहर उत्तरेभ्यः । पूर्वं पुरिशयस्य परमात्मत्वमुक्तम् । तस्यापरमात्मत्वमिहोच्यत इति शङ्कया सङ्गतिः।आकाशान्तरिक्षब्दवाच्यादन्यस्य परत्वनिश्चयात् अक्षरेक्षतिकर्माधिकरणयोः साहचर्यम् ; तदभावात् अक्षरदहराधिकरणयोः साहचर्याभावः । परस्मिन्नपि तत्प्रयोगात् तद्व्यावृत्त्यर्थ प्रकर्षशब्दः । अपहतपाप्मत्वादिब्रह्मगुणश्रवणात् दहराकाशो ब्रह्मेत्यत्राह - तस्मिन् इति । एतच्च अथ स्यात् इत्यादिना व्यक्तीभविष्यति ॥
राद्धान्ते - न हि परमात्मधर्माणामुत्तराधरभाव । अत उत्तरत्वं वाक्यद्वारकमित्याह - वाक्यगतेभ्यः इति । हुतु शब्दः चतुर्ध्यन्तत्व शङ्काव्युदासाय ॥
ननु च - दहराकाशस्य परमात्मत्वेऽपि बाह्यकाशोपमेयत्वं न संभवति .. … अत एतेभ्यो हेतुभ्यो दहराकाशः परमेव ब्रह्म ॥
अथ स्यात् इति । अव्यवहितत्वात् आकाशाधिकरणत्वप्रथमान्त निर्देशरूपप्राधान्यात्
एष इति परामृष्टमन्वेष्टव्यम् । अपहतपाप्मत्वा दयस्तद्गुण इति न दहरकाशगुणा इत्यर्थः । परिहरति - स्यादेतत् इति । गुणिध्याने गुणधीरार्थि, न तु गुणध्याने गुण्यन्तर्भावः । नात्रोभयो पस्थापना विधीयते , उभयोपस्थापकशब्दादर्शनात्। तच्छब्दो हि तदन्तर्वर्तिमात्रविषयः यद्वृत्तनिर्दिष्टविषयत्वात् तच्छब्दस्य इत्यत्राह - अत्र इति
। न तच्छब्दः उभयपरः , यच्छब्दनिर्दिष्टपरामर्शित्वात् तच्छब्दस्य , तस्य च तदन्तर्वर्तिमात्रपरत्वदित्यत्राह - यदिदम् इति । त्यदादीनि सर्वैर्नित्यम् नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् इत्यादिना एकशेष एकवचनं तेति भावः॥
दहराकाश इत्यादि । उक्तार्थे प्रामाणिके हि क्लिषअटनिर्वाहाक्षयणं युष्यत इत्यर्थः । प्रतिवक्ति - तदवहित इति । यावान् वा इत्यादिवाक्यै र्व्यवहितमन्वेष्टव्यम् न परमृशति एषा आत्मा इत्येतच्छब्दः । किं तु अव्यवहिताकाशापरामर्शित्यर्थः। नास्य जरयैतज्जीर्यति इत्यादैरर्थमाह तस्य इति । अन्यत् स्पष्टम् ॥ 13 ॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ 1-3-14 ॥
इतश्च दहराकाशः रं ब्रह्म - तद्यथा हिरण्यनिधिं … … सर्वासां प्रजानामजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गम् ॥
गतिशब्दाभ्यां था हि दृष्टं लिङ्गं च । निषाद इति । अश्रुतविभक्त्यर्थकॢप्तितः आश्रयान्तरकल्पनात् श्रुतस्यैव साथापत्यसंबन्धोन्याय्य- इत्येवंरूपन्यायादित्यर्थः । गति शब्दमात्रस्यार्थान्तरमाह - अथवा इति । अन्तरात्मत्वेन इति । धर्मौक्यादुक्तम् ॥ 14 ॥
इतश्च दहराकाशः परं ब्रह्म -
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ 1-3-15 ॥
अथ य आत्मा इति प्रकृतं … … महिमाऽस्मिन् दहराकाश उपलभ्यते ; अतो दहरकाशः परं ब्रह्म ॥ 15 ॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । धृतिः - विधृतिः , असङ्कीर्णत्वेन धारणम् ॥ 15 ॥
प्रसिद्धेश्च ॥ 1-3-16 ॥
आकाशशब्दश्च परस्मिन् ब्रह्मणि … … प्रसिद्धः भूताकाशप्रसिद्धर्वलीयसीत्यभिप्रायः ॥ 16 ॥
प्रसिद्धश्च । प्रसिद्ध्यतिशयो भूताकाश इत्यत्राह - अपहत इति ॥
एवं तावत् दहरकाशस्य भूताकाशत्वम् … …
इतरपरपरमर्शात् स इति चेन्नासंभवात् ॥ 1-3-17 ॥
युदुक्तं वाक्यशेषवशात् दहराकाशः … … न ह्यपहतपाप्मत्वादयो गुणा जीवे संभवन्ति ॥ 17 ॥
उक्तं वदन् वक्ष्यमाणमाह - अथ इति । इतरपरामर्शात् स इति चेन्नासंभवात् । साक्षात् इति । अथ य एष इत्येतच्छब्दस्य प्रकृतपरत्वात् प्राक् प्रकृतोऽपि जीव इत्यर्थः । अन्यत् स्पष्टम् ॥ 17 ॥
उत्तराच्चेत् आविर्भूतस्वरूपस्तु ॥ 1-3-18 ॥
उत्तरात् प्रजापतिवावयात् , जीवस्यैव … … जगद्व्यापार वर्जम् इत्यत्रोपपादयिष्यामः॥ 18 ॥
उत्तरात् चेत् आविर्भूतस्वरूपस्तु । किं प्रजापतिवाक्यम् ; तच्च परमात्मपरं किं न स्यात् ? जीवपरत्वे च किमायातम् प्रकृतस्येत्यत्राह एतदुक्तम् इति । प्राप्यस्य इति । जीवस्य प्राप्यतया परमपुरुषस्य प्रसङ्गः । न तु प्रकरणप्रतिपाद्यतयेति भावः । इति चेत् इति । एतदुक्तम् इत्यन्वयः । तु शब्दाभिप्रेतमाह - आविर्भूतस्वरूपस्यापि इति ॥ 18 ॥
यद्येवं , दहरवाक्ये अथ य एष संप्रसादः …
अन्यार्थश्च परामर्शः ॥ 1-3-19 ॥
दहराकाशस्यैवापहतपात्मत्वजगद्विधरणत्वादिवत् … प्रजापतिवाक्ये कीर्त्यमानं फलमपि दहरविद्याफलमेव ॥ 19 ॥
अन्यार्थश्च परामर्शः । दहरधीरेव मुक्तिदा चेत् , किमर्थ जीबोपास्तिविधिरित्यत्राह - प्रजापतिवाक्ये च इति । अङ्गस्य कथं फलोक्तिरित्यत्राह - सर्वान् इति ॥ 19 ॥
अल्पश्रुतेरिति चेत् तदुक्तम् ॥ 1-3-10 ॥
दहरोऽस्मिन् इत्यल्पपरिमाणश्रुतिः … … आविर्भूतापहतपाप्मत्वादि गुणस्वस्वरूप इति न दहराकाशः ॥ 20 ॥
उपसंहाकस्थहेतुः प्रत्युक्तः । अथोपक्रमगतं प्रतिवक्ति । अल्पश्रुतेरिति चेत् तदुक्तम् । उपक्रमप्राहल्यादधिकाशङ्का । महावाक्यस्य ततोऽपि प्राबल्यात् परिहारः। उत्तरसूत्रयोः परमप्रकृतेन सङ्गतिं ज्ञापयितुमाह अतः - इति । ज्ञानादयः
सत्यसङ्कल्पत्वफलिताः ॥ 20 ॥
इतश्चैतदेवम् -
अनुकृतेस्तस्य च ॥ 1-3-12 ॥
तस्य दहराकाशस्य … … अनुकार्यं ब्रह्म दहराकाशः ॥ 21 ॥
अनुकूतेस्तस्य च । स्पष्टम् ॥ 21 ॥
अपि स्मर्यते ॥ 1-3-22 ॥
संसारिणोऽपि मुक्तावस्थायं … … परस्य ब्रह्मणो भारूपत्वा वगतेश्च पूर्वपक्षानुत्थानादयुक्तम् । सूत्राक्षरवैरूप्यं च ॥ 22 ॥
अपि स्मर्यते । परोक्तमधिकरणान्तरत्वमनूद्य व्युदस्यति - केचित् इति । तेजसः प्राकृतत्वव्युदासायारम्भ इत्यत्राह - ज्योतिश्चरण इति । शङ्काधिक्याभाव उक्तः सूत्राक्षर इति । अनुशब्दोक्तेः इत्यर्थे न युक्तः । इह शास्त्रे शब्दस्वरूपपरत्वस्यापरिभाषितत्वात् । तस्य इति सौत्रपदस्य यदेव विद्ययेति हि इत्यवत् इतशब्दविधुरस्य तस्य भासा इति श्रुत्युपादानपरत्वं च अस्वरसमिति भावः ॥ 22 ॥
इति दहराधिकरणम् - 5