२ भूमाधिकरणम्

भूमा संप्रसादादध्युपदेशात् ॥ 1-3-7 ॥

इदमामनन्ति छन्दोगाः - यत्र नान्यत् पश्यति … … एवं प्रत्यगात्त्वे निश्चिते सति तदनुगुणतया वाक्शेषो नेतव्य इति ॥

भूता संप्रसादादध्युपदेशात् । परप्रकरणाविच्छेदात् तत्परत्वमुक्तम् । तर्हि जीवपकरणाविच्छेदात् जीवपरत्वमिति शङ्कया सङ्गतिः । पठ्यते, न त्वाकृतिगणस्थः । बहोः इति । बहुशब्दस्य भूशब्दादेशः ।प्रत्ययादेरचो लोपश्च इत्यर्थः । अत्र इति । तदल्पम् इति अल्पधर्मि प्रतियोगिपरत्वात् न संख्यापरत्वधर्ममात्रपरत्वे इत्यर्थः । बहवः पुरुषा राजन् , अल्पं वा बहु वा इत्यादौ बहुशब्दस्य संख्यावैपुल्यसाधारण्य दर्शनात् अथं निर्णयः क्रियते । धर्मिवस्त्वन्तरानुक्तिसहितेन धर्मिप्रतियोगित्वेन भूम्नो धर्मित्वनिश्नयः । उपक्रोशतदभावौ सप्राणत्वनिष्प्राणत्वनिबन्धनौ स्याताम् . न तु सजीवत्वाजीवत्वकृतौ इत्यत्राह - अप्राणेषु इति । हिंस्यत्वं परस्मात् पञ्चवृत्तिप्राणाच्च व्यावर्तकमित्यर्थः । प्राणशब्दवाच्यो जीवोऽस्तु, तस्य कथं भूमत्वमित्यत्राह - अयमेव च इति ॥

तु शब्दात् प्रकरणान्तरत्वमाशङ्क्याह - किं च इति । एष तु वा अग्निहोत्री यः सत्यं वदति इतिवत् इति भावः । यदा वै विजानानि इति जीवविषयशस्त्रजन्यज्ञानवानुक्तः । उपक्रमे सशोकत्वं जीवस्य प्रतिपन्नम् , तत् कथं

विपुलसुखत्वमित्यत्राह - अविद्यावियुक्तम् इति । स्वे महिम्नि स्थितत्वादि कथमित्यत्राह - तदनुगुणतया इति ॥

सिद्धान्तः

एवं प्राप्तेऽभिधीयते - भूमा संप्रादादध्युपदेशात् … … प्रकान्त आत्मा प्राणशब्दनिर्दिषादन्य इति गम्यते ॥

राद्धान्ते, न हि प्राणशब्दामन्तरं ततोऽधिको भूमाशब्दः श्रुत इत्यत्राह - सत्यशब्दाभिधेयस्य इति । प्रकरणाविच्छेदात् सत्यं भूमेत्यर्थः । सत्यं भूमाऽस्तु, ततः किं तस्य परमात्मत्व इत्यत्राह - सत्य इति । अतिवदति इति सत्यस्याधिकत्वोपदेशेऽपि, आधइक्यस्य प्राणप्रतियोगिकत्वाश्रणात्, सत्यं चान-तं च इत्यादिवत् जीवस्यापि सत्यशब्दवाच्यत्वसंभवाच्च सत्यस्य जीवादर्थान्तरत्वं न सिध्यतीत्मत्राह एतदुक्तम् इति । यद्यपि सत्याधिक्यस्य प्राणः प्रतियोगितया न श्रुतः , तथाऽपि आधिक्यस्य प्रतियोग्यपेक्षायां नामादिवदनन्तरसन्निहितः प्राण एव प्रतियोगी भवितुमर्हतीति तत्प्रतियोगिकाधिक्यवतः परस्य ब्रह्मणः सत्यं ज्ञानम् इत्यादिषु सत्यशब्दनिर्दिष्यस्य ततोऽर्थान्तरत्वं सिद्धममित्यर्थः । ततः किं भूम्नः परमात्मत्व इत्यत्राह - सत्यशब्द इति ॥

अधिकतयोपदेशादर्थान्तरत्वमुक्तम् । अथाधिकतयोपदेश एव कथमिति शङ्कते प्रणशब्द इति । प्रतिवक्ति - स वा इति । व्यावर्तयति अधिकतयेत्यर्थः । प्राङ्निर्दिष्टादुत्तरस्याधिकतयोक्तिपरप्रकरणत्वादिति भावः । नातिवाद्यन्तरप्रतीतिः , पूर्वातिवादिप्रत्यभिज्ञानादित्यत्राह - अत एव इति । अतः - तुशब्दस्वारस्यात् । ततः किमित्यत्राह - अतोऽस्य इति ।

अग्रिहोत्रदृष्टान्तमभिप्रेत्य चोदयति - ननु इति । परिहरति - नैतत् इति । दृष्टान्तवैषम्यं वक्तु तुशब्दात् धर्म्यन्तरप्रतीतिमाह - तुशब्देन इति । वैषम्यमाह - एष तु इति । अग्निहोत्र्यन्तरत्वनिमित्ताग्निहोत्रान्तरत्व हेतुद्रव्यदेवतान्तराप्रतीत्या तुशब्दखारस्यं भग्नम्

। अत्र तु अतिवाद्यन्तरत्वनिमित्तोपारनान्तरत्वहेतूपास्यवस्तुसिद्धेर्न स्वारस्यभङ्ग इति भावः । सत्यशब्दस्योपास्यान्तरपरत्वे तुशब्दस्वारस्यम् ; तत्सिद्धावुपास्यान्तरपरत्वमित्यत्राह सत्यशब्दश्च इति । श्रुतिप्रसिद्ध्या तुशब्दशक्या च नोक्तदोष इत्यर्थः । प्राणनिष्ठस्यासाधारणमतिवादित्वं स्वारस्यभञ्जकमित्यत्राह - अतिवादित्वं हि इति । न ह्ययं शब्दो रूढः , किन्तु यौगिक इत्यर्थः । परब्रह्मवादिन एव इति । अवयवार्थपौष्कल्यादिति भावः । तुशब्दातिशब्दस्वारस्यम् एव कारेणाभिप्रेतम् । अत एव - अतिवादिशब्दस्य यौगिकत्वादेव । आख्यातनिर्देशशिष्यप्रार्थने इति भावः । आचार्यश्च इति । सत्यवदनपरत्वे जिज्ञासितव्यशब्दाखारस्यं चेति भावः । मुखआन्तरेणाधिकतयोपदेशमाह - आत्मनः इति ॥

युदुक्तम् - अस्ति भगवः प्राणाद्भूयः इति प्रश्नस्य … …. सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म ॥

उक्तं च इति । तुशब्दश्रुतिः आत्मोत्पत्तिरूपलिङ्गं चेत्यर्थः । प्रश्नाभावः । किंनिबन्धन इत्यत्राह - अस्ति इति । ब्रह्मसाक्षात्कारोपाय भूतम् इति । यदा वै विजानाति इत्यादिवाक्यस्य यदा साक्षात्करोति तदा सत्यमतिवदतीत्यर्थः । अतिवादस्य प्रकृतत्वादित्यभिप्रायः । सुखरूपता ज्ञानं यादृच्छिकविद्वद्वाक्यैः अनुभूयमाने इति अर्थवशादध्याहृतम् । इह वाक्ये विशिष्टान्यनिषेधः । कथमीशदृष्टावीशितव्यदृष्टिरित्यत्राह - अत ऐश्वर्य इति । गुणशब्दोऽपृथक्स्थितिवाची । आत्मगुणविशेषो हि सुखमित्यत्राह तदेव हि सुखम् इति । उपाधिना दुःखरूपत्वे, संबन्धाज्ञानादननुकूलत्वे दृष्टान्तद्वयम् । अन्यराजानः स्वाराट् इति उपाधितद्विगमौ दर्शितौ । विभूत्यादिविशिष्टस्यानन्द रूपत्वमाह - निरतिशय इति । तगात्मानं स्वयमकुरुत, रसो वै सः इति हि तत्र श्रुतम् । सत्रार्थमुपसंहरति - अतः इति ॥ 7 ॥

धर्मोषपत्तेशअच ॥ 1-3-8 ॥

अस्य भूम्नो ये धर्मा आम्नायन्ते … …. तस्मात् बूमविशिष्टः परमात्मेति सिद्धम् ॥ 8 ॥

धर्मोपपत्तोश्च । अहङ्ग्रहेण - अहमर्थशब्दयोः परमात्मपर्यन्तत्व बुद्धया । तर्हि अतस्मिन् तद्धीः स्यादित्यत्राह - अहमर्थस्य इति । परस्य सर्वात्मत्वं न

परमान्तर्यामिब्रह्मणादिसिद्धम् , अस्मिन्नपि प्रकरणे तदवगम्यते इत्याह - परमात्मनः इति । परमात्मा इत्यन्तेनार्थोक्तिः । ततो वयोपादानम् । एतदेव इति । विजानतः इति षष्ठ्यन्तम् इत्यर्थः । अधिकरणार्थमुपसंहरति - तस्मात् इति ॥ 8 ॥

इति भूमाधिकरणम् - 2 .