३ अक्षराधिकरणम्

अक्षरमम्बरान्तधृतेः ॥ 1-3-9 ॥

वाजसनेयिनो गार्गिग्रश्ने समामनन्ति - स होवाचैतद्वै तदक्षरं … … अर्थस्वरूपं येन प्रमाणेनावगम्यते, न तत् प्रतिपादन दशायामपेक्षणीयम् ॥ 9 ॥

अक्षरमम्बरान्तधृतेः । भूम्नः स्वे महिम्नि स्थितिरुक्ता । सा पात्मादन्यत्रापि दृश्यत इति शङ्कया सङ्गतिः । अहस्वमदीर्धम् इत्यनेनैव वर्णत्वशङ्कानुदयान्न तत्परत्वमिह पूर्वपक्षितम् । प्रमाणान्तर इति । अनुमानात् श्रउतिर्विलम्बिता ; प्रत्यक्षानुमितिसापेक्षत्वात् श्रुतेरिति भावः । श्रुतेः व्युत्पत्तिसापेक्षत्वात् , व्युत्पत्तेः प्रत्यक्षानुमानापेक्षत्वाच्च इति भावः ॥

राद्धान्तं स्पष्टम् । पूर्वपक्षयुकिं्त परिहरति - तन्न इति । शब्दवाच्यतया प्रतिपत्तेर्न मानान्तरापेक्षेत्यर्थः । कथमनपेक्षा, व्युत्पत्त्यादौ अपेक्षितत्वादित्यत्राह - संबन्ध इति ॥ 9 ॥

एवं तर्हि अक्षरशब्दनिर्दिष्टो जीवोऽस्तु … …

सा च प्रशासनात् ॥ 1-3-10 ॥

सा चाम्वरान्तधृतिरस्याक्षरस्य … … अतः पुरुषोत्तम एव प्रशासित्रक्षरम् ॥ 10 ॥

अनन्तरसूत्रशङ्कामाह - एवं तर्हि इति । सा च प्रशासनात् । जीवस्यापि नियमनलेशसंभवात् तद्व्युदासायाह - प्रकृष्टम् इति । अप्रति हतं शासन म् इत्यर्थः।

॥ 10 ॥

अन्यभाव्यावृत्तेश्च ॥ 1-3-11 ॥

अन्यभावः - अन्यत्वम् , प्रधानादिभावः । … … यद ज्ञानात् संसारप्राप्तिः

यज्ज्ञानाच्च अमृतत्वप्राप्तिः , तदक्षरं परं ब्रह्मैवेति सिद्धम् ॥ 11 ॥

अन्यभावव्यावृत्तेश्च । अदृष्टम् - स्वधार्यैरदृष्टम् । तद्धारकतया दृष्टम् । तादृशद्रष्दुः प्रकृतत्वात् । नान्यदतोऽस्ति धार्येण परमात्मना अदृष्टम् , अस्य धारकतया द्रष्ट्ठ नेत्यर्थः । चिदचिद्व्यावृत्तिम् आदि शब्दात् धारकद्रष्ट्रन्तराभावो विवक्षितः ॥

अस्यां योजनायां चिदचिद्व्यावृत्तिकण्ठोक्तिसिद्धिः । तद्व्यावर्तकसकलधर्मवाचिवाक्यविवक्षा च स्यात् । अपरस्यां तु व्यावृत्तिरर्थसिद्धा । धारकद्रष्ट्रन्तरराहित्यमेव कण्ठोक्तं स्यात् । नान्यदस्ति इति विषयवाक्यं सौत्रशब्दैरनुसृतं स्यात् । व्यावर्तयन् इत्यन्तेन सूत्रार्थोक्तिः । ततः परं फलितार्योक्तिः ॥

सौत्रः चशब्दोऽनुक्तसमुच्चयपर इत्यभिप्रयंस्तदर्थमाह - किं च इति ॥

इति अक्षराधिकरणम् - 3