वैश्वानरः साधारणशब्दविशेषात् ॥ 1-2-25 ॥
इतदमामनन्ति छन्दोगाः - आत्मानमेवेमं वैश्वानरं … …वैश्वानरात्मविज्ञानफलं वैश्वानरात्मानं परं ब्रह्मेति ज्ञापयति ॥ 25 ॥
वैश्वानरः साधारणशब्दविशेषात् । उपन्यस्तं रूपं परस्मादन्यस्य दृश्यति इति शङ्कया सङ्गतिः । साधारण शब्दस्य सूत्रस्थत्वात् शक्य निर्णय उत न इत संशयः कृतः । अह्नां केतुः - आदित्यः । आत्मब्रह्मशब्दौ कथमित्यत्राह - वाक्य इति ॥
राद्धान्ते विशेष्यत इति न घञ्प्रत्ययार्थः समासान्तर्गतषष्ठ्यर्थः । कर्मणि षष्ठीत्यर्थः । कृदन्तपदयोग कर्मार्थषष्ठीनिमित्तमिति ज्ञापयितुं विशेष पदोपादानम् । यद्वा विशेष्यत इति घञर्थोक्तिः । समासश्च कर्मधारयाः । विशेष्यमाणत्वादिति फलतार्थः, न शाब्दार्थः । के पुनर्धर्मा इत्यत्राह - तथा हि इति । धर्म्येकत्वानेकत्वजिज्ञासया वा पदद्वयविशेषणे तात्पर्याद्वा किंशब्दद्वयम् ॥ 25 ॥
इतश्च वैश्वानरः परमात्मा -
स्मर्यमाणमनुमानं स्यादिति ॥ 1-2-26 ॥
द्युप्रभूति पृथिव्यन्तमवयवविभागेन ……….. परमपुरुषस्यैव रुपमिति वैश्वानरः परमपुरुष एव ॥ 26 ॥
स्मर्यमाणमनुमानं स्यादिति । लिङ्गवाचिशब्दश्रवणात् इति शब्दवैयर्थ्यमित्यत्राह - इतिशब्दः इति । मूर्धादीनामुपदेशः संभूय कथं न कृत इत्यत्राह - तथा हि इति । विश्वस्य रूपकत्वात् प्रकाशकत्वात् आदित्यो विश्वरूपः । अन्यत् स्पष्टम् ॥ 26 ॥
पुनरप्यनिर्णयमेवाशङ्क्य परिहरति -
शब्दादिभ्योऽन्तः प्रतिष्ठानाश्च नेति चेन्न, तथा
दृष्टूयुपदेशादसंभवात् पुरुषमपि चैनमधीयते ॥ 1-2-27 ॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाश्च इत्यादि । त्रेताग्निकॢप्तिप्राणाहुत्याधारत्वयोः आदि शब्देनोपादानम् एतच्छØतिस्थतया सन्निकृष्टत्वात् । वाजिनाम् इति - विप्रकर्णात् कण्ठोक्तिरिति भावः । उक्तहेत्वनुक्रमेण शंकितमर्थं निगमयति - अतः इति ॥
तन्न इत्यादि । जाठरलिङ्गपरमात्मलिङ्गश्रवणात् विशिष्टोपास्तिपरत्वमित्यर्थः । विशिष्टप्रतिपादनं कथम्, तत्सिद्धौ हि विशिष्टोपास्तिपरत्वमित्यत्राह - अग्निशब्दादिभिः इति
। किं च इति । पुरुषशब्दस्य जीवादिपरत्वं प्रकरणादिवशात्, न तु स्वतः इति भावः ॥ 27 ॥
अत एव न देवता भूतश्च ॥ 1-2-28 ॥
उक्तेभ्य एव ………. महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः ॥ 28 ॥
अत एव न देवता भूतश्च । जाठरवत् परिच्छिननत्वाभावेऽपि नात्मब्रह्मशब्दादिकृत्स्नहेतव उपपन्ना इति भावः ॥ 28 ॥
साक्षादप्यविरोधं जैमिनिः ॥ 1-2-29 ॥
वैश्वानरसमानाधिकरणस्याग्निशब्दस्य ……… परमात्मासाधारणदर्म विशेषितः परमात्मानमेवाभिधत्त इति ॥ 29 ॥
साक्षादप्यविरोधं जैमिनिः । साक्षात् इति व्याख्येयम् ।अव्यवधानेन इति व्यारव्यानम् । वैश्वानर शब्दः केन गुणेन वर्तते ; तद्वत् अग्निशब्दस्य केन गुणेन वृत्तिरित्यत्राह - एतदुक्तम् इति ॥ 29 ॥
यस्त्वेतमेवं प्रादेशमात्रभिविमानम् …
अभिव्यक्तेरित्याश्मरथ्यः ॥ 1-2-30 ॥
उपासकाभिव्यक्त्यर्थं … … विगतमानस्य ह्यभिव्यक्तेरेव हेतोर्भवति ॥ 30 ॥
उत्तरसूत्राशङ्कामाह - यस्तु इति ॥
अभिव्यक्तेरित्याश्मरथ्यः । परिच्छिन्नत्वं भूततृतीयदेवतयो रोवेति शङ्काऽत्र परिहृता । द्युप्रभृति इत्यादिभिः प्रादेशमात्रादि शूब्दाः विवृताः ॥ 30 ॥ अनन्तरस्य शङ्कामाह भूर्ध इति ।
भूर्धप्रभृत्यवयवविशेषैः पुरुपाविधत्वं …
अनुस्मृतेर्बागरिः ॥ 1-2-31 ॥
तथोपासनार्थमिति बादरिराचार्यो … … तन्मुमुक्षुभिस्त्याज्यत्वादिह न गृह्यते ॥ 31 ॥
अनुस्मृतेर्बादरिः । पुरुषविधत्वम् उपासार्थम् । सा चमुक्त्यर्थेत्यर्थः॥ 31 ॥
यदि परमात्मा वैश्वानरः , कथं तर्हि …
संपत्तेरिति जौमिनिस्तथा हि दर्शयति ॥ 1-2-32 ॥
अस्य परमात्मन एव वैश्वानरस्य … … एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इति ॥ 32 ॥
संपत्तेरिति जैमिनिस्तथा हि दर्शयति । संपत्तिः - अतस्मिन् तत्कल्पनम् । तथा इत्यादिसूत्रखण्डं व्यचष्टे - तथा हि इति । अग्निहोत्रक्लृप्तेः परमात्माराधनार्थतां फलमेव दर्शयतीत्यर्थः ॥ 32 ॥
आमनन्ति चैनमस्मिन् ॥ 1-2-33 ॥
एनं परमपुरुषं द्युणूर्धत्वादिविशिष्टं … …. अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम् ॥ 33 ॥
इति वैश्वानराधिकरणम् - 6
इति श्रीभगवद्रामानुजविरचिते शारीकरमीमांसाभाष्ये
प्रथमस्याध्यायस्य द्वितीयः पादः ॥
न परस्य द्यप्रभृतिशरीरत्वम्; उपासकाङ्गानां द्युप्रभृतित्वाद्युक्तेरिति शङ्कायामनन्तरसूत्रम् ॥
आमनन्ति चैनमस्मिन् । एनम् इतिगर्मितं विवृण्वन् उक्तं विवृणोति - अयमर्थः। इति । स्पष्टम् । फलं च इति । फलवत्सन्निधौ अफलं तदङ्गमिति भावः । बुद्धिसौकर्याय प्रागुक्तमर्थमेतत्सूत्रार्थेन सङ्गतमाह एवम् इति । अतः । इति ॥ 33 ॥
इति वैश्वानरधिकरणम् - 6
इति श्रहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्ध -
वेदव्यासापरनामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत -
श्रीभगवद्रामानुजविरचितशारीकमीमांसाभाष्यहृदयेन
श्रूसुदर्शनसूरिणा विलिखितायां श्रुतप्रदीपिकायां
प्रथमस्याध्यायस्य द्वितीयः पादः ॥
च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ