१ सर्वत्रप्रसिद्ध्यधिकरणम्

प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसा … स्पष्टलिङ्गकानि तृतीये ; तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे॥

प्रत्यधिकारणमनुगतस्य प्रथमपादर्थस्य त्रिपादीसङ्गत्यर्थं बुद्धिस्थत्वाय त्रि पादीसूत्रविषयभूतवाक्यानां प्रागुक्तन्यायाविषयतया तस्या आरम्भणीयत्वसिद्धये च प्रथमपादाधिकरणार्थानुक्रमः । शास्त्रारम्भसिद्ध्यर्थायाः चतुस्मूत्र्या अर्थात् प्रथमपादे सङ्गतिः । जनमादि त्रिसूत्र्याः प्रथमाधीनारंभात्वात् प्राथमिकार्थानुक्रमे शास्त्रारंभसिद्धये इत्युक्तम् । जन्मादि त्रिसूत्र्याः प्रथमपादे विशेषसङ्गतिश्चास्ति, चिदचिद्विलक्षणवस्तुलक्षणजन्मादिपरत्वात् । चिदचिद्विलक्षणवस्तुमद्भावो हि प्रथमपादार्थः । शास्त्रारंभ इति परमुतरत्रानुषङ्गेण चतुस्सूत्र्यर्थं वा ॥

प्रथमाधिकरणार्थमाह - अधीत इति । जन्माद्यधिकरणार्थमाह अनन्त इति। महानन्दैककारणम् इति तद्वजिज्ञासस्व इति फलितार्थ उक्तः । अब्रूमहि इत्यन्तं स्पष्टार्थम् । तत्तत्पदानां प्रयोजनवत्त्वं पूर्वानुरोधे नानुसन्धेयम् ॥

पादार्थमाह - तदेवम् इति । अतिपतित इति कुतर्काणां धर्मिग्राहकबाधोऽभिप्रेतः । चिदचिद्विलक्षणकारणास्तित्वं पादानुगतार्थ उक्तः । अतः परम् इति । उक्तस्य ब्रह्मकारणत्वस्यान्ययोगव्यवच्छेदः क्रियते इत्यर्थः ॥

जीवादि इति । अस्पष्ट इत्यादिकं न ब्रह्मलिङ्गगतमिति भावः । तत्तत् इति । तच्छब्दो लिङ्गिपरः । स्पष्टतरपूर्वपक्षबीजानि इत्यर्थः । द्वितीयाद्ये जीवलिङ्गावगमात् जीवादि इत्युक्तिः । अवयविस्वारस्यजीवपरताय इति शङ्कायाऽवान्तरसङ्गतिः । सर्वतादात्म्यमनःप्राणसंबन्धार्भकौकस्त्वाणुत्वादीनि जीवलिङ्गानि दृश्यन्ते ॥

सर्वत्र प्रसिद्धोपदेशात् ॥ 1-2-1 ॥

इदमाम्नायते छान्दोग्ये - अथ खलु क्रतुमयः … … उपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थं प्रयुक्तमित्यध्यवसीयते इति ॥

सर्वत्र प्रसिद्धोपदेशात् । विषयमाह - इदम् इति । प्रथम

योजनापेक्षितमात्रमुपात्तम् अथ खलु इत्यादिकम् , न तु सर्वम् इत्यादि । भारूपः इत्यादे द्वितीयसूत्रविषयत्वात् भारूप इत्यन्तमुपात्तम् । भाष्यान्तरानुरोधेन प्रथमयोजना । सर्वं खलु इत्यादेः परविषयत्वं स्फुटम् । अथ खलु इत्यादिविषयमिदं सूत्रमन्यैर्व्याख्यातम् ॥

पूर्वपक्षः

पूर्ववाक्यस्य परविषयत्वात्, तच्छेषत्वादुत्तरवाक्यान्यपि तथेति न जीवपरत्वशङ्का इत्यधिकरणमनारंभणीयमित्यत्राह - अत्र इति । विध्यन्त रोपास्यपरतया न पूर्वणैकविषयतेति जीवपरत्वशङ्कोचितेत्यर्थं#ः । प्रतिपादित स्योपासनस्य इति । क्रतुशब्दः उपासनपरः । न तु प्राग्विहित ब्रह्मोपासनाङ्गभूतकर्मपरः , यथाक्रतुः इत्यनेन फलसंबन्धदर्शनात् । तत्र च क्रतुः उपास्तिः तं यथा यथोपासते इत्येतदैकार्थ्यात् । प्राक् ब्रह्मोपासने विहितेऽपि जीवस्य क्रतुप्रचुरत्वात् , तदुपास्त्यन्तरविधिश्चोपपन्न इति भावः । तत्र इत्यादि स्पष्टम् । उपकरणोपकरणित्वलक्षणसंबन्ध विशेषस्यास्फुटत्वात् अस्पष्टलिङ्गता ॥

प्राक् प्रकृतं ब्रह्मैव क्रतुं कुर्वीत इत्यत्रोपास्यतया संबध्य मनोमयत्वादिविशेष्यं स्यादिति शङ्कायां , किं ब्रह्मपदस्य विधिपदाकांक्षया, उत क्रतुं कुर्वीत इत्यस्योपास्याकांक्षया वा ब्रह्मशब्दस्योत्तरत्रान्वय इति विकल्पमभिप्रेत्य, प्रथमं शिरः प्रतिवक्ति - न च सर्वम् इत् । अन्यार्थ तया निराकांक्षत्वादित्यर्थः । द्वितीयं प्रतिवक्ति - न च स क्रतुम् इति अनन्यार्थेन स्ववाक्यार्थेन निराकांक्षत्वादित्यर्थः । विभक्ति इति । प्रथमान्तस्येव द्वितीयान्तस्याप्यनन्वयः , अषष्ट्यन्तत्वाविशेषात् विपरिणामस्तु सन्निहितानन्यार्थपदस्यैवोचित इत्यर्थः । उभयाकांक्षा - विधिपदमनोमयादि पदाकांक्षा ॥

सिद्धान्तः

एवं प्राप्ते ब्रूमः - सर्वत्र प्रसिद्धोपदेशात् । मनोमयत्वादि गुणकः … … मनायत्तं ज्ञानं प्राणायत्तां स्थतिं च ब्रह्मणो निषेधति ॥

राद्धान्तमाह - एवम् इति । सर्वत्र प्रसिद्धोपदेशात् । सर्वत्र सामान्यविशेषशब्दवत्सु इति भावः । मनोमात्रेण

संबन्धमात्रं दर्शितं मनोमय इति वाक्ये ;

हृदा इत्यत्र संबन्धविशेषः । न चक्षुषा इत्यत्रमनोविशेषण संबन्धविशेषः। प्राणशरीरत्वं दर्शयति - तथा इति । प्राणः - धारकः । धारको हि शरीरी । उपसंहारविरोधमाह - एवम् इति । निषेधाविरोधमाह - अप्राण इति ॥

अथवा - सर्वं खल्विदं ब्रह्म ज्जलानिति … … अनाद्य विद्यया देवतिर्यङ्मनुष्यस्थावरात्मनाऽवतिष्ठते इति ।

पूर्वपक्षः 2

स्वामिमतयोजनामाह - अथवा इति । अध्याहार्यप्रतिज्ञत्वात् , आद्यन्तगतब्रह्मशब्दद्वयविषयैक्यखारस्यविरोधात् , एवंविच्छान्तः इति शान्तेः श्रवणमनननिष्पाद्यत्वदर्शनात् , तदुपायोपास्त्यान्तरादर्शनात् आशंसार्यत्वं शान्तशब्दास्वारस्यात् , वृत्त्यननुरोधाच्च प्राग्योजना न वरमिति भावः । अत्रैव इति । न तु शान्त्युपायमुक्त्युपाययोरस्ति भिदा इत्यर्थः । शान्त शब्दस्वारस्यं दर्शयन् वाक्यार्थमाह - सर्वात्मकम् इति । उपादानम् - विधानम् । अनुवादः - दध्ना जुहोति इत्यत्र होमवत् । वाक्यार्थमाह - अतः इति । एवमेकविषयत्वमङ्गीकृत्य संशयमाह - तत्र इति । अविद्याकर्मणोरनादित्वं बीजाङ्कुरनयात् । परस्य तदनुपपत्तिमाह परस्य तु इति । ब्रह्मशब्दः कथमित्यत्राह - प्रत्यक् इति । उपपादयति अत इति । प्रवृत्तिनिमित्त्योगं दर्शयति - प्रत्यक् इति । कारणत्वं निर्वहति - अविदुषः इति । ब्रह्मत्वं शुद्धे , कारणत्वं बद्धे । तत् कथं ब्रह्मत्वसर्वत्वसामानाधिकरण्यमित्यत्राह - तदयम् इति ॥

अत्र प्रतिविधीयते - सर्वत्र प्रसिद्धोपदेशात् । … … यथाह वृत्तिकारः - सर्वं खल्विति सर्वात्मा ब्रह्मोशः इति ॥ 1 ॥

सिद्धान्तः

राद्धान्तमाह - अत्र इति । सर्वत्र प्रसिंद्धोपदेशात् । सर्वत्र सर्व शब्दो न वाचकपरः । किं तु वाच्यपर इति भावः । प्रसिद्धस्य हि हेतुत्वम् । हेतुतयोक्त्या जन्मादीनं प्रसिद्धतयोपदेशः । खलुना तादात्म्यस्य प्रसिद्धतयोक्तिरित्यर्थः । उक्तं स्पष्टयति - ब्रह्मण इति । प्रसिदिं्ध दर्शयति तथा हि इति। यतो वाचः इत्यादेर्जीवपरत्वञ्यावृत्त्यर्थमाह - आनन्द इति । आनन्द शब्दस्य आनन्दमयपरत्वं स्पष्टयति - पूर्वानुवाक इति । वाक्यान्तरमाह - स कारणम् इति । कारणत्वकृततादात्म्यमप्यर्थसिद मित्यभिप्रेत्याह - अतः इति । श्रुत्यन्तरेषु कारणतया

तादात्म्योपदेशात् इंहोक्तं तादात्म्यमुपपन्नमित्यर्थः । चिदचिद्विलक्षणस्य कथं तादात्म्यमित्यत्राह अतः इति । श्रुतिभिरेव तदनत्वोक्तेः आत्मत्वसिद्धरित्यर्थः। स्थितो हि देहात्भावःन तु कारणदशायाम् ; तदानीमैक्योक्तेरित्यत्राह - परं ब्रह्म हि इति । वस्तुसामर्थ्यात् कण्ठोक्त्या चेति भावः । तत- किमित्यत्राह एवंभूत इति ॥

यदुक्तम् इत्यादि स्फृटम् । जीवकर्म इति । कर्तृत्वोपादनते ब्रह्मणः ; कर्म तु वैषम्यमात्रहेरित्यर्थः । अतः इति निगमनम् । खोक्तार्थस्य सांप्रदायिकत्वमाह - इममेव इति । सर्वं खलु इति वाक्ये सर्वात्मकत योक्तं ब्रह्म ईशः परमात्मेत्यर्थः

॥ 1॥

विवक्षितगुणोपपत्तेश्च ॥ 1-2-2 ॥

वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते … … जोषमासीन इत्यर्थः । त एते विवक्षिता गुणाः परमात्मन्येवोप पद्यन्ते ॥ 2॥

विवक्षितगुणोपपत्तेश्च । वक्तुमिच्छिविषयत्वम् - विवक्षितत्वम् । तदनन्तरभाविवचनविषयत्वमिति वक्ष्यमाणा इत्युक्तम् । मनोमय शब्दं सामान्यविशेषवाक्यानुगुणं व्याचेष्टे - परिशुद्धेन इति । एकेन इति । अब्भक्ष वत् अवधारणगर्भत्वमभिप्रेतम् । तद्विवृणोति- विवेक इति । फलितमाह -

अनेन इति । कुत इत्यत्राह - मलिन इति । व्यापक निवृत्त्या वायप्यनिवृत्तिः । आधेयत्वादिसिद्धिः कथमित्यत्राह कथमित्यत्राह - आधेयत्व इति । भा दीप्तिः , तद्धर्मको भारूपः । तद्धर्मकत्वं विग्रहद्वारा इत्याह भास्वर इति । आकाश एव तदोतं प्रोतं च इत्युक्तप्रत्यभिज्ञाभिप्रायेणाह सकलेतर इति । प्रकाशयति , स्वस्मा इत्यर्थः । सर्वा वा इति । सर्वकर्माराध्य इत्यर्थः । निषेधस्य विहितव्यतिरिक्तविषयत्वमभिप्रेत्याह - तत इति । कुत इति - कुत इत्यत्राह इत्यर्थः । अत एव - न तु वाक्सामर्थ्याभावादिति भावः । तत् विवृणोति - परिपूर्णा इति । निगमयति - त एते इति ॥ 2 ॥

अनुपपत्तेस्तु न शारीरः ॥ 1-2-3 ॥

तमिमं गुणसागरं पर्यालोचतयां … …. नास्मिन् प्रकरणे शारीरपरिग्रशहङ्का जायत इत्यर्थः ॥ 3 ॥

मुक्तेऽप्यसंभवं व्यतिरेकमुखेनाह - अनुपपत्तेस्तु न शारीरः । मुक्तेऽप्यनुपपत्त्यर्थं योग्यशब्दः । बद्धोक्तिः दृष्टान्ततया ॥ 3 ॥

कर्मकर्तृव्यपदेशाच्च ॥ 1-2-4 ॥

एतमितः प्रेत्यामिसंभविताऽस्मि … … प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥ 4 ॥

कर्मकर्तृव्यपदेशाच्च । व्यतिरेकोपपादनपरमिदम् । प्राप्यप्राप्तृभेदः सौत्रः । ततः किं सर्वं खलु इत्युक्तस्योपास्यस्य जीवात् भेदस्य इत्यत्राह - अतः इति ॥4 ॥

शब्दविशेषात् ॥ 1-2-5॥

एष म आत्माऽन्तर्हृदये … … पुरुषो हिरण्मयः इति प्रथमयोपास्यः । अतःपर एवोपास्यः ॥ 5 ॥

परमसाध्यस्य हेतुमाह - शब्दविशेषात् । असमानविभक्तिनिर्देशोऽभिप्रेतः सनानप्रकरणे शाण्डिल्यविद्यायाम् ॥ 5 ॥

इतश्च शारीरादन्यः -

स्मृतेश्च ॥ 1-2-6 ॥

सर्वस्य चाहं हृदि सन्निविष्टः … … … परमात्मानं चोपास्यं स्मृतिर्दर्शयति ॥ 6 ॥

स्मृतेश्च । हृदिस्थितौ अपास्योपासकभेदे च स्मृतिर्दशिंता ॥ 6 ॥

अर्भकौकस्त्वात् तद्व्यापदेशाच्च नेति चेन्न

निचाय्यत्वादेवं व्योमवच्च ॥ 1.2-7 ॥

अल्पायतन्त्वम् - अर्भकौकस्त्वम् । … … अत उपासनार्थमर्भकौकस्त्वमणीयस्त्वं च ॥ 7 ॥

अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं वेयोमवच्च । अल्पत्वाक्षेपकोक्तेः तत्कण्ठोक्तेश्च इत्यर्थः । परस्य तद्वैधर्म्यमाह - अपि तु इति। विपरीतं कस्मान्नेत्यत्राह - तथा हि इति । प्रकरणाविच्छेदाय अथ खलु इत्याद्युक्तम्। स्वरूपगुणान् अद्वारकगुणान् । पूर्वत्र उत्तरत्र च विभुत्वोक्तेः मध्येऽल्पत्वमुक्तमौपाधिकमित्यर्थः ॥

संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ 1.2-8 ॥

जीवस्येव परस्यापि … … तयोरन्यः पिप्पलं स्वादूत्ति अनश्नन्नन्योऽभिचाकशीति

इति ॥ 8 ॥

संभोगप्राप्तिरिति चेन्न वैशेष्यात् । शरीरान्तर्वर्तित्वम् - हृदि स्थितत्वम् । वैशेषयं - विशेषः ॥ 8 ॥

इति सर्वत्रप्रसिद्ध्यधिकरणम् -1