४ अन्तर्याभ्यधिकरणम्

स्वानादिव्यपदेशाच्च इत्यत्न … … परमात्मत्वं साधितम् । इदनीं तदेव समर्थयते ॥

अवान्तरसङ्गतिमाह - स्थान इति ।

अन्तर्याभ्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ 1-2-19 ॥

काण्वा माध्यन्दिनाश्च वाजसनेयिनः … … नान्योऽतोऽस्ति द्रष्टा इति द्रष्ट्रन्तरनिषेधाच्च इति ॥

अन्तर्यभ्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । विषयं शोधयति - काण्वा इत्यादिना । वेदयज्ञशब्दौ अभिमानिदेवतापरौ । कथं विश्वचिदचिन्नियन्तरि जीवत्वशङ्का इति शङ्कायां पूर्वपक्षयुक्तिमाह वाक्यशेष इति । ततः किमन्तर्यामिणो जीवत्वस्येत्यत्राह - एवं द्रष्टुः इति । ततः किं रूपादिसाक्षात्कर्तृत्वमर्थं इत्यत्राह - नान्य इति । तन्नान्यत्र निषेध्यम्, जीवेषु तत्संभवात् करणाधीनं तु तदन्यत्र निषेध्यं, परस्मिन् तदयोगादित्यर्थः । यच्छब्दावृत्त्या च बहुत्वम् । स इति जातौ, उपर्कमे यः इति च । आत्मनि स्थित्यादयः स्वारस्येन नेया इति भावः ॥

सिद्धान्तः

एवं प्राप्रेऽभिधीयते - अन्तर्याभ्यधिदैवाधिलोकादिषु … जीवस्यात्मतयोपदिश्यमानोऽन्तर्यमी न प्रत्यगात्मा भवितुमर्हति ॥ 19 ॥

राद्धान्ते पदचिह्निनेषु इति । अधिशब्दसप्रभीपुनरुक्तिप्रसङ्गान्नार्थपरत्वमिति भावः । पदद्वयोक्तिप्रयोजनमाह - काण्व इति । तस्य उत्तरमस्तु, ततः किमित्यत्राह - तदेतत् इति । अन्यस्मिन्नसंभवे श्रुत्यन्तराण्युदाहरति - तथा हि

इति । समानप्रकरणवाक्यमाह - तथा इति। पश्यत्वचक्षुः इति व्याहतमित्यत्राह - न च दर्शन इति । अनुगतनिमित्तमाह - अपि तु इति । अशब्दत्वऽपि व्याप्तिबलात् करणायत्तत्वमित्यत्नाह - स च इति । सोपाधिकमित्यर्थः । परोक्तयुकिं्त प्रतिवक्ति- नान्योऽतः इति । उक्तं विवृणोति यं पृथिवी इति । निन्यत्रन्तरम् इति । अतः शब्दखारस्येन उक्तलक्षणद्रष्टन्तरं निषिध्यते इति नियन्तृरूपद्रष्ट्रन्तरनिषेध इत्यर्थः । व्यतिरेकविभक्तिनिर्देशोऽपि शब्दविशेषात् इति पूर्वोक्तभेदहेतुतया अत्राभिप्रेत इत्याह - एष ते इति ॥ 19 ॥

न च स्मार्तमतद्धर्माभिलापाच्छरीरश्च ॥ 1-2-10 ॥

स्मार्तं - प्रधानम् … … प्रत्यगात्मनि व्यचतिरेकश्च सूत्रद्वयेन दर्शितः ॥ 20॥

न च स्मार्तमतद्धर्माभिलापाच्छारीश्चा। अप्रस्तुतस्मार्तनिरासः किमर्थ इत्यत्राह - एतदुक्तम् इति । सूत्रद्वयपोनरुक्त्यं नेत्याह अमिषाम् इति ॥ 20 ॥

निरपेक्षं च गेत्वन्तरमाह -

उभयेऽपि हि भेदेनैनमधीयते ॥ 1-2-12 ॥

उभये - माध्यन्दिनाः काण्वाश्च … … प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम् ॥ 21 ॥

उभयेऽपि हि भेदेनैनमधीयते । नियाभ्यतया इति भेदकधर्मोक्त्या भेदसिद्धिरित्यर्थः । अपवादाभावात् व्यतिरेकनिर्देशादिखारस्यसिद्धिः ॥ 21 ॥

इति अन्तर्याम्यधिकरणम् - 4