अन्तर उपपत्ते ॥ 1-2-13 ॥
इदमामनन्ति छन्दोगाः - य एषोऽक्षइणि पुरुषो दृश्यते । … … एव हि सर्वषु लोकेषु भाति इत्येषां गुणानां परमात्मन्येवोपपत्तेः ॥ 13 ॥
अन्तर उपपत्तेः । परस्य तं दुर्दर्शम् क इत्था वेद इति दुर्दर्शत्वोक्तेः , यएष दृश्यते इत्युक्तो न परः इति शङ्कया सङ्गतिरर्थसिद्धेनि न कण्ठोक्ता । य एष इति
प्रसिद्धवदुक्तिः । दृश्यते इति अपरोक्षत्वोक्तिः प्रतिबिम्बादीनां क्रमात् अपरोक्षकाल्पनिकश्रुतिप्रसिद्धयः ॥
राद्धान्ते एषाम् इति । निरुपाधिकानामिति भावः ॥ 13 ॥
स्थानादिव्यपदेशाच्च ॥ 1-2-14 ॥
यक्षुषि स्थितिनियमनादय … … योगिभिर्दृश्यमानात्वा दुपपद्यते ॥ 14 ॥
स्थानादिव्यपदेशाच्च । आदिशब्दात् धारकत्वावेद्यत्वादि । साधकहेतूक्तिफलितां पूर्वपक्षयुक्त्योरन्यथासिदिं्ध चाह - अतः इति ॥ 14 ॥
सुखविशिष्टाभिधानादेव च ॥ 1-2-15 ॥
इतश्चाक्ष्याधारः पुरुषोत्तमः … … प्रकृतस्यैव ब्रह्मणोऽत्नाभि धानादयमक्ष्याधारः परमात्मा ॥ 15 ॥
सुखविशिष्टाभिधानादेव च । अङ्गत्वादिविशेध इत्यत्राह - न च इति । अङ्गिफलाविरोधशङ्काव्युदासाय तद्विरोधि इत्युक्तम् । उच्यते इत्यादि । उभयत्र - उपक्रमोपसंहारयोः । हेतुचतुष्ट्येनाङ्गङ्गित्वमुक्तम् ।
प्राणो ब्रह्म इत्यादना फलविरोधमुपगम्याह - एवं च इति । स च नेत्याह - न च इति । परिपालयामः इति भुजेः परस्मैपदित्वात्
इति भावः । ननु इति । स्थानगुणयोर्वक्ष्यमाणत्वाकथात् तयोर्न विधेयत्वमिति न तद्विधानायात्र परमात्मोव्यत इत्यनयपरमित्यर्थः । परिगरति - तदभि इति । स्फुटम् ॥ 15 ॥
ननु च - कं ब्रह्म खं ब्रह्म … … मनो ब्रह्म इत्यादिवचनसारूप्यात् ॥
अनन्तरसूत्रशङ्कामाह - ननु च इति । यावता - प्रत्युत इत्यर्थः । वचनसारूप्यात् इति । ब्रह्मशब्दस्य पश्चादुपादानात् ब्रह्म दृष्टि विशेषममित्यर्थः । ब्रह्मशब्देन निगमनाभावाच्चेति भावः॥
तत्राह -
अत एव च स ब्रह्म ॥ 1-2-16 ॥
यतस्तत्र यदेव कं तदेव खम् . .. … तदेव चात्राक्ष्याधारतयाऽभिधीयते इत्यक्ष्याधारः परमात्मा ॥ 16 ॥ (252-253)
अत एव च स ब्रह्म । निगमनवाक्यानुसारात् सः इति पुल्लिङ्गता । यदेव कम्
इत्यर्थोपादानं, न वाक्योपादानम् । यद्वावकम् इति वाक्यम् । अत्राप्यन्योन्यदृष्टिविधिः स्यात्, कथं च ख शब्दोक्तस्य ब्रह्मत्वमित्यत्नाह - एतदुक्तम् इति । ज्ञातत्वाज्ञातत्वमिति बेषम्यं च कथं, कथं च खस्य सुखविशिष्टत्वमिति शङ्कायां तद्विवरीतुमाह अस्यायम् इति । दृष्टिविधिपरत्वे ज्ञातत्वाज्ञाविभागायोगात् मुमुक्षुं प्रत्युपदेशात् अर्थान्तराज्ञानं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगाच्च मिथो व्यवच्छेदकत्वे स्थिते सति वाक्यस्यार्थमाह - ब्रह्मणः इति । अतः - दृष्टिविधित्वायोगेन अनन्तसुखरूपब्रह्मपरोक्रमवाक्यानुगुण्यादुपसंहारवक्यस्येत्यर्थः । यया शङ्कया सूत्रौत्थानं, तस्याः परिहृतत्वमाह - अतः कम् इति । सूत्रार्थं परमप्रकृतेन सङ्गमयति - तदेव च इति ॥ 16 ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ 1.2.17 ॥
शुतोपनिषत्कस्य - अधिगतपरमपुरुषयाथात्भ्यस्य … … … अतोऽप्ययमक्षिपुरुषः परमात्मा ॥ 17 ॥
श्रुतोपनिषत्कगत्वभिधानाच्च । श्रुतोपनिषत्कस्य इति व्यस्य निर्देशो व्याख्यानाय ॥ 17 ॥
अनवस्थितेरसंभवाच्च नेतरः ॥ 1-2-18 ॥
प्रतिबिभ्बादीनामक्षिणि नियमेनानवस्थानात् … … … तस्मात् अक्षिपुरुषः परमात्मा ॥ 18 ॥
अनवस्थितेरसंभवाच्च नेतरः । पदद्वयेनादिमसूत्रद्वयार्थव्यतिरेको धीस्थक्रमेण दर्शितः । रश्मिभिः इति विद्यानिष्ट इतिवत् वशीकारमात्नाभि प्रायः प्रतिष्ठित शब्दः । खट्वदिद्वारकप्रासादशयनवत् सद्वारकतया चक्षुः - संबन्धोपपत्तिरित्यर्थः । अधिकरणार्थणुपसंहरति - तस्मात् इति ॥ 18 ॥
इति अन्तराधिकरणम् -3