अदृश्यत्वादिगुणको धर्मोक्तेः ॥ 1-2-22 ।.
आर्थर्वणिका अधीयते … … अतोऽऽत्राक्षरशब्दो भूतसूक्ष्ममचेतनं ब्रूते ॥ 22 ॥
अदृश्यत्वादिगुणको धर्मोक्तेः । अक्षरात् परतः परस्य च सूत्रविवक्षितत्वं पुल्लिङ्गसूचतम् । अदृष्टो द्रष्टा इत्यादाविव इति सङ्गतिः सूचिता । न ह्मत्रादृश्यत्वं द्रष्टृत्ववत् नियन्तृत्वसहचराति प्रधानपरत्वशङ्कया सङ्गतिः। परतोऽक्षरात् इति विभक्तिसाम्येन सामानाधिकरण्यं स्वतः प्राप्तमिति भावः । अदृश्यत्वं साधारणं, दृष्टान्तश्च चेतनपरत्वनुगुण इत्यत्नाह एतदुक्तम् इति । अन्तरङ्गे सति बहिरङ्गं न ग्राह्यमिति भावः । दृष्टान्तानु गुण्यमाह - तदधिष्ठितम् इति ।
राद्धान्ते इदं वाक्यमुक्तविषयं स्यादित्यत्राह - तथा हि इति । अक्षरं न परमात्मा, परत्वक्षवणात् इत्यत्नाह - पश्चात् इति । पञ्चम्यपेक्षास्वारस्यात् अन्वयस्वारस्याच्च वैयधिकरण्यमिति भावः । अर्थविरोधं हेतुमाह तस्य इति । यस्य परधर्मन्वयः श्रुतः, स हि परः । अतः एतत्परकरणस्थ ब्रह्मशब्दयोरिव भिन्नवषयत्वं युक्तमिति भावः ॥ 22 ॥
इतश्च न प्रधानपुरुषौ-
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ 1-2-13 ॥
विशिनष्टि … … महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वा अक्षरत्वं कथंचिदुपपद्यते ॥ 13 ॥
विशेषणभेदव्यपदेशाभ्यां च तेतरौ । कस्मात् किं कार्धर्मैः विशिनष्टीत्यत्राह - प्रधानात् इति । भेदव्यपदेशं विषृणोति - तथा इति । उभयमुपपादयितुमाह - तथा हि इति । विशेषणवाचिशब्दैनापि परविषयत्वसिद्धिमाह - परविद्यैव च इति । ज्ञेये ब्रह्मणि कृत्स्नज्ञेयान्तर्भान्तर्भावात् तद्वेतने कृत्स्नवेदनान्तर्भावात् सर्वविद्याप्रतिष्ठा इत्युक्तम् । विद्ययोर्भिन्नविषयत्वव्युदासाय व्याचष्टै - ब्रह्म प्रेप्सुना इति । विद्ये वेदितव्ये इति तपोऽतप्यत , ओदनपाकं पचति इतिवत् । विषयैक्ये को भेद इत्यत्राह - परोश्च इति । तथात्वे सामग्रीभेदं हेतुमाह - तत्र इति । प्रथमेनैवालमित्यत्राह - तयोः इति । तद्वैयर्थ्यं श्रुतमित्यत्नाह - तच्च इति । किं प्रथमेन इत्यत्राह - तदुपाय इति । साधनसप्तकानुगृहीतम्- सायधनसप्तकसहितम् । उक्तं स्पष्टयितुमाह आह च इति । आगमोत्थपरं तत्र इत्यादिवाक्यमित्याह तत्र इति । किं धर्मशास्त्रादिना, न चात्रागमोत्थं प्रतीतमित्यत्राह - साङ्गस्य इति । अथ इति उक्तम् इत्यन्वयः । तपसा इत्यादिवाक्यं व्याचष्टे ब्रह्मणः इति ।
भोक्तृवर्गस्य इति सत्यशब्दार्थ उक्तः । पौनरुक्त्यशङ्का व्युदासायाह - यः सर्वज्ञः इति । दध्ना
जुहोति इतिवदिति भावः । भोग्यभोक्तृ इति । अद्यतेऽत्ति च इति हि अन्ननिरूक्तिरिति भावः । मन्त्रेषु इत्यादि । चतुर्मुखलोककामपरत्वव्यावृत्तर्थणाह - सार्वज्ञ्य इति । तदैतत् सत्यम् इत्याद्यैकार्थ्यादिति भावः । येषु पुरुषेषु ॥
सौत्रहेत्वोर्द्वितीयं विवृणोति - भेदव्यपदेशोऽपि इति । अश्नुते इति प्रोक्षणीनयोऽभिप्रेतः ॥ 23 ॥
रूपोपन्यासाच्च ॥ 1-2-24 ॥
अग्निर्मूर्धा चक्षुषी … … सर्वभूतान्तात्मनः परमात्मन एव संभवति । अतश्च परमात्मा ॥ 24 ॥
रूपोपन्यासाच्च । स्फृटार्थम् । अधिकरणार्थं निगमयति - अतः इति ॥ 24 ॥
इति अदृश्यत्वादिगुणकाधिकरणम् - 5