४ ईक्षतिकर्माधिकरणम्

ईक्षतिकर्मव्यपदेशात् सः ॥ 1-3-12 ॥

आथर्वणिकाः सत्यकामप्रश्नेऽधीयते - यः पुनरेतं …. …. एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथाकथञ्चित् नेतव्याः ॥

ईक्षतिकर्मव्यपदेशात् सः । आकशशब्दवत् अन्तरीक्षब्ह्मलोकशब्दयोर्नान्यथा निर्वाह इति शङ्कया सङ्गतिः । अस्मिन्नधिकरणे ध्यानेक्षणयोर्विषयमेदं पूर्वपक्षीकृत्य तदैक्यं सिद्धान्तयति । परान् प्रतिक्षिपति अत्र इत्यादिना । ध्यान इति स्फुटम् । उभयत्र इति परं पुरुषम् इति । परशब्दविशेषितपुरुषशव्देन निर्दिष्टस्य विषयस्योभयत्रैकत्वेन प्रत्यभिज्ञानात् ; परत्वस्य प्रतियोम्यपेक्षत्वात् , उत्तरत्र जीवधनात् परात् इति निर्दिष्टस्यैव प्रतियोगिनः पूर्वत्राप्यनुषङ्गेण प्रतियोगितयाऽवगमात् प्रतियोम्यन्तरानुक्तेश्च न विषयभेदशङ्का इति परोक्तौ पूर्वपक्षसिद्धान्तौ न युक्तविति भावः । चतुर्मुखस्य समष्टित्वं देवाद्यपेक्षया ॥

सिद्धान्तः

इति प्राप्ते प्रचक्ष्महे - ईक्षतिकर्मव्यपदेशात् सः । … परमेव ब्रह्म प्रात्यतयोपदिशतीति सर्वं समञ्जसम् । अत ईक्षतिकर्म पारमात्मा ॥ 12 ॥

राद्धान्ते परमात्मन एव इति । चतुर्मुखपरत्वे पुल्लिङ्गता स्यादिति भावः ।

चतुर्मुखस्यापि इति । उपदेशजन्यज्ञानप्रसरत्वात् कर्मवश्यता इति भावः । न च इत्यादि । अखारस्यं तुल्यमिति भावः । पूर्वं प्राकृताप्राकृतविभागाभावात् तदानी लोकत्रयोक्त्योगात् प्राकृतलोकद्वयानन्तरोक्तलोकः प्राकृत एवेत्यत्राह - एतद्वै इति । सर्वं समञ्जसम् इति । अन्तरिक्षशब्दस्य प्रदर्शनार्थत्वमेवास्वरसमस्मन्मते । परस्य तु सर्वमखरसमित्यर्थः॥

इति ईक्षतिकर्माकरणम् - 4