२ अत्त्रधिकरणम्

यदि परमात्मा न भोक्ता एवं तर्हि …

अत्ता चराचरग्रहणात् ॥ 1-2-9 ॥

कठवल्लीष्वाभ्नायते - यस्य ब्रह्म च … …. जगदुपसंहारित्वरूपं परमात्मन एव ॥ 9 ॥

अवान्तरसङ्गतिमाह - यदि इति । अत्ता चराचरग्रहणात् । अत्तुशब्दाश्रुतेः ।

सूचित इत्युक्ता ।

राद्धन्ते चराचरसंहाररूपतायां हेतुद्वयमाह - सोऽध्वनः इत्यादिना । ब्रह्मक्षत्र शब्दो कृत्स्नचराचरप्रदर्शनार्थाविति भावः । मृत्यूपसेचनत्वं कथं चरारराद्यदनीयत्वमित्यत्नाह - उपसेचनं हि इति ॥ 9 ॥

प्रकरणाच्च ॥1-2-10 ॥

प्रकरणं चेदं परस्यैव ब्रह्मणः …. … तत्प्रसादादृते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुत प्रत्यभिज्ञायते ॥ 10 ॥

प्रकरणाच्च । प्रकरणोक्यं कथणित्यत्नाह - क इत्था इति ॥

अथ स्यत् - नायं भ्रह्मक्षत्नौदनसूचितः … … तदेतत् प्रकरणत्वात् पूर्वप्रस्तुतोऽत्ताऽपि स एव भवितुमर्हति

  • इति (143)

उत्तरत्य शङ्कामाह - अथ स्यात् इति । अनन्तरम् - न ह्यव्यवहितस्य विच्छेद इति भावः । अत्र प्रकरणात् ऋतपानलिङ्गबलीयस्त्वमुक्तम् । कथं भोवतुर्जिवत्वं, कथं वा द्वितीयस्य बुद्धिप्राणयोरन्यतरत्वमिंत्यत्राह - ऋचपानं हि इति । पूर्वोक्तात्तृत्ववत् जगत्संहर्तृत्वमपि बवक्तुं न शक्यमिति भावः । यथा इति । करणं कर्तृत्वोपचार इत्यर्थः । ततः किमत्तुर्जिवत्वस्येत्यत्राह - तदेक इति ॥

तत्रोच्यते -

गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ 1-2-11 ॥

न प्राणजीवौ बुद्धिजीवौ वा गुहां प्रविष्टौ … … यद्वा प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुषपपद्यते ॥ 11 ॥

गुहां प्रवष्टावात्मानौ हि तद्दर्शनात् । जीवस्यापि इति । गुहाप्रवेशो दृश्यते इत्यन्वयः । प्रकरणविच्छेदकलिङ्गासिद्धमाह - एवं च इति । मुख्यकल्पं निर्वाहान्तरमाह - यद्वा इति । प्रयोजककर्तुरपि कर्तृत्वमस्ति ॥ 11 ॥

विशेषणाच्च ॥ 1-2-12 ॥

अस्मिन् प्रकरणे जीवपरमात्मानावेव …. …. छायातपौ इत्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशेष्य व्यपदिश्येते ॥ (244-245)

विशेषणाच्च । शकेमहि - उपासितुमिति शेषः । इहाप्युदाहृतवाक्यैकार्थ्यादिति भावः ॥

अथ स्यात् येयं प्रेते विचिकित्सा मनुष्ये … … तदपोक्षितांश्च विशेषानुपदिदेश इति सर्वं समाञ्जसम् । अतः परमात्मैवात्तेति सिद्धम् ॥12॥

चतर्थे पादे वक्ष्यमाणावपि चोद्यपरिहाराविह सुग्रहत्वायोक्तौ, चोद्यस्य धीस्थत्वात् । अथ स्यात् इति । वरद्वयं किं, वरणायोगः कथमित्यत्राह - तथा हि इति । अत्र इति । मोक्षज्ञानाय तदनुबन्धि जिज्ञासया प्रश्न इत्यर्थः । तदुपाय इति । प्रतिवचनप्रकारादुपायादीनां पृष्टत्वावगमः । निखइल इति कारणशोधकाद्यर्थ उक्तः । विशेषान् प्रणवाग्रिविद्यादीन् ॥ 12 ॥

इति अत्त्रधिकरणम् ॥ 2 ॥