१ द्युभ्वाद्यधिकरणम्

द्युभ्वाद्यायतनं स्वशब्दात् ॥ 1-3-1 ॥

आथर्वणिका अधीयते - यस्मित् द्यौः … … मनःप्रभृति जीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते ॥ 1 ॥

द्युभ्वाद्यायतनं श्वशब्दात् । पादसङ्गतिः प्रागुक्ता । द्युपृथिव्याद्याधारत्वं परस्मादन्यस्य दृश्यत इति शङ्कयाऽवान्तरसङ्गतिः । स्पष्टजीवलिङ्गकत्वात् अदृश्यत्वाधिकरणे एतदनिरूपणम् । आथर्वणिकाः इत्यादि । स्फुटम् । यथाकथञ्चित् - स्वरूपेण वा कर्मणा वा धारकत्वम् इति भावः ॥

राद्धान्ते - आत्मशब्द इति । गगनदिगादौ प्रयोगाभावात् योगरूढ इति भावः । बहुधा इत्यादिना हेतुफलवैषम्यं जन्मन उक्तम् । विशदयितुमाह - स्मृतिरपि इति ॥ 1 ॥

इतश्च परमपुरुषः -

मुक्तोपसृप्यव्यपदेशाच्च ॥ 1-3-2॥

अयं द्युपृथिव्याद्यायतनभूतः पुरुषः … निर्दिष्टो द्युपृथिव्या द्यायतनभूतः पुरुषः परं ब्रह्मैव ॥ 2 ॥

मुक्तोपसृप्यव्यपदेशाच्च । न हि वाक्ये मुक्तशब्दः इति शङ्कायां व्याचष्टे संसार इति । प्रलयव्यावृत्त्यर्थं विधूतपुण्यपापत्वम् उक्तम् । निपञ्जन शब्दव्याख्या प्रकृतिसंसर्गरहितैः इति ॥ 2 ॥

परब्रह्मासाधारणशब्दादिभिः परमेव ब्रह्म …

ननुमानमतच्छब्दात् प्राणभृच्च ॥ 1-3-3 ॥

यथाऽस्मिन् प्रकरणे प्रधानप्रतिपादकशब्दाभावात् …. …. अर्थाभावे यदव्ययम् इत्यव्ययीभावः ॥ 3 ॥

एवमिति अन्वय उक्तः । व्यतिरेको वक्ष्यत इत्यर्थः । नानुमान मतच्छब्दात् प्राणभृच्च । अर्थाभावे यदव्ययम् इति अर्थोपादानम्, न सूत्रोपादानम् ॥ 3 ॥

इतश्चायं न प्रत्यगात्मा -

भेदव्यपदेशात् ॥ 1-3-4 ॥

समाने वृक्षे पुरुषो निमग्नो … …. तदा वीतशोको भवति ॥ 4 ॥

प्रकरणात् ॥ 1-3-5 ॥

प्रकरणं चेदं परस्य ब्रह्मणः … …. प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्ष्म ॥ 5 ॥

प्रकरणात् । तर्हि किमनेनाधिकरणेन इत्यत्राह - नाडी इति ॥ 5 ॥

स्थित्यदनाभ्यां च ॥ 1-3-6 ॥

द्वा सुपर्ण सयुज सखाया … … अतो द्युभ्वाद्यायतनं परमात्मेति सिद्धम् ॥ 6 ॥

स्थित्यदनाभ्यां च । अभ्यर्हितत्वादल्पात्वाद्वा स्थितेः प्राथम्यं सूत्रो । भाषयो तु श्रुत्युक्तक्रमेण व्याखातम् । अधिकरणार्थमुपसंहरति - अतः इति ॥ 6 ॥

इति द्यभ्वाद्यधिकरणम् -1