कारिकावली

[[श्रीशारीरककारिकावली Source: EB]]

[

**॥ श्री शारीरककारिकावली ॥ **

जगत्सृष्ट्यादिलीलं तमनघं सद्गुणालयम् ।
उपास्यं मुक्तिदं प्राप्यं महादेवीशमाश्रये ॥ 1 ॥

रामानुजाङ्घ्रिकमलं भायान्मन्मानसे सदा ।
यदामोदाद्भाति लोके निस्तुलं वैष्णवं कुलम् ॥ 2 ॥

त्रय्यन्तार्यपदत्राणात् श्रेयोदं नेतरद्भुवि ।
यदालम्ब्य भवाम्भोधिं तरन्ति सुधियस्सुखम् ॥ 3 ॥

यस्याहं चरणध्यानात्सत्तां प्राप्तोऽस्तकल्मषः ।
स ददातु धियं भाष्ये श्रीराघवगुरूत्तमः ॥ 4 ॥

वेदान्तार्थविचारैकनिष्ठो यतिपतिर्महान् ।
श्रीरङ्गरामावरजः लसतान्मेऽनिशं हृदि ॥ 5 ॥

श्रीमद्भाष्याधिकरणप्रधानार्थान् गुरोः श्रुतान् ।
सङ्गृह्याद्य यथाबुद्धि लिखाम्याचार्यवीक्षया ॥ 6 ॥

पाण्डित्यादिख्यापनाय नारभे कार्यमीदृशम् ।
किन्तु भाष्यार्थचिन्ताख्यतात्कालिकफलेप्सया ॥ 7 ॥

स्यादेव महतां प्रीत्यै बालिशस्यास्य भाषितम् ।
न ददाति शुकीया वाक् बुधानामपि किं मुदम् ॥ 8 ॥

स्वशिष्यजैमिन्यृषिणा व्यासो वेदार्थनिर्णयम् ।
षोडशाध्यायसूत्रौधेः कारयामास तत्त्ववित् ॥ 9 ॥

द्वियुगाध्यायशारीरशास्त्रो व्यासेन विष्णुना ।
तेनैव ब्रह्म वेदान्तवेद्यं सम्यङ्निरूपितम् ॥ 10 ॥

व्यासावतारो भगवान् रामानुजमुनिस्स्वयम् ।
तदध्यायस्थसूत्राणां भाष्यं चक्रेऽद्भुतं महत् ॥ 11 ॥

आद्यद्विकेनेश्वरस्य कारणत्वं समर्थितम् ।
उत्तरेण द्विकेनोक्तं साधनं च फलं क्रमात् ॥ 12 ॥

आद्ये समन्वयाध्याये वाक्यतात्पर्यनिर्णयात् ।
ब्रह्मणस्सर्वजगतां कारणत्वं प्रसाधितम् ॥ 13 ॥

तत्राऽयोगव्यवच्छेदपाद आद्ये निरूपितम् ।
ब्रह्म कारणमेवेति तत्तद्वाक्यविचारतः ॥ 14 ॥

आदावत्र चतुस्सूत्र्या मानानुगुणयुक्तिभिः ।
शास्त्रानारम्भणीयत्ववादस्सम्यङ्निरस्यते ॥ 15 ॥

॥ इति अवतारिका ॥

॥ प्रथमं जिज्ञासाधिकरणम् ॥

सू ॥ ओं ॥ अथातो ब्रह्मजिज्ञासा 1.1.1. ॥

वृत्तादल्पास्थिरफलकर्मज्ञानादनन्तरम् ।
तत एवानन्तफलं ब्रह्म जिज्ञास्यमुच्यते ॥ 16 ॥

व्युत्पत्त्यसंभवाधीनशास्त्रानारंभचोदनम् ।
निरस्यतेऽत्र जीज्ञासाधिकृतौ सूपपत्तिभिः ॥ 17 ॥

(पूर्वपक्षः )

व्युत्पत्त्यसंभवाद्वृद्धव्यवहारानपेक्षया ।
कार्यार्थज्ञानहेतुत्वात् व्यवहारस्य तादृशे ॥ 18 ॥

कार्यार्थ एव शब्दस्य प्रामाण्यमिति निश्चयः ।
ब्रह्मणस्सिद्धरूपत्वान्मानं नात्र श्रुतिर्भवेत् ॥ 19 ॥

अतश्च तद्विचारो न कार्योऽत्रेति मत न सत् ।
( सिद्धान्तः )

पुरस्स्थितान् तत्तदर्थान् निर्दिश्याऽङ्गुलिमुद्रया ॥ 20 ॥

तत्तद्वाचकशब्दांश्च प्रयुज्य जनकादयः ।
बालान्व्युत्पादयन्तीममवेहीत्यादियत्नतः ॥ 21 ॥

अतश्शब्दार्थशक्तिज्ञास्ते भवन्ति क्रमात्स्वयम् ।
एवमादिप्रकारेण सिद्धे व्युत्पत्तिसंभवात् ॥ 22 ॥

प्रामाण्यमागमान्तानां सिद्धे ब्रह्मणि सुस्थितम् ।
अतश्च ब्रह्ममीमांसा कार्यैवेति समर्थितम् ॥ 23 ॥

एवमाक्षेपसिद्धान्तौ सूचितौ सूत्र आदिमे ।
विचारविषयत्वस्य ब्रह्मण्यत्र प्रदर्शनात् ॥ 24 ॥

॥ इति जिज्ञासाधिकरणम् ॥

  1. ॥ जन्माद्यधिकरणम् ॥

॥ जन्माद्यस्य यतः ॥ 1.1.2.

लक्षणं किं ब्रह्मणोऽस्य यत् जिज्ञास्यतयोच्यते ।
इत्याकाङ्क्षापूरणाय ब्रह्मलक्षणमुच्यते ॥ 25 ॥

यत इत्यादिवाक्यानि पठ्यन्ते तैत्तिरीयके ।
यतो जन्मस्थितिलया भवन्ति जगतोऽस्य तत् ॥ 26 ॥

ब्रह्मेति लक्षणं जन्मकारणत्वादि कथ्यते ।
(पू) ब्रह्म लक्षणतो वाक्यात् प्रतिपत्तुं न शक्यते ॥ 27 ॥

विशेषणत्वेन वोपलक्षणत्वेन वा तथा ।
जन्मादीनां ब्रह्मणोऽस्य लक्षणत्वं न संभवेत् ॥ 28 ॥

विशेषणत्वपक्षे हि तेषां व्यावर्तकत्वतः ।
व्यावर्तितं त्रिभिस्तैश्च ब्रह्माऽनेकं भवेत्तथा ॥ 29 ॥

द्वितीयेप्युपलक्ष्यस्य ज्ञाताकारो ह्यपेक्षितः ।
ब्रह्मणस्तदभावाच्च पक्षोप्येष न सङ्गतः ॥ 30 ॥

इत्थं लक्षणतो ब्रह्म प्रतिपत्तुं न शक्यते ।
अतो जिज्ञास्यत्वमस्य नेति वादोऽसमञ्जसः ॥ 31 ॥

(सि) अविरुद्धैः कालभेदाज्जन्मकारणतादिभिः ।
विशेषणैर्ब्रह्मणोऽस्य बहुत्वापादनं न सत् ॥ 32 ॥

श्रीपतित्वादिनाऽन्यत्र प्रतिपन्नं च वस्तु तत् ।
ज्ञाप्यते ब्रह्मशब्दार्थतया तैर्लक्षणैरिह ॥ 33 ॥

तस्माज्जन्मस्थेमलयकारणत्वत्रयं पृथक् ।
लक्षणं ब्रह्मणोऽस्य स्यात् संभूयापि च तद्भवेत् ॥ 34 ॥

॥ इति जन्माद्यधिकरणम् ॥

  1. ॥ शास्त्रयोनित्वाधिकरणम् ॥

॥ शास्त्रयोनित्वात् ॥ 1.1.3.

(पू) यद्यपि ब्रह्म शक्यं तत्प्रतिपत्तुं च लक्षणैः ।
तथापि तद्ब्रह्म वेद्यमनुमानप्रमाणतः ॥ 35 ॥

मानान्तरावेद्यमेव शास्त्रवेद्यं भवेदतः ।
यत इत्यादिवाक्यानां प्रामाण्यं नात्र सङ्गतम् ॥ 36 ॥

(सि) मैवं सिषाधयिषितं सर्वज्ञं सर्वशक्तिकम् ।
जीवाद्विलक्षणं ब्रह्म न सिद्ध्येदनुमानतः ॥ 37 ॥

अतोऽन्यमानावेद्यत्वात् शास्त्रैकविषयत्वतः ।
ब्रह्मणस्तत्र शास्त्राणां प्रामाण्ये कापि न क्षतिः ॥ 38 ॥

॥ इति शास्त्रयोनित्वाधिकरणम् ॥

  1. ॥ समन्वयाधिकरणम् ॥

॥ तत्तु समन्वयात् ॥ 1.1.4.

(पू) अप्राप्तत्वेऽप्यन्यमानैः प्रवृत्त्यादावनन्वयात् ।
ब्रह्मणस्सिद्धरूपत्वाच्चाप्रयोजनरूपतः ॥ 39 ॥

शास्त्रस्य तस्मिन्प्रामाण्यासंभवात्तद्विबोध्यता ।
नास्य संभवतीत्येवं वादोऽतीवाऽसमञ्जसः ॥ 40 ॥

(सि) शास्त्रप्रमाणकत्वं तत् पुरुषार्थतयाऽन्वयात् ।
ब्रह्मणस्संभवत्येव वेदान्ताः पुरुषं परम् ॥ 41 ॥

निर्गतावधिकानन्दस्वरूपं बोधयन्ति हि ।
गुणवत्पुत्रपित्रादिजीवनज्ञानवत्तथा ॥ 42 ॥

ब्रह्मज्ञानमपीदृक्षं पुरुषार्थात्मकं भवेत् ।
अत्युत्कृष्टपुमर्थेऽस्मिन् परमानन्ददे स्वयम् ॥ 43 ॥

आनन्दरूपे शास्त्रस्य बोधकत्वेन चान्वयात् ।
शास्त्रप्रमाणकत्वं तत् ब्रह्मणस्तस्य सिद्ध्यति ॥ 44 ॥

॥ इति समन्वयाधिकरणम् ॥

  1. ॥ ईक्षत्यधिकरणम् ॥ 1.1.5.

सू ॥ ईक्षतेर्नाशब्दम् ॥ 1.1.5.

इत्थं कृतं चतुस्सूत्र्या शास्त्रारंभसमर्थनम् ।
प्रधानादेः कारणत्ववादोऽथ क्षिप्यते क्रमात् ॥ 45 ॥

सद्विद्यायां कारणत्वं प्रकृतेः श्रूयतेऽचितः ।
कथं जगत्कारणस्य पुरुषार्थत्वसंभवः ॥ 46 ॥

इत्युक्तिशमनायाऽभूदीक्षत्याधिकृतिस्ततः ।
(पू) गुणत्रयात्मकस्यास्य जगतो वस्तु तादृशम् ॥ 47 ॥

उपादानं भवेत्कार्यसाजात्यं स्यात्तथा सति ।
तत्तेज ऐक्षतेत्यादौ गौणेक्षाश्रवणात्तथा ॥ 48 ॥

तदैक्षतेति वाक्येपि गौणमेवेक्षणं भवेत् ।
अत्र प्रतिज्ञादृष्टान्तकथनाच्चानुमानिकम् ॥ 49 ॥

प्रधानमेव सच्छब्दवेद्यमित्याद्यसन्मतम् ।
(सि) सच्छब्दार्थः प्रधानं न सत ईक्षितृताश्रुतेः ॥ 50 ॥

ब्रह्मणश्चिदचिन्मूर्तेस्सर्वसाजात्यसंभवात् ।
मुख्येक्षासंभवाच्चात्र हेतोरप्रतिपादनात् ॥ 51 ॥

अनुमानाप्रतीतेश्च च्छान्दोग्यश्रुतिगोचरे ।
सद्विद्यावादिवाक्ये सत्पदोक्तः परः पुमान् ॥ 52 ॥

सू- ॥ गौणश्चेन्नात्मशब्दात् ॥ 1-1-6.

(पू) गौणी तदैक्षतेतीक्षा गौणेक्षासाहचर्यतः ।
(सि) मैवं सच्छब्दवाच्येऽस्मिन् ईक्षितर्यात्मशब्दतः ॥ 53 ॥

मुख्यैवेक्षाऽत्राऽऽत्मगता तेज आदेरपीक्षणम् ।
मुख्यं सदात्मकत्वात्तस्यै तदात्म्यमिति श्रुतेः ॥ 54 ॥

सू ॥ तन्निष्ठस्य मोक्षोपदेशात् ॥ 1-1-7.

सदुपासननिष्ठस्य जीवस्य परमं फलम् ।
मोक्षाख्यं श्रूयतेऽतश्च सद्वाच्यं ब्रह्म न त्वजा ॥ 55 ॥

सू ॥ हेयत्वावचनाच्च ॥ 1-1-8.

यदीह कारणतया प्रधानं तद्विवक्षितम् ।
तस्य मोक्षविरोधित्वादुच्येताऽमुष्य हेयता ॥ 56 ॥

न चोच्यते हेयताऽतः प्रधानं न विवक्षितम् ।
सू ॥ प्रतिज्ञाविरोधात् ॥ 1-1-9.

येनाश्रुतं श्रुतमिति प्रतिज्ञाऽत्र विरुद्ध्यते ॥ 57 ॥

सद्विज्ञानेन चिदचित्प्रपञ्चज्ञानमत्र हि ।
प्रतिज्ञातं प्रधानं चेद्वाच्यं जीवगणान्प्रति ॥ 58 ॥

प्रधानस्याकारणत्वात् ज्ञायन्ते ते न तद्धिया ।
तस्मादसङ्गता सा स्यात्प्रतिज्ञाऽतश्च न त्वजा ॥ 59 ॥

सू ॥ स्वाप्ययात् ॥ 1-1-10.

सुषुप्तस्य चितस्स्वीयहेतौ सत्यप्ययश्रुतिः ।
विरुद्धा स्यात्प्रधानस्याकारणत्वाच्चितं प्रति ॥ 60 ॥

सू - ॥ गतिसामान्यात् ॥ 1-1-11.

इतरोपनिषद्वाक्यसमानार्थतयाऽस्य च ।
कारणं न प्रधानं स्यात्परं ब्रह्मैव कारणम् ॥ 61 ॥

सू - ॥ श्रुतत्वाच्च ॥ 1-1-12.

आत्मतः प्राण इत्यादि श्रूयतेऽत्रैव सामनि ।
अतः प्राधानादेवान्यत्सर्वज्ञं ब्रह्म कारणम् ॥ 62 ॥

॥ इति ईक्षत्यधिकरणम् ॥

॥ आनन्दमयाधिकरणम् ॥

सू - ॥ आनन्दमयोऽभ्यासात् ॥ 1-1-13.

अचेतनस्य मुख्येक्षाऽसंभवात्तन्न कारणम् ।
इत्युक्तं तर्हि जीवोऽस्त्वित्याक्षेपोऽत्र निरस्यते ॥ 63 ॥

(पू) आनन्दवल्ल्यां विज्ञानमयादन्योऽन्तरस्तथा ।
आत्माऽऽनन्दमयस्तेने त्यादिवाक्यं प्रपठ्यते ॥ 64 ॥

स चानन्दमयो जीवस्तस्य शारीरताश्रुतेः ।
जीवासाधारणं तच्च शारीरत्वमतोऽस्य च ॥ 65 ॥

अत्रेक्षापूर्विकासृष्टिश्चेतनत्वात्सुसङ्गता ।
(सि) मैवमत्रानन्दमयः परो जीवाद्विलक्षणः ॥ 66 ॥

निर्गतातिशयत्वेनाऽभ्यस्तानन्दस्य योगतः ।
तादृशानन्दयोगित्वं जीवस्यास्य न संभवेत् ॥ 67 ॥

शारीरत्वं मुख्यमेव ब्रह्मणश्चिदचित्तनोः ।
तस्मादत्रानन्दमयः परमात्मेति गीयते ॥ 68 ॥

सू- ॥ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ 1-1-14.

(पू) मयटोऽस्य विकारार्थतयाऽत्राविकृतः परः ।
(सि) न वाच्य इति चेन्नैतन्मयट् प्राचुर्यबोधकः ॥ 69 ॥

तादृगेव मयट् पूर्वं प्रकृतोऽतः परः पुमान् ।
यतो वाच इति प्रोक्तानन्दप्राचुर्यवानयम् ॥ 70 ॥

सू - ॥ तद्धेतुव्यपदेशाच्च ॥ 1-1-15.

जीवानन्दयितृत्वं चास्यै षह्येवेति वाक्यतः ।
उच्यतेऽतश्च जीवात्स्यादन्य आनन्दरूप्ययम् ॥ 71 ॥

सू - ॥ मान्त्रवर्णिकमेव च गीयते ॥ 1-1-16.

सत्यमित्यादिमन्त्रोक्तं ब्रह्मैव ह्यत्र गीयते ।
आनन्दमयशब्देनातश्चन्दमयः परः ॥ 72 ॥

सू - ॥ नेतरोऽनुपपत्तेः ॥ 1-1-17.

मन्त्रवर्णोदितो न स्याञ्जीवो यो ब्रह्मणः परः ।
ब्रह्मैकान्तविपश्चित्त्वधर्मस्यानुपपत्तितः ॥ 73 ॥

सू - ॥ भेदव्यपदेशाच्च ॥ 1-1-18.

तस्माद्वा इति वाक्येन विज्ञानमयशद्बितात् ।
अस्यानन्दमयस्योक्तो भेदो जीवादतः परः ॥ 74 ॥

सू - ॥ कामाच्च नानुमानापेक्षा ॥ 1-1-19.

सङ्कल्पेन जगत्सृष्टिर्नाजापेक्षाऽस्य विद्यते ।
जीवस्य तदपेक्षाऽल्पेप्यतश्चायं परः पुमान् ॥ 75 ॥

सू - ॥ अस्मिन्नस्य च तद्योगं शास्ति ॥ 1-1-20.

आनन्दयोग आनन्दमये जीवस्य कथ्यते ।
रसं ह्येवेत्यादिवाक्यात्तस्माज्जीवान्य इष्यते ॥ 76 ॥

॥ इत्यानन्दमयाधिकरणम् ॥

॥ अन्तरधिकरणम् ॥ 1-1-7 ॥

सू - ॥ अन्तस्तद्धर्मोपदेशात् ॥ 1-1-21.

जीवसामान्यस्य पूर्वं कारणत्वं निराकृतम् ।
तद्विशेषे तदाशङ्क्य न्यायेऽमुष्मिन्निरस्यते ॥ 77 ॥

(पू) छान्दोग्ये यो य एषोऽन्तरिति वाक्ये श्रुतः पुमान् ।
अक्ष्यादित्याधारतया स च जीवो विलक्षणः ॥ 78 ॥

शरीरवत्वश्रवणात् जीवा एव हि तद्युजः ।
(सि) मैवमक्ष्यादित्यवर्ती परमात्मैव नेतरः ॥ 79 ॥

उपदेशादपहतपाप्मत्वादिगुणावलेः ।
शरीरवत्वं न स्याद्धि कर्मवश्यत्वसाधकम् ॥ 80 ॥

अप्राकृतस्स्वानुरूपो दिव्यमङ्गलविग्रहः ।
स्वेच्छागृहीत एवास्तीत्याम्नायैर्ज्ञायतेऽखिलैः ॥ 81 ॥

सू - ॥ भेदव्यपदेशाच्चान्यः ॥ 1-1-22

य आत्मनीत्यादिवाक्यैरादित्यमुखजीवतः ।
भेदोपदेशादन्योऽन्तरात्मा नारायणः प्रभुः ॥ 82 ॥

॥ इत्यन्तरधिकरणम् ॥

॥ आकाशाधिकरणम् ॥ 1-1-8 ॥

सू - ॥ आकाशस्तल्लिङ्गात् ॥ 1-1-23.

कारणं वस्तु निर्णीतं चिदचिद्भ्यांविलक्षणम् ।
तदसङ्गतमित्येष वादोऽत्र विनिवार्यते ॥ 83 ॥

(पू) साम्नि सर्वाणि हे त्यादौ कारणत्वेन संश्रुतः ।
आकाशो वियदेव स्यात् लोके तत्र प्रयोगतः ॥ 84 ॥

कुतो भूतानि जायन्त इत्यनिर्धारणे सति ।
आकाशादितिवाक्यं स्याद्विशेषार्थसमर्पकम् ॥ 85 ॥

(सि) मैवमत्राकाशशब्दवाच्यः परमपुरुषः ।
वियदन्यस्तदेकान्तलिङ्गानां भूयसां श्रुतेः ॥ 86 ॥

सिद्धानुवादरूपं च श्रूयते वाक्यमत्र हि ।
अतः प्रमाणान्तरस्य प्राप्तिमेतदपेक्षते ॥ 87 ॥

बोधयत्यखिलं मानं ब्रह्म नारायणाह्वयम् ।
व्युत्पत्याऽऽकाशत इति तस्य तच्छद्बवाच्यता ॥ 88 ॥

॥ इत्याकाशाधिकरणम् ॥

॥ प्राणाधिकरणम् ॥ 1-1-9 ॥

सू - ॥ अत एव प्राणः ॥ 1-1-24.

पूर्वत्र वियतस्सर्वकारणत्वं निराकृतम् ।
निरस्यतेऽत्र वायोश्च कारणत्वं परोदितम् ॥ 89 ॥

साम्नि सर्वाणि हे त्यादि श्रूयते वाक्यमत्र च ।
आकाशशब्दवत्प्राणशब्दोपि ब्रह्मबोधकः ॥ 90 ॥

परासाधारणाल्लिङ्गात्प्रसिद्धवदुदाहृतात् ।
शङ्काऽधिका त्वत्र भूतजातस्थित्यादिकस्य च ॥ 91 ॥

प्राणाधीनत्वतो वायुर्भूतं कारणमस्त्विति ।
परिहारश्शिलादौ च चित्स्वरूपे च नेति तत् ॥ 92 ॥

॥ इति प्राणाधिकरणम् ॥

॥ ज्योतिरधिकरणम् ॥ 1-1-10 ॥

सू - ॥ ज्योतिश्चरणाभिधानात् ॥ 1-1-25.

निराकृत्याऽऽकाशवाय्वोः कारणत्वमथ क्रमात् ।
तेजसः कारणत्वं च न्यायेऽमुष्मिन्निरस्यते ॥ 93 ॥

(पू) अतः परो दिवो ज्योतिरिति वाक्येऽतिदीप्तिमत् ।
श्रूयते तत्कारणं स्यात्कौक्षेयज्योतिषा सह ॥ 94 ॥

ऐक्योपदेशाच्चात्रोक्तं प्रसिद्धज्योतिरस्तु तत् ।
मैवं ज्योतिश्शब्दवाच्यमत्र ब्रह्मैव नेतरत् ॥ 95 ॥

पूर्ववाक्ये सर्वभूतचरणत्वाभिधानतः ।
तच्च ब्रह्मण एव स्यात्पुंसूक्तादिप्रसिद्धितः ॥ 96 ॥

सू - छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगमात्तथाहि

दर्शनम् ॥ 1-1-26 ॥

(पू) पूर्ववाक्योक्तगायत्रीछन्द एवात्र गीयते ।
(सि) ऋचा तदर्थबोधिन्या न तत् ब्रह्मेति चेन्न तत् ॥ 97 ॥

परे फलाय गायत्रीतौल्यदृष्टिर्विधीयते ।
चतुष्पदो ब्रह्मणोऽस्य तादृश्या च तया तुला ॥ 98 ॥

दृष्टस्संवर्गविद्यादौ तौल्ये च्छन्दोवचोन्वयः ।
सू - ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ 1-1-27.

सैषा चतुष्पदेत्युक्तिर्भूताद्यङ्घ्रित्वबोधिका ॥ 99 ॥

गायत्रीशब्दवाच्येऽस्मिन् ब्रह्मण्येवोपपद्यते ।
सू - ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ 1-1-28.

(पू) दिवो दिवीति भिन्नार्थविभक्तिव्यतिरेकतः ॥ 100 ॥

प्रत्यभिज्ञायते नात्र ब्रह्म पूर्वत्र संश्रुतम् ।
(सि) मैवमर्थस्वभावैक्यादुपदेशद्वयेपि च ॥ 101 ॥

अबाधात्प्रत्यभिज्ञायाः पर एवात्र कथ्यते ।
कौक्षेयैक्योपदेशस्तु फलायैवेति निश्चितम् ॥ 102 ॥

परमात्मात्मकत्वं च गीताप्रोक्तं विभावसोः ।
तस्मात्स परमात्मैवेत्येतदत्र सुनिश्चितम् ॥ 103 ॥

॥ इति ज्योतिरधिकरणम् ॥

॥ इन्द्रप्राणाधिकरणम् ॥ 1-1-11 ॥

सू - ॥ प्राणस्तथानुगमात् ॥ 1-1-29.

ज्योतिश्शब्दितसूर्यादेः कारणत्वं निराकृतम् ।
तत् पतित्वेन सिद्धस्य देवेन्द्रस्य निरस्यते ॥ 104 ॥

(पू) प्रतर्दनो हेति वाक्ये कौषीतक्यभिधश्रुतौ ।
मुक्त्युपासनकर्मत्वेनेन्द्रप्राणपदेरितः ॥ 105 ॥

जीव एवेन्द्रशब्दस्य तस्मिन्नव प्रसिद्धितः ।
तथैव प्राणवाचोऽपि स्वात्मोपासनमत्र सः ॥ 106 ॥

उपादिशद्धिततमममृतत्वाप्तिसाधनम् ।
कारणोपासनस्यैवामृतत्वप्राप्तिहेतुता ॥ 107 ॥

तस्य तावदिति श्रुत्या ज्ञायतेऽतश्च कारणम् ।
प्रसिद्धजीवभावोऽयमिन्द्र एवेति निश्चयः ॥ 108 ॥

(सि) मैवमिन्द्रप्राणशब्द्यं जीवमात्रं न किन्त्वतः ।
अर्थान्तरं ब्रह्म ताभ्यां पदाभ्यां प्रस्तुतस्य च ॥ 109 ॥

स्वभावसिद्धानन्दत्वामृतत्वादेश्च संश्रुतेः ।
सू - ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ 1-1-30.

(पू) प्रज्ञातजीवभावस्य स्वस्यैवोपास्यतामयम् ॥ 110 ॥

वदत्यतो जीव एवोपास्यः प्रक्रान्त उच्यते ।
(सि) मैवमत्र श्रुता धर्माः परस्मिन्नेव सङ्गताः ॥ 111 ॥

मोक्षार्थोपास्तिकर्मत्वं सर्वाधारत्वमप्यथ ।
कर्मकारयितृत्वं चेत्याद्या धर्माः परस्य हि ॥ 112 ॥

सू - ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ 1-1-31.

अन्तर्यामिब्राह्मणादेर्विज्ञायाऽऽत्मशरीरिताम् ।
अनेन जीवेनेत्याद्यैः शब्दानां जीववाचिताम् ॥ 113 ॥

परे पर्यवसानं च मामुपास्वेति वाक्यतः ।
स्वदेहकं परं ब्रह्मोपास्यत्वेनोपदिष्टवान् ॥ 114 ॥

वामदेवादयोप्येवं वदन्त्यध्यात्मविद्वराः ।
अहं मनुरहं सर्वमित्यादिभिरनेकधा ॥ 115 ॥

सू - ॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह

तद्योगात् ॥ 1-1-32.

(पू) जीवमुख्यप्राणगतलिङ्गानामत्र दर्शनात् ।
पूर्वोक्ताध्यात्मसम्बन्धभूम्ना नात्रार्थनिश्चयः ॥ 116 ॥

(सि) मैवमत्रोपासनस्य त्रिविधत्वाभिसन्धितः ।
स्वस्वरूपेण जीवत्मशरीरकतया तथा ॥ 117 ॥

प्राणाङ्गकत्वेनेत्थं च परात्मोपासनं त्रिधा ।
त्रिधा तदुपदेशाय तत्तच्छब्देन भाषणम् ॥ 118 ॥

इयं च त्रिविधोपास्तिरन्यत्रापि श्रुतौ श्रुता ।
अतः प्रकरणं चैतत्तादृशोपास्तिबोधकम् ॥ 119 ॥

अतोऽत्रेन्द्रप्राणशब्दवाच्यो जीवेतरः परः ।
भोक्तृभोग्यशरीरोऽत्र परमात्मोपदिश्यते ॥ 120 ॥

॥ इति इन्द्रप्राणाधिकरणम् ॥

॥ इति प्रथमाध्याये प्रथमः पादः ॥

॥ प्रथमाध्याये द्वितीयः पादः ॥

॥ सर्वत्रप्रसिद्ध्यधिकरणम् ॥ ( 1-2-1 )

सू - सर्वत्र प्रसिद्धोपदेशात् ( 1-2-1 )

अस्पष्टतरजीवादिलिङ्गवाक्यं विचारितम् ।
विचार्यते वाक्यजातं पादेऽत्रास्पष्टलिङ्गकम् ॥ 121 ॥

कारणत्वमुपास्यत्वं चोक्तं प्राणशरीरिणः ।
जीवस्य स्यात्तदुभयमित्याशंक्य निरस्यते ॥ 122 ॥

(पू) सर्वं खल्विदमित्यादौ सर्वात्मकतया श्रुतः ।
जीव एव यतोऽस्यैव सर्वतादात्म्यसंभवः ॥ 123 ॥

ब्रह्मादिसर्वभावश्च तस्यैव स्यादुपाधितः ।
परस्याऽस्पृष्टदोषस्य तद्भावो नोपपद्यते ॥ 124 ॥

जीवेऽपि च क्वचिद्वाक्ये ब्रह्मशब्दः प्रयुज्यते ।
तदीयकर्महेतुत्वाज्जन्मादेस्तज्जलानिति ॥ 125 ॥

हेतूक्तिरपि युक्ता स्यादित्येतत्तु न सन्मतम् ।
(सि) सर्ववस्तुन्यात्मतया प्रोक्तं ब्रह्म परः पुमान् ॥ 126 ॥

स्थलान्तरे प्रसिद्धस्य तस्यैवात्रानुवादतः ।
तज्जत्वादीननूद्योक्ता तद्धेतुकतदात्मता ॥ 127 ॥

जीवात्मनः कर्मकृतदेवमर्त्यादिरूपिणः ।
न स्याद्वेदान्तवाक्येषु यस्माज्जन्मादयश्श्रुताः ॥ 128 ॥

स एवात्र ब्रह्मशब्दवाच्यस्स्यात्स परः पुमान् ।
ब्रह्मणश्चिदचिद्वस्तुशरीरत्वाच्छरीरिणि ॥ 129 ॥

दोषाश्शरीरगा न स्युरतो निर्दुष्ट एव सः ।
जीवस्य सर्वतादात्म्यमुक्तं तन्नोपपद्यते ॥ 130 ॥

तत्तच्छरीरभिन्नानां तादात्म्यासंभवान्मिथः ।
अतोऽत्र परमात्मैव ब्रह्मशब्दार्थ इष्यते ॥ 131 ॥

सू - ॥ विवक्षितगुणोपपत्तेश्च ॥ ( 1-2-2 )

मनोमयत्वादयश्च गुणास्सर्वे विवक्षिताः ।
पर एवोपपद्यन्ते सत्यसंकल्पतान्विताः ॥ 132 ॥

सू - अनुपपत्तेस्तु न शारीरः ॥ 1-2-3 ॥

एषां गुणानामेतस्मिन् शारीरेऽनुपपत्तितः ।
न शारीरोऽयमपि तु परं ब्रह्मात्र गीयते ॥ 133 ॥

सू - ॥ कर्मकर्तृव्यपदेशाच्च ॥ ( 1-2-4 )

अभिसंभवितास्मीति ध्येयः प्राप्यतयोच्यते ।
जीवः प्राप्तृतयोक्तोऽतो जीवादन्यः परः पुमान् ॥ 134 ॥

सू - ॥ शब्दविशेषात् ॥ ( 1-2-5 )

वाक्य एष म आत्मेति षष्ठ्या शारीर उच्यते ।
उपास्यस्तु प्रथमया तस्मादन्यः परः पुमान् ॥ 135 ॥

सू - ॥ स्मृतेश्च ॥ ( 1-2-6 )

सर्वस्य चाहमित्यादिस्मृतिर्जीवमुपासकम् ।
परात्मानमुपास्यं च वक्ति जीवेतरस्ततः ॥ 136 ॥

सू - ॥ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं

व्योमवच्च ॥ ( 1-2-7 )

(पू) नाल्पत्वाल्पस्थानवत्वव्यपदेशादयं परः ।
(सि) इति चेन्नोपदेशोऽयं तथोपास्यत्वहेतुकः ॥ 137 ॥

न स्वरूपाल्पतासूची ज्यायस्त्वव्यपदेशतः ।
सू - ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ( 1-2-8 )

(पू) उपासकशरीरेऽसौ परात्मा वर्तते यदि ॥ 138 ॥

सुखदुःखोपभोगस्य प्राप्तिस्तद्वदमुष्य च ।
(सि) इति चेन्न शरीरान्तःस्थत्वमेव न कारणम् ॥ 139 ॥

कर्मवश्यत्वमेवोपभोगे हेतुर्न तत्परे ।
हेयप्रतिभटे सर्वकल्याणगुणसागरे ॥ 140 ॥

॥ इति सर्वत्रप्रसिद्ध्यधिकरणम् ॥

॥ अत्त्रधिकरणम् ॥ ( 1-2-2 )

सू - ॥ अत्ता चराचरग्रहणात् ॥ ( 1-2-9 )

परो यदि न भोक्ता स्यात्तर्हि भोक्तृतया श्रुतः ।
सर्वत्र जीव एव स्यादिति वादोऽत्र वार्यते ॥ 141 ॥

(पू) यस्य ब्रह्मेत्यादिमन्त्रे कठवल्लीगते श्रुतः ।
अत्ता जीवोऽस्यैव कर्मफलभोक्तृत्वसंभवात् ॥ 142 ॥

(सि) मैवमत्ता परात्मैव विश्वात्तृत्वश्रुतेरिह ।
मृत्यूपसेचनाद्ध्यत्र कृत्स्नस्यादनमुच्यते ॥ 143 ॥

ईदृशं चादनं सर्वसंहारोऽत्र विवक्षितः ।
कर्मोपाधिकभोक्तृत्वं नेदं किं तु परात्मनः ॥ 144 ॥

उपसंहर्तृत्वमिदं भोक्तृत्वं जगतां ततः ।
जीवेऽसंभावितमिदं तस्मादत्ता परः पुमान् ॥ 145 ॥

सू - ॥ प्रकरणाच्च ॥ ( 1-2-10 )

महान्तं विभुमात्मानं नायमात्मेति च स्थितम् ।
परस्येदं प्रकरणं तस्माच्चायं परः पुमान् ॥ 146 ॥

सू - गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ( 1-2-11 )

(पू) ऋतं पिबन्तावित्यत्र फलभोक्तृतया श्रुतः ।
(सि) सप्राणो जीव एवातश्चात्राप्यत्ता स इत्यसत् ॥ 147 ॥

गुहां प्रविष्टावुच्येते अत्र जीवपरावुभौ ।
तत्प्रवेशस्तयोरेव स्थलेऽस्मिन्किल दृश्यते ॥ 148 ॥

तं दुर्दशमिति श्रुत्या परस्योक्ता गुहास्थितिः ।
जीवस्य तत्स्थितिस्त्वत्र या प्राणेनेति वाक्यतः ॥ 149 ॥

ऋतं पिबन्तावित्युक्तिश्च्छत्रिन्यायेन संगता ।
परस्य पाने योगस्स्यात्प्रयोजकतयापि वा ॥ 150 ॥

सू - ॥ विशेषणाच्च ॥ ( 1-2-12 )

आदितोऽस्मिन्प्रकरण आन्तं जीवपरावुभौ ।
तत्तद्धर्मैर्विशिष्येते तस्मादत्ता परः पुमान् ॥ 151 ॥

॥ इत्यत्त्रधिकरणम् ॥

॥ अन्तराधिकरणम् ॥ 1-2-3 ॥

सू - ॥ अन्तर उपपत्तेः ॥ ( 1-2-13 )

दुर्ज्ञेयत्वं परस्योक्तं क इत्थेत्यादिना पुरा ।
तर्हि दृश्यतयोक्तो न पर इत्येतदस्यते ॥ 152 ॥

(पू) अक्ष्याधारः श्रुतस्साम्नि य एष इति वाक्यतः ।
जीवो वा प्रतिबिम्बो वाऽथाक्ष्यधिष्ठातृदेवता ॥ 153 ॥

प्रसिद्धवद्वचनत एष्वैवान्यतमो भवेत् ।
परात्मनस्त्वक्ष्णि दृश्यत्वाप्रसिद्ध्या स नोच्यते ॥ 154 ॥

(सि) मैवं परोऽक्ष्यन्तरस्थस्तस्मिन्नेवोपपत्तितः ।
संयद्वामत्वादिनित्यनिसर्गगुणसम्पदाम् ॥ 155 ॥

सू- ॥ स्थानादिव्यपदेशाच्च ॥ ( 1-2-14 )

अक्ष्णि स्थितिनियन्त्रृत्वाद्यस्यैव परमात्मनः ।
यश्चक्षुषीत्येवमादौ श्रूयतेऽतोऽक्षिगः परः ॥ 156 ॥

प्रसिद्धवद्वचोऽतश्च परात्मन्येव युज्यते ।
अत्र दृश्यत इत्युक्तिर्योगिदृश्यत्वहेतुका ॥ 157 ॥

सू - ॥ सुखविशिष्टाभिधानादेव च ॥ ( 1-2-15 )

सुखवैशिष्ट्यवत्वेन कं ब्रह्मेत्यादिना पुरा ।
प्रकृतस्य परस्यैवोपास्तिस्थानादिसिद्धये ॥ 158 ॥

य एष इति निर्देशादत्राक्षिपुरुषः परः ।
सू - ॥ अत एव च स ब्रह्म ॥ ( 1-2-16 )

(पू) कं ब्रह्मेत्यादिना प्रोक्तं कथं ब्रह्मेति कथ्यते ॥ 159 ॥

(सि) के खे चैव ब्रह्मदृष्टिविधिस्स्यादिति चेन्न तत् ।
यद्वाव कं तदेवेति यतस्तत्र खवस्तुनः ॥ 160 ॥

सुखवैशिष्ट्योपदेशोऽत एवात्र खशब्दितः ।
आकाशस्य परंब्रह्मापरिच्छिन्नसुखात्मकम् ॥ 161 ॥

प्राणं चास्मै तदाकाशं चोचुरित्युक्तमन्ततः ।
तस्मात्प्राक् प्रकृतं ब्रह्मापरिच्छिन्नसुखात्मकम् ॥ 162 ॥

अक्ष्याधारतयात्रापि श्रूयतेऽतोऽक्षिगः परः ।
सू - ॥ श्रुतोपनिषत्कगत्यभिधानाच्च ॥ ( 1-2-17 )

विज्ञातब्रह्मयाथात्म्यैर्गन्तव्यत्वेन या गतिः ॥ 163 ॥

ब्रह्माप्तये श्रुताऽन्यत्र सार्चिरादिगतिस्त्विह ।
श्रुताक्षिपुरुषस्याभिगन्तव्यत्वेन पठ्यते ॥ 164 ॥

अतोप्यसावक्षिवर्ती परमात्मेति निश्चितः ।
सू - ॥ अनवस्थितेरसंभवाच्च नेतरः ॥ ( 1-2-18 )

जीवस्य प्रतिबिम्बस्यादित्यस्याप्यनवस्थितेः ॥ 165 ॥

नियमेनाक्षिणि तथा निरुपाधिकताजुषाम् ।
असंभवाद्गुणानां च परात्मैवाक्षिगः पुमान् ॥ 166 ॥

॥ इत्यन्तराधिकरणम् ॥

॥ अन्तर्याम्यधिकरणम् ॥ 1-2-4 ॥

सू - ॥ अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ ( 1-2-19 )

चक्षुस्स्थितिं परस्य प्राक् निश्चित्यार्थः प्रसाधितः ।
जीवस्यैव स्थितिस्सेति वादोऽत्र विनिवार्यते ॥ 167 ॥

अन्तर्यामिब्राह्यणे यः पृथिव्यामिति वाक्यतः ।
अन्तर्यामी श्रुतो योऽसौ जीवोस्तु द्रष्टृतादिभिः ॥ 168 ॥

द्रष्ट्रन्तरनिषेधाच्चेत्येवं वादो न संमतः ।
(सि) अधिदैवाधिलोकादिपदाङ्कितवचश्श्रुतः ॥ 169 ॥

अन्तर्यामी परात्मैव तद्धर्मव्यपदेशतः ।
जगच्छरीरकत्वं च सर्वान्तर्यामिता तथा ॥ 170 ॥

अत्रैवमाद्याः पठिता धर्मा नारायणाश्रिताः ।
दर्शनादि तु रूपादिसाक्षात्कारो न चान्यथा ॥ 171 ॥

नान्योऽतोस्तीत्यदोवाक्यं तुल्यद्रष्ट्टनिषेधकम् ।
सू - ॥ न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ ( 1-2-20 )

प्रधानं च तथा जीवो नान्तर्यामी तयोर्द्वयोः ॥ 172 ॥

असंभावितधर्माणामभिलापादनेकशः ।
अचेतनं यथा नार्हमेतेषां चेतनस्तथा ॥ 173 ॥

सू - ॥ उभयेऽपि हि भेदेनैनमधीयते ॥ ( 1-2-21 )

काण्वा माध्यन्दिनाश्चैव यो विज्ञाने य आत्मनि ।
इत्यन्तर्यामिणं जीवात् भेदेनाधीयते यतः ॥ 174 ॥

जीवाद्विलक्षणोऽतोऽसावन्तर्यामी परः पुमान् ।
ध्वस्तपाप्मा परात्मा स नारायण इति स्थितम् ॥ 175 ॥

॥ इत्यन्तर्याम्यधिकरणम् ॥

॥ अदृश्यत्वादिगुणकाधिकरणम् ॥ 1-2-5 ॥

सू - ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ ( 1-2-22 )

उक्तं द्रष्ट्टत्वादिना प्राक् परात्मत्वं न यत्र तत् ।
तत्र प्रधानमेव स्यादिति शङ्का व्युदस्यते ॥ 176 ॥

(पू) यत्तदद्रेश्यमित्यादौ श्रूयते मुण्डकश्रुतौ ।
यद्भूतयोनिमिति चाथा क्षरात्परतः परः ॥ 177 ॥

स्थलेऽत्राजाजीवघनावेवोच्येते यथाक्रमम् ।
प्रतिषेधादचिद्वर्तिदृश्यत्वादेरचेतनम् ॥ 178 ॥

सजातीयं प्रधानं स्यात् भूतयोन्यक्षरं तथा ।
(सि) परतश्चाक्षराज्जीवघनस्स्यात्पर इत्यसत् ॥ 179 ॥

अत्रादृश्यत्वादिगुणश्चाक्षरात्परतः परः ।
परमात्मैव तद्धर्मसर्वज्ञत्वादिसंश्रुतेः ॥ 180 ॥

पञ्चम्यन्ताक्षरपदं भूतसूक्ष्मं ब्रवीति तत् ।
नादृश्यत्वादिगुणकमक्षरं तस्य सर्वतः ॥ 181 ॥

परत्वेन ततोन्यस्य परत्वासंभवादिदम् ।
सर्वज्ञत्वजगद्योनित्वादिभिर्हि विशेष्यते ॥ 182 ॥

सू - ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ ( 1-2-23 )

महाप्रकरणं चात्र प्रधानात्पुरुषादपि ।
सर्वज्ञानप्रतिज्ञाद्यैर्व्यावर्तयति चाक्षरम् ॥ 183 ॥

परतः पर इत्याभ्यां भेदश्चास्योपदिश्यते ।
तस्मादत्रोच्यते ताभ्यां परो नारायणः प्रभुः ॥ 184 ॥

सू - ॥ रूपोपन्यासाच्च ॥ ( 1-2-24 )

अग्निर्मूर्धे त्यादिनोक्तं रूपं त्रैलोक्यरूपिणः ।
परमात्मन एव स्यादतोऽयं परमः पुमान् ॥ 185 ॥

॥ इत्यदृश्यत्वादिगुणकाधिकरणम् ॥

वैश्वानराधिकरणम् ॥ 1-2-6 ॥

सू - ॥ वैश्वानरस्साधारणशब्दविशेषात् ॥ ( 1-2-25 )

त्रैलोक्यमूर्तिमत्त्वेन परात्मत्वं समर्थितम् ।
तत् तदन्यस्यापि चास्तीत्याशङ्कात्र व्युदस्यते ॥ 186 ॥

(पू) सामान्यात्मानमेवेमं वैश्वानरमिति स्थले ।
वैश्वानरः परात्मेति निर्णेतुं नैव शक्यते ॥ 187 ॥

जाठराग्नौ तत्पदस्य भूते देवे परात्मनि ।
चतुर्ष्वपि प्रयोगादत्रैषां लिङ्गोपलब्धितः ॥ 188 ॥

(सि) मैवं वैश्वानरपदवाच्यः परमपुरुषः ।
साधारणैतच्छब्दस्य परासाधारणैर्गुणैः ॥ 189 ॥

विशेष्यमाणत्वादत्रानेकैस्सर्वात्मतादिभिः ।
सू - ॥ स्मर्यमाणमनुमानं स्यादिति ॥ ( 1-2-26 )

द्युमूर्धत्वादिमद्रूपमुक्तं वैश्वानरात्मनः ॥ 190 ॥

श्रुतिस्मृतिप्रसिद्धं तत् तदेवेदमितीह च ।
प्रत्यभिज्ञायमानं सदस्य वैश्वानरात्मनः ॥ 191 ॥

परात्मत्वे लिङ्गमेतदतो वैश्वानरः परः ।
सू - ॥ शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषमपि चैनमधीयते ॥ ( 1-2-27 )

(पू) अग्निर्वैश्वानर इति सामानाधिकरण्यतः ॥ 192 ॥

अग्नित्रेताकल्पनाच्च स्थानात्प्राणाहुतेस्तथा ।
शरीरान्तः स्थितेश्चास्य जाठरत्वं प्रतीयते ॥ 193 ॥

(सि) तस्मादस्य परात्मत्वं नेति चेत्तन्न तादृशः ।
वैश्वानरस्योदर्याग्निशरीरकतयाऽत्र च ॥ 194 ॥

तद्विशिष्टोपासनस्य विधानात्केवलस्य तु ।
जाठरस्य त्रिलोकाङ्गकत्वासंभवतस्तथा ॥ 195 ॥

एवं वैश्वानरात्मानमेके वाजसनेयिनः ।
पुरुषं चाधीयते स एषोग्निरिति वाक्यतः ॥ 196 ॥

निर्गतोपाधिपुरुषशब्दवाच्यत्वमस्य वै ।
अतो वैश्वानरात्मैवोपास्यो नारायणः प्रभुः ॥ 197 ॥

सू - ॥ अत एव न देवता भूतं च ॥ ( 1-2-28 )

यतो वैश्वानरात्माऽयं पुरुषो निरुपाधिकः ।
त्रैलोक्याङ्गश्चात एव न भूतं न च देवता ॥ 198 ॥

सू - ॥ साक्षादप्यविरोधं जैमिनिः ॥ ( 1-2-29 )

अग्निशब्दोप्यत्र साक्षादग्रप्रापकतागुणात् ।
परमात्मानमाचष्टे वैश्वानरपदं यथा ॥ 199 ॥

अतो वैश्वानरस्याग्निशब्दितत्वं न बाधितम् ।
परत्वनिर्णयेऽत्रेति जैमिनिर्मन्यते मुनिः ॥ 200 ॥

सू - ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ ( 1-2-30 )

उपासकाभिव्यक्त्यर्थं विमानस्य परात्मनः ।
परिच्छिन्नत्वोपदेश इत्याहात्राऽऽश्मरथ्यकः ॥ 201 ॥

सू - ॥ अनुस्मृतेर्बादरिः ॥ ( 1-2-31 )

मूर्धप्रभृतिपादान्तदेहकल्पनमत्र यत् ।
तथोपास्त्यर्थमित्याह बादरिर्भगवानृषिः ॥ 202 ॥

सू - ॥ संपत्तेरिति जैमिनिस्तथाहि दर्शयति ॥ ( 1-2-32 )

उपासकस्य चाङ्गानां गार्हपत्यादिकल्पनम् ।
प्रत्यहं क्रियमाणस्य प्राणाहुत्याख्यकर्मणः ॥ 203 ॥

अग्निहोत्रत्वसंपत्त्यै इति जैमिनिरब्रवीत् ।
य एतदेवमिति च संपतिं्त दर्शयत्यमूम् ॥ 204 ॥

सू - ॥ आमनन्ति चैनमस्मिन् ॥ ( 1-2-33 )

उपासकशरीरेऽस्मिन्नेनं द्युभ्वादिदेहकम् ।
वैश्वानरं परात्मानं प्राणाग्निहवनेन च ॥ 205 ॥

आराध्यत्वायामनन्ति वाच स्तस्येत्युपक्रमाः ।
अतो नारायण इति सिद्धं वैश्वानरः पुमान् ॥ 206 ॥

॥ इति वैश्वानराधिकरणम् ॥

॥ इति प्रथमाध्याये द्वितीयः पादः ॥

॥ अथ प्रथमाध्याये तृतीयः पादः ॥

॥ द्युभ्वाद्यधिकरणम् ॥ 1-3-1 ॥

सू - ॥ द्युभ्वाद्यायतनं स्वशब्दात् ॥ ( 1-3-1 )

प्रागस्पष्टतरास्पष्टलिङ्गवाक्यं विचारितम् ।
पादेऽत्र स्पष्टजीवादिलिङ्गवाक्यं विचार्यते ॥ 207 ॥

द्युपृथिव्याद्याश्रयस्य परात्मत्वं समर्थितम् ।
तदेवात्राधिकरण आक्षिप्य स्थाप्यते दृढम् ॥ 208 ॥

(पू ) यस्मिन्द्यौः पृथिवीचेति मुण्डोपनिषदि श्रुतः ।
जीव एवात्र करणाश्रयत्वं बहुधा जनिः ॥ 209 ॥

नाडीयोगश्चैवमादिजीवधर्मचयश्रुतेः ।
(सि) मैवं द्युभ्वाद्यायतनं परं ब्रह्म स्वशब्दतः ॥ 210 ॥

स्वशब्दोऽत्रामृतस्यैष सेतुरित्येवमादिकः ।
अमृतत्वप्राप्तिहेतुस्स एवेति निगद्यते ॥ 211 ॥

आत्मशब्दश्चात्र परे वर्तते निरुपाधिकः ।
सर्वज्ञत्वादयोऽत्रोक्तास्तस्मिन्नेव सुसङ्गताः ॥ 212 ॥

नाड्याश्रयत्वं चास्योक्तं सन्ततश्रुतिवाक्यतः ।
अजायमान इत्यादिश्रुत्याऽजोपीति च स्मृतेः ॥ 213 ॥

बहुधा जायमानत्वं सिद्धमस्य निजेच्छया ।
मनःप्रभृत्याश्रयत्वं सर्वाधरस्य युज्यते ॥ 214 ॥

सू - ॥ मुक्तोपसृप्यव्यपदेशाच्च ॥ ( 1-3-2 )

तदा विद्वान्पुण्यपापे इत्यादिश्रुतिवाक्यतः ।
बन्धान्मुक्तैः प्राप्यतया निर्देशाच्च परः पुमान् ॥ 215 ॥

सू - ॥ नानुमानमतच्छब्दात्प्राणभृच्च ॥ ( 1-3-3 )

नात्र प्रधानं तद्वाचिशब्दाभावाद्यथोच्यते ।
तथा प्राणभृदप्येष प्रतिपाद्यो न वाक्यतः ॥ 216 ॥

सू - ॥ भेदव्यपदेशात् ॥ ( 1-3-4 )

समाने वृक्ष इत्यादिवाक्येन व्यपदिश्यते ।
जीवाद्विलक्षणत्वेन महिमार्णव ईश्वरः ॥ 217 ॥

सू - ॥ प्रकरणात् ॥ ( 1-3-5 )

परस्यैवात्राऽथ परा ययेति श्रुतिवाग्भरैः ।
प्रकृतत्वात्परं ब्रह्मैवैतत्प्रकरणश्रुतम् ॥ 218 ॥

सू - ॥ स्थित्यदनाभ्यां च ॥ ( 1-3-6 )

द्वासुपर्णेत्यादिमन्त्रे फलभोक्तृत्वमुच्यते ।
एकस्यान्यस्य देहान्तस्स्थितिमात्रं प्रदर्श्यते ॥ 219 ॥

तत्राऽनश्नन्दीप्यमानो द्युभ्वाद्यायतनं भवेत् ।
न तद्भोक्ता ततो द्युभ्वाद्ययनः परमः पुमान् ॥ 220 ॥

॥ इति द्युभ्वाद्यधिकरणम् ॥

॥ भूमाधिकरणम् ॥ ( 1-3-2 )

सू - ॥ भूमा संप्रसादादध्युपदेशात् ॥ ( 1-3-7 )

परात्मत्वं प्रकरणाविच्छेदात्प्राक् समर्थितम् ।
तद्धेतोरेव भूमात्र जीव इत्येतदस्यते ॥ 221 ॥

(पू) यत्र नान्यत्पश्यतीति वाक्यं सामनि पठ्यते ।
तत्र भूमा प्रत्यगात्मा तस्मिन्प्राणपदोदिते ॥ 222 ॥

नामाद्यात्मोपदेशस्य समाप्तेस्तदनन्तरम् ।
प्रश्नप्रत्युत्तराभावात्प्राणप्रकरणस्य च ॥ 223 ॥

अविच्छेदादत्र भूमा प्रत्यगात्मेति चेन्न तत् ।
(सि) भूमा परः संप्रसादादधिकत्वोपदेशतः ॥ 224 ॥

संप्रसादः प्रत्यगात्मेत्यन्यश्रुत्याऽवसीयते ।
स्वोपास्याधिक्यवादित्वमुक्त्वाऽस्य प्राणवेदिनः ॥ 225 ॥

एषत्विति तुशब्देनाथातिवाद्यन्तरं स्वयम् ।
उपक्षिप्यास्य सत्योपासितुः प्राणातिवादितः ॥ 226 ॥

आधिक्योक्तेश्च विच्छेदात्प्राणप्रकरणस्य च ।
प्राणादर्थान्तरत्वेन प्रोक्तः सत्यपदोदितः ॥ 227 ॥

अत्यन्तसुखरूपोऽसौ भूमा नारायणः प्रभुः ।
सू - ॥ धर्मोपपत्तेश्च ॥ ( 1-3-8 )

स्वाभाविकामृतत्वं च स्वे महिम्न्येव संस्थितिः ॥ 228 ॥

सर्वात्मत्वं चैवमादिधर्मा ये भूमनि श्रुताः ।
तेषां परस्मिन्नेवोपपत्तेर्भूमा परः पुमान् ॥ 229 ॥

॥ इति भूमाधिकरणम् ॥

॥ अक्षराधिकरणम् ॥ ( 1-3-3 )

सू - ॥ अक्षरमम्बरान्तधृतेः ॥ ( 1-3-9 )

स्वे महिम्निस्थितत्वं प्राक् ब्रह्मणः प्रतिपादितम् ।
तदन्यस्मिन्नपि परादस्तीत्येतन्निवार्यते ॥ 230 ॥

(पू) गार्गिप्रश्ने स होवाचैतद्वा इत्यादि पठ्यते ।
अत्राक्षरं प्रधानं स्यादस्थूलत्वादिधर्मवत् ॥ 231 ॥

प्रधानेऽक्षरशब्दस्य प्रयोगादक्षरादिति ।
सर्वकार्याधारभूतस्याकाशस्यापि कारणे ॥ 232 ॥

पृष्टे प्रत्युच्यमानं तत्स्यादव्याकृतमक्षरम् ।
(सि) मैवमत्राक्षरपदवाच्यः परमपूरूषः ॥ 233 ॥

आकाशपारभूतस्य प्रधानस्यापि धारणात् ।
यदूर्ध्वमिति चारभ्य कालत्रितयवर्तिनः ॥ 234 ॥

विकारजातस्याधारतया प्रोक्तं न वायुमत् ।
अम्बरं किन्तु तत्पारभूतमव्याकृतं भवेत् ॥ 235 ॥

तदाधारतयोक्तं तदक्षरं न प्रधानकम् ।
सू - ॥ सा च प्रशासनात् ॥ ( 1-3-10 )

तर्हि जीवोस्त्वक्षरं तत्कृत्स्नाचेतनवस्तुनः ॥ 236 ॥

आधारत्वोपपत्तेरित्येष वादो निवार्यते ।
एतस्य वा अक्षरस्येत्यादिनाऽस्याक्षरस्य सा ॥ 237 ॥

धृतिः प्रशासनादेव भवतीत्युपदिश्यते ।
न चेदृक् शासनं बद्धमुक्तयोरपि संभवेत् ॥ 238 ॥

सू - ॥ अन्यभावव्यवृत्तेश्च ॥ ( 1-3-11 )

अदृष्टं द्रष्ट्ट चेत्यादिवाक्यशेषः परात्मतः ।
अन्यत्वमक्षरस्यास्य व्यावर्तयति चोपरि ॥ 239 ॥

ईदृग्गुणविशिष्टान्यसद्भावं वा व्युदस्यति ।
तस्मात्स्वशासनाधीनसर्वधर्ता परः पुमान् ॥ 240 ॥

॥ इत्यक्षराधिकरणम् ॥

॥ ईक्षतिकर्माधिकरणम् ॥ ( 1-3-4 )

सू - ॥ ईक्षतिकर्म व्यपदेशात्सः ॥ ( 1-3-12 )

परस्यान्यैर्दर्शनार्हत्वाभावः प्राक् समीरितः ।
तर्हि दृश्यतयोक्तो न परस्स्यादिति वार्यते ॥ 241 ॥

(पू) प्रश्ने यः पुनरेतं त्रिमात्रेणेत्यादि पठ्यते ।
परं पुरुषं इत्येवं निर्दिष्टोऽत्र चतुर्मुखः ॥ 242 ॥

एकद्विमात्रप्रणवमन्त्रोपासीनयोः क्रमात् ।
मर्त्यलोकाप्त्यन्तरिक्षलोकप्राप्त्यात्मके फले ॥ 243 ॥

उक्त्वा त्रिमात्रोपासीनप्राप्यत्वेन समीरितः ।
अन्तरिक्षात्परो ब्रह्मलोकस्तत्साहचर्यतः ॥ 244 ॥

विरिञ्चलोकस्तत्रस्थेनेक्ष्यमाणस्स एव हि ।
(सि) मैवमीक्षतिकर्मात्र परः पुरुष एव सः ॥ 245 ॥

परादित्यादिवाक्यान्त्यश्लोक ईक्षतिकर्मणः ।
निरुपाधिकशान्तत्वामृतत्वाद्युपदेशतः ॥ 246 ॥

एवं सिद्धे परात्मत्वे ब्रह्मलोकपदं च तत् ।
यत्तत्कवय इत्येवमत्रोक्तं सूरिसेवितम् ॥ 247 ॥

तद्वैकुण्ठस्थानमेव वदतीत्यवगम्यते ।
अन्तरिक्षाव्यवहितो न च लोकोपि वेधसः ॥ 248 ॥

मध्ये स्वर्गादिलोकानां बहूनां संभवादतः ।
अत्रेक्षतेः कर्मतया श्रुतो नारायणः प्रभुः ॥ 249 ॥

॥ इति ईक्षतिकर्माधिकरणम् ॥

॥ दहराधिकरणम् ॥ ( 1-3-5 )

सू - ॥ दहर उत्तरेभ्यः ॥ ( 1-3-13 )

पूर्वं पुरिशयानस्य परात्मत्वं समर्थितम् ।
तस्याकाशपदोक्तस्य स्थाप्यतेऽत्र परात्मता ॥ 250 ॥

(पू) छान्दोग्ये चा थ यदिदमस्मिन्नत्यादि पठ्यते ।
श्रुतोऽत्र दहराकाशो भूताकाशोऽवसीयते ॥ 251 ॥

तत्रैवाकाशशब्दस्य प्रकर्षेण प्रसिद्धितः ।
अन्वेष्टव्याधारतया प्रतीतेश्चेति चेन्न तत् ॥ 252 ॥

(सि) दह्राकाशः परात्माऽत्रोत्तरवाक्योक्तधर्मतः ।
स्वाभाविकात्मत्वमपहतपाप्मत्वप्यथ ॥ 253 ॥

सत्यसङ्कल्पता चाथ सत्यकामत्वमित्यपि ।
परात्मैकान्तधर्मास्ते पठिता वाक्य उत्तरे ॥ 254 ॥

अन्वेष्टव्यान्तरं चात्र तदन्तस्स्थगुणाष्टकम् ।
दह्रं च गुणजातं च प्रस्तुत्याथ द्वयोरपि ॥ 255 ॥

तदन्वेष्टव्यमित्येवमुपास्यत्वं विधीयते ।
यावान्वा अयमाकाशस्तावानि त्यादिवाक्यतः ॥ 256 ॥

दह्रभूताकाशयोश्च स्पष्टं भेदः प्रतीयते ।
अतश्च दहराकाशः परमात्मा न खं भवेत् ॥ 257 ॥

सू - ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥

अस्मिंश्च दहराकाशे चेतनानामजानताम् ।
प्रत्यहं गमनं चाथ गन्तव्यदहरस्य च ॥ 258 ॥

ब्रह्मलोकपदोक्तिश्चेत्युभयं परमात्मताम् ।
बोधयत्यस्य दह्रस्य दृष्टमन्यत्र तद्द्वयम् ॥ 259 ॥

सति संपद्य नेत्येष ब्रह्मलोक इति श्रुतेः ।
किमन्यदृष्ट्या स्यादत्र श्रूयमाणमिदं द्वयम् ॥ 260 ॥

दह्रस्य परमात्मत्वे लिङ्गं पर्याप्तमेव हि ।
सू - ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ ( 1-3-15 )

ब्रह्मैकान्ततया सर्ववेदान्तोद्घोषितस्य च ॥ 261 ॥

जगद्धृत्याख्यभूम्नोऽस्मिन् दह्रे संकीर्तनादपि ।
दह्राकाशः परः श्रीमान् नारायण इतीर्यते ॥ 262 ॥

सू - ॥ प्रसिद्धेश्च ॥ ( 1-3-13 )

को ह्येवान्यात्क इत्यादिष्वस्याकाशपदस्य च ।
परात्मनि प्रसिद्धेश्च दह्राकाशः परः पुमान् ॥ 263 ॥

सू - ॥ इतरपरामर्शात्स इति चेन्नासंभवात् ॥ ( 1-3-17 )

(पू) य एष संप्रसादोऽस्मादिति जीवः परेतरः ।
(सि) प्रोक्त एवात्र दहराकाशस्स्यादिति चेन्न तत् ॥ 264 ॥

अस्मिन्नसंभवादुक्तगुणानां दह्रवर्तिनाम् ।
सू - ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ ( 1-3-18 )

(पू) प्रजापतेरुत्तरत्र वाक्ये जीवोपि तादृशः ॥ 265 ॥

(सि) ध्वस्तपाप्मत्वादिनोक्तस्तस्माद्दह्रस्स इत्यसत् ।
तिरोहितगुणः पूर्वं ब्रह्मोपासनया ततः ॥ 266 ॥

आविर्भूतस्वरूपस्तु तत्र जीवः प्रकीर्तितः ।
स्वाभाविकगुणो दह्रस्त्वत्रातो नात्र जीवधीः ॥ 267 ॥

सू - ॥ अन्यार्थश्च परामर्शः ॥ ( 1-3-19 )

जीवस्वरूपाविर्भावापादनाख्याग्र्यसंपदः ।
परस्मिन् सूचनायात्र जीवस्य ग्रहणं कृतम् ॥ 268 ॥

सू- ॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ ( 1-3-20 )

अल्पमानश्रुतिस्त्वत्र जीवस्यैवोपपद्यते ।
ज्यायसो नेति चेदत्र पूर्वमेवोक्तमुत्तरम् ॥ 169 ॥

सू - ॥ अनुकृतेस्तस्य च ॥ ( 1-3-21 )

परानुकारान्मुक्तस्य गुणाष्टकविशिष्टता ।
अतोऽनुकर्तुर्जीवाच्चाऽनुकार्यो दहरः परः ॥ 270 ॥

सू - ॥ अपि स्मर्यते ॥ ( 1-3-22 )

परोपास्त्याऽस्य जीवस्य तत्साम्यापत्तिरुच्यते ।
इदं ज्ञानमिति स्मृत्यां तह्रो जीवेतरः परः ॥ 271 ॥

॥ इति दहराधिकरणम् ॥

॥ प्रमिताधिकरणम् ॥ ( 1-3-6 )

सू - ॥ शब्दादेव प्रमितः ॥ ( 1-3-23 )

प्रागल्पपरिमाणत्वं परात्मन उदाहृतम् ।
तस्यैवात्राङ्गुष्ठपरिमाणवत्वं निगद्यते ॥ 272 ॥

(पू) अङ्गुष्ठमात्र इत्याद्याः कठवल्लीष्वृचः श्रुताः ।
तत्राङ्गुष्ठप्रमाणोऽयं जीव एवेति निश्चयः ॥ 273 ॥

प्राणाधिपोऽङ्गुष्ठमात्र इत्यादिश्रुतिवाक्यतः ।
जीवात्मनोऽङ्गुष्ठपरिमाणवत्वावबोधनात् ॥ 274 ॥

(सि) मैवमत्राङ्गुष्ठमानप्रमितः परमः पुमान् ।
ईशानो भूतभव्यस्येत्येतदेकान्तशब्दतः ॥ 275 ॥

सू - ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ ( 1-3-24 )

उपासकहृदोऽङ्गुष्ठप्रमाणत्वात्परात्मनः ।
तत्र स्थितेस्तदङ्गुष्ठमानत्वं तदपेक्षया ॥ 276 ॥

शास्त्रस्य तु मनुष्याधिकारत्वात्तदपेक्षया ।
परस्याङ्गुष्ठमानोक्तिर्युक्तिरन्यापि वक्ष्यते ॥ 277 ॥

॥ मध्ये देवताधिकरणम् ॥ 1-3-7 ॥

सू - ॥ तदुपर्यपि बादरायणस्संभवात् ॥ 1-3-25 ॥

ब्रह्मोपासनशास्रं प्राक्प्रोक्तं मर्त्याधिकारकम् ।
देवादीनामस्ति न वेत्यधिकारोऽत्र चिन्त्यते ॥ 278 ॥

(पू) नोपास्तावधिकारोऽस्ति देवादीनामदेहिनाम् ।
देहिनिर्वनीयेऽत्रोपासने न समर्थता ॥ 279 ॥

(सि) मैवं परोपासनं तदमरेष्वपि संभवेत् ।
इत्येवं मन्यते व्यासो भगवान्बादरायणः ॥ 280 ॥

तेषामर्थित्वसामर्थ्यसंभवादर्थिता च सा ।
परमात्मनि कल्याणगुणाब्धौ भोग्यताधिया ॥ 281 ॥

भवत्यथैषां सामर्थ्यमपि संभवति स्वयम् ।
देहेन्द्रियादिमत्त्वेन तद्वत्त्वं सर्वनाकिनाम् ॥ 282 ॥

वेदान्ते श्रूयते सृष्टिस्थले चोपासनस्थले ।
तस्मात्तेषां तयोस्सत्त्वादधिकारोस्त्युपासने ॥ 283 ॥

सू - ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ ( 1-3-26 )

देहवत्त्वेपि देवानां विरोधः स्याद्धि कर्मणि ।
बहुयागेषु युगपदाहूतस्यैकनाकिनः ॥ 284 ॥

सान्निध्यासंभवात्सर्वत्रेति चेन्न स्वशक्तितः ।
सौभर्यादौ दृश्यतेऽयं नैकदेहपरिग्रहः ॥ 285 ॥

सू - ॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ ( 1-3-27 )

विरोधो वैदिके शब्दे स्यादनित्यार्थयोगतः ।
इन्द्रादिदेवदेहस्यानित्यत्वात्तस्य जन्मनः ॥ 286 ॥

प्राग्विनाशात्परं चैषां शब्दानां वेदवर्तिनाम् ।
अर्थशून्यत्वमथवाऽनित्यत्वमिति चेन्न तत् ॥ 287 ॥

इन्द्रादिशब्दादेवेन्द्राद्यर्थस्य प्रभवात्पुनः ।
नेन्द्राद्या वैदिकाश्शब्दाः प्रवृत्ता व्यक्तिमात्रके ॥ 288 ॥

गवादिशब्दवत्तत्राकृतिवाचितया ततः ।
एकव्यक्तौ विनष्टायां तत्तद्वैदिकशब्दतः ॥ 289 ॥

मनस्स्थिताच्चावगततत्तदर्थः प्रजापतिः ।
अन्यं तदाकृतिं चेन्द्रं सृजतीत्यवगम्यते ॥ 290 ॥

श्रुतिस्मृतिभ्यां तस्मान्न विरोधश्शब्दगोचरः ।
सू - ॥ अत एव च नित्यत्वम् ॥ ( 1-3-28 )

यतो धाता वैदिकाच्च शब्दाज्जातार्थसंस्मृतिः ॥ 291 ॥

मन्त्रादिकृदृषीणामाकृतिशक्त्यादिकं पुनः ।
परामृश्य तदाकारशक्तियुक्तान् तदा तदा ॥ 292 ॥

सृष्ट्वा तत्तन्मन्त्रकृतौ तानेव प्रेरयत्यतः ।
वेदनित्यत्वमेषां च मन्त्रकृत्त्वमपि स्थितम् ॥ 293 ॥

सू -॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ (1-3-29)

कृत्स्ननाशे जगत्सृष्ट्यावृत्तावप्युक्तरीतितः ।
समाननामरूपत्वादविरोधोऽवगम्यताम् ॥ 294 ॥

स पुनर्भगवान् साक्षात् ब्रह्माण्डं च चतुर्मुखम् ।
सृष्ट्वा यथापूर्वमेव सर्ववेदान् स्वहृद्धृतान् ॥ 295 ॥

चतुर्मुखायोपदिश्य सृष्टिकार्ये च पूर्ववत् ।
तं नियुज्य स्वयं चापि नियन्तृत्वेन वर्तते ॥ 296 ॥

पूर्वानुपूर्वीं तामेव स्मृत्वा संस्कारतो दृढात् ।
तयैवोच्चार्यमाणत्वं वेदस्यापौरुषेयता ॥ 297 ॥

नित्यता चेदृशश्चार्थः श्रुतिस्मृत्यवबोधितः ।
देवादीनामतोऽस्त्येवाधिक्रिया ब्रह्मवेदने ॥ 298 ॥

॥ इति देवताधिकरणम् ॥

॥ अथ मध्वधिकरणम् ॥ ( 1-3-8 )

पू -सू - ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ( 1-3-30 )

अधिकारोऽस्ति देवानां ब्रह्मविद्यास्वितीरितम् ।
तदसंभवशङ्का च तद्विशेषे निरस्यते ॥ 299 ॥

(पू) वस्वादित्यादिदेवानां प्राप्तानां वसुतादिकम् ।
तत्प्रापकेषु मध्वादिष्वर्थितादेरसंभवात् ॥ 300 ॥

अधिकाराभावमत्र मन्यते जैमिनिर्गुरुः ।
ये यासु विद्यासूपास्या नह्यत्रैषामधिक्रिया ॥ 301 ॥

पू-सू- ॥ ज्योतिषि भावाच्च ॥ ( 1-3-31 )

ब्रह्मण्युपस्तिरुक्तात्र तं देवा इति नाकिनाम् ।
साधारण्येन सिद्धायां तस्यां विबुधमर्त्ययोः ॥ 302 ॥

विशिष्य श्रवणं त्वेषां ब्रह्मान्योपास्त्यनुष्ठितिम् ।
निवारयत्यतस्तेषां मध्वादिष्वनधिक्रिया ॥ 303 ॥

सि-सू- ॥ भावं तु बादरायणोऽस्ति हि ॥ ( 1-3-32 )

वस्वादीनां च मध्वादौ भगवान् बादरायणः ।
मन्यतेऽधिक्रियायोगं वस्वादय इमे सुराः ॥ 304 ॥

कल्पान्तरेपि संप्राप्य मध्ये वस्वादितापदम् ।
अन्ते ब्रह्मप्राप्तुकामा मधुविद्यात्मिकामिमाम् ॥ 305 ॥

ब्रह्मविद्यामधिष्ठाय स्वावस्थं ब्रह्म नित्यशः ।
अर्हन्त्युपासितुं तस्मात्तेषामत्रास्त्यधिक्रिया ॥ 306 ॥

॥ इति मध्वधिकरणम् ॥

॥ अथ अपशूद्राधिकरणम् ॥ ( 1-3-9 )

सू - ॥ शुगस्य तदनादरश्रवणात्तदाऽऽद्रवणात्सूच्यते हि ॥ (1-3-33)

ब्रह्मविद्याधिक्रियोक्ता देवानां योग्यतान्वयात् ।
शूद्रस्याप्यधिकारोऽस्तु तत्सत्वादिति वार्यते ॥ 307 ॥

(पू) शूद्रस्याप्यधिकारोऽत्र ब्रह्मविद्यासु विद्यते ।
श्रौतधीविरहेप्यस्य पुराणश्रवणादिना ॥ 308 ॥

ब्रह्मस्वरूपतद्ध्यानप्रकारज्ञानसंभवात् ।
मुमुक्षुतासंभवाच्च सामर्थ्यार्थित्वसंभवात् ॥ 309 ॥

तस्माज्जानश्रुतिं रैक्वश्शूद्रेत्यामन्त्र्य तस्य हि ।
(सि) उपादिशद्ब्रह्मविद्यामिति वादोऽसमञ्जसः ॥ 310 ॥

जानश्रुतेर्हंसनिन्दावाक्यानुश्रवणाद्गुरुम् ।
तदैव रैक्वं प्रत्येवाद्रवणात्सूच्यतेऽस्य शुक् ॥ 311 ॥

तामुद्दिश्यैव शूद्रेति गुरूक्तिर्नतु जातितः ।
वेदान्तवाक्यजनितविज्ञानस्यैव वेदने ॥ 312 ॥

उपायत्वश्रुतेस्तस्य शूद्रजातावसंभवात् ।
अर्थित्वसंभवेप्यस्य सामर्थ्यं तु न विद्यते ॥ 313 ॥

पुराणश्रवणानुज्ञा कृता पापप्रशान्तये ।
शूद्रस्यातः परोपास्तौ सर्वथा नास्त्यधिक्रिया ॥ 314 ॥

सू - ॥ क्षत्रियत्वगतेश्च ॥ ( 1-3-34 )

जानश्रुतेश्च शुश्रूषोर्बहुदायीति वाक्यतः ।
क्षत्रियत्वप्रतीतेश्च तदाह्वानं न जातितः ॥ 315 ॥

सू - ॥ उत्तरत्र चैत्ररथेन लिङ्गात् ॥ ( 1-3-35 )

अस्यां संवर्गविद्यायामुत्तराख्यायिकास्थले ।
क्षत्रियस्यैव सम्बन्धो ब्राह्मणेतरजातिषु ॥ 316 ॥

अभिप्रतारिणश्चैत्ररथाख्यस्य प्रतीयते ।
जानश्रुतिरतश्चात्र रैक्वान्यः क्षत्रियो मतः ॥ 317 ॥

कापेयसाहचर्याच्च ज्ञायतेऽभिप्रतारिणः ।
अन्यत्र दर्शनाच्चैत्ररथता राजतापि च ॥ 318 ॥

सू - ॥ संस्कारपरामर्शात्तदभावाभिलापाश्च ॥ ( 1-3-36 )

विद्योपदेशवाक्येषु संस्कारस्याभिमर्शनात् ।
शूद्रस्य तदभावाच्च नाधिकारोऽत्र विद्यते ॥ 319 ॥

सू - ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ( 1-3-37 )

जाबालस्य च शुश्रूषोश्शूद्रत्वाभावनिच्चये ।
स्थिते सत्येवोपदेशप्रवृत्तेर्नास्य योग्यता ॥ 320 ॥

सू - ॥ श्रवणाध्ययनार्थप्रतिषेधात् ॥ ( 1-3-38 )

शूद्रस्य वेदश्रवणाध्ययनादीनि सर्वथा ।
निषिध्यन्ते ततस्तस्य नाधिकारोऽस्त्युपासने ॥ 321 ॥

सू - ॥ स्मृतेश्च ॥ ( 1-3-39 )

न चास्योपदिशेद्धर्ममित्यादिस्मृतिवाक्यतः ।
श्रवणादिनिषेधश्च स्पष्टो नातोऽस्य योग्यता ॥ 322 ॥

॥ इत्यपशूद्राधिकरणम् ॥

॥ अथ प्रमिताधिकरणशेषः ॥

सू - ॥ कम्पनात् ॥ ( 1-3-40 )

प्रासङ्गिकं समाप्याथ प्रकृतस्य परात्मताम् ।
अङ्गुष्ठप्रमितस्यैव वक्तुं युक्तिः प्रदर्श्यते ॥ 323 ॥

कठेऽत्र यदिदं किञ्चेत्यादिनाभिहिताद्भयात् ।
अङ्गुष्ठप्रमितप्राणशब्दवाच्योत्थितात्सदा ॥ 324 ॥

वज्रादिवोद्यतात्सर्वदेवानां कम्पनाद्भृशम् ।
अङ्गुष्ठप्रमितस्तादृक्स्वभावः परमः पुमान् ॥ 325 ॥

सू - ॥ ज्योतिर्दर्शनात् ॥ ( 1-3-41 )

न तत्र सूर्य इत्यादिवाक्योक्तस्य स्थलेऽत्र च ।
सर्वभासां कारणस्य परासाधारणस्य च ॥ 326 ॥

ज्योतिषो दर्शनान्नित्यनिर्गतातिशयस्य च ।
अङ्गुष्ठप्रमितः श्रीमान् नारायण इतीर्यते ॥ 327 ॥

॥ इत्यङ्गुष्ठप्रमिताधिकरणम् ॥

॥ अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ ( 1-3-10 )

सू - ॥ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ( 1-3-42 )

सामन्याकाशशब्दस्य श्रुतस्य दहरान्तिके ।
आशङ्क्यार्थो जीव इति परमात्मेति साध्यते ॥ 328 ॥

(पू) साम्न्याकाशो हवै नामरूपयोरिति पठ्यते ।
अत्राकाशो मुक्तजीवस्तस्यैव प्रस्तुतत्वतः ॥ 329 ॥

(सि) धूत्वेत्युत्तरवाक्ये चेत्येवं वादो न युज्यते ।
अत्राकाशो नामरूपनिर्वोढा परमः पुमान् ॥ 330 ॥

नामरूपास्पर्शरूपार्थान्तरत्वोपदेशतः ।
तन्नामरूपकर्तृत्वं बद्धमुक्तोभयात्मतः ॥ 331 ॥

अर्थान्तरत्वं वक्त्यस्य बद्धस्तद्भागुपाधितः ।
तन्निर्वोढा न मुक्तोऽपि जगद्व्यापारदूरगः ॥ 332 ॥

अनेन जीवेनेत्यादिवाक्यैस्तु परमात्मनः ।
निर्वोढृत्वं तयोर्नामरूपयोः प्रतिपादितम् ॥ 333 ॥

धूत्वेत्यत्राभिसंभाव्यतयैव प्रकृतः परः ।
तस्मादत्राकाशशब्दवाच्यो नारायणः प्रभुः ॥ 334 ॥

सू - ॥ सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ( 1-3-43 )

(पू) ऐक्योपदेशाद्भेदस्य नेहेति च निषेधतः ।
(सि) जीवादर्थान्तरो ब्रह्म नेति वादो निरस्यते ॥ 335 ॥

सुषुप्त्युत्क्रान्तिकालेषु प्राज्ञेनेत्यादिवाक्ययोः ।
उक्तजीवपरिष्वङ्गारोहयोः प्रत्यगात्मतः ॥ 336 ॥

परस्य भेदेनोक्तेश्च तदन्योऽस्ति परः पुमान् ।
स्वेनैव परिरंभादिस्स्वपतो हि न संभवेत् ॥ 337 ॥

सू - ॥ पत्यादिशब्देभ्यः ॥ ( 1-3-44 )

अत्र सर्वस्याधिपतिरिति वाक्ये परात्मनि ।
प्राज्ञे श्रुतेभ्यः पत्यादिशब्देभ्यः प्रत्यगात्मतः ॥ 338 ॥

विलक्षणोऽयमैक्योक्तिस्तथा भेदनिषेधवाक् ।
सर्वस्य ब्रह्मकार्यत्वप्रयुक्तेति समर्थितम् ॥ 339 ॥

॥ इत्यर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥

॥ इति प्रथमाध्याये तृतीयः पादः ॥

॥ अथ चतुर्थः पादः ॥

॥ आनुमानिकाधिकरणम् ॥ ( 1-4-1 )

सू - आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ ( 1-4-1 )

पूर्वत्र स्पष्टजीवादिलिङ्गवाक्यं विचारितम् ।
अत्रात्यन्तस्पष्टजीवलिङ्गवाक्यं विचार्यते ॥ 340 ॥

अत्यन्तस्पष्टजीवादिलिङ्गवाक्यविचारणात् ।
लक्षणस्य ब्रह्मभिन्नेऽतिव्याप्तिर्वार्यतेऽत्र च ॥ 341 ॥

पूर्वं जीवात्परः कश्चित् नेति वादो निराकृतः ।
अत्र प्रकारान्तरेण प्रवृत्तस्स निवार्यते ॥ 342 ॥

(पू) महतः परमव्यक्तमिति मन्त्रे कठश्रुतेः ।
अव्यक्तशब्देनोक्तं तत् - प्रधानमपि कारणम् ॥ 343 ॥

तत्तन्त्रप्रत्यभिज्ञानात्पुरुषात्पञ्चविंशकात् ।
पुरुषान्न परं किञ्चिदित्यन्यस्य च वारणात् ॥ 344 ॥

(सि) इति चेन्न रथत्वेन शरीरं यद्धि रूपितम् ।
तद्ग्राह्यव्यक्तशब्दोऽतः नाशब्दं तन्न कारणम् ॥ 345 ॥

आत्मानं रथिनं विद्धीत्यादिपूर्वोक्तमन्त्रतः ।
उपासनोपायभूता आत्मदेहादयः क्रमात् ॥ 346 ॥

रूपिता ये रथित्वाद्यैर्वशीकार्यत्व एष्वथ ।
पराः प्रोक्ता इन्द्रियेभ्यः परा इत्यादिमन्त्रतः ॥ 347 ॥

तत्रेन्द्रियादयस्ते च स्वस्वशब्देन भाषिताः ।
शरीरं तु रथत्वेन रूपितं न स्वशब्दतः ॥ 348 ॥

परिशेषात्पूर्वमुक्तवाक्यस्थाव्यक्तशब्दतः ।
तदेव गृह्यतेऽतोऽत्र नैव तन्त्राभिमर्शनम् ॥ 349 ॥

न पञ्चविंशकः प्रोक्तः पुरुषः पर इत्यतः ।
वशीकार्ये परां काष्ठां गतः प्राप्यः परः पुमान् ॥ 350 ॥

इममर्थं वाक्यशेषः प्रदर्शयति च स्फुटम् ।
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान इत्यपि ॥ 351 ॥

सू-सूक्ष्मं तु तदर्हत्वात् ॥ ( 1-4-2 )

शरीरावस्थमव्यक्तमेव कार्यार्हमित्यतः ।
शरीरमेव तेनेहाऽव्यक्तशब्देन गृह्यते ॥ 352 ॥

सू - ॥ तदधीनत्वादर्थवत् ॥ ( 1-4-3 )

परमात्मशरीरत्वात्तदधीनतयाऽर्थवत् ।
भूतसूक्ष्ममिति ह्यत्राव्यक्तशब्देन गृह्यते ॥ 353 ॥

सू - ॥ ज्ञेयत्वावचनाच्च ॥ ( 1-4-4 )

यदि तन्त्रप्रक्रिया स्यात् व्यक्ताव्यक्तेति तद्गिरः ।
वक्तव्या ज्ञेयताऽस्यापि नोक्ता साऽतो न सा मता ॥ 354 ॥

सू - वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ( 1-4-5 )

(पू) अशब्दमिति वाक्येनाऽव्यक्तस्य ज्ञेयतोच्यते ।
(सि) नैवं प्राज्ञस्य तत्रोक्तेस्तस्यैव प्रकृतत्वतः ॥ 355 ॥

सू - ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ( 1-4-6 )

अत्र प्रकरणे येयमित्यारभ्यासमाप्तितः ।
उपास्योपासनोपासितॄणां ज्ञेयतया बहुः ॥ 356 ॥

उपन्यासस्तथा प्रश्नस्त्रयाणामेव दृश्यते ।
तस्मादव्यक्तस्य नेह ग्रहणं तान्त्रिकस्य हि ॥ 357 ॥

सू - ॥ महद्वच्च ॥ ( 1-4-7 )

बुद्धेरात्मा महानित्यत्रात्मशब्दात् यथा महान् ।
न गृह्यते तथाऽव्यक्तशब्देनापि न तान्त्रिकम् ॥ 358 ॥

॥ चमसाधिकरणम् ॥ ( 1-4-2 )

सू - ॥ चमसवदविशेषात् ॥ ( 1-4-8 )

अव्यक्ताख्यप्रधानस्य स्वतन्त्रत्वं निराकृतम् ।
अजामन्त्रेण तत्सिद्धिरित्याशंक्य निरस्यते ॥ 359 ॥

(पू) श्वेताश्वतरवेदेऽजामेकामित्यादि पठ्यते ।
तत्राजा तन्त्रसिद्धा स्यादकार्यत्वश्रुतेस्तथा ॥ 360 ॥

स्वातन्त्र्येण प्रजानां च स्रष्टृत्वश्रवणादपि ।
(सि) मैवमब्रह्मात्मिकाजा कारणत्वेन नोच्यते ॥ 361 ॥

जन्मायोगश्रुतेरेव नियमो नहि तद्ग्रहे ।
यथार्वाग्बिल इत्यादौ चमसाख्ये च साधने ॥ 362 ॥

श्रुतेपि वाक्यशेषेण शिरसश्चमसत्वधीः ।
तथात्र तन्त्रसिद्धाजाग्रहणे न नियामकम् ॥ 363 ॥

सृष्टेर्हेतुत्वमेवोक्तं न स्वातन्त्र्यमिहोच्यते ।
सू - ॥ ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ( 1-4-9 )

ब्रह्मकारणिकैवैषाऽजा तथा तैत्तिरीयकाः ॥ 364 ॥

अधीयतेऽणोरणीयानित्यारभ्य परात्मतः ।
सर्वोत्पत्त्या तदात्मत्ववादिमन्त्रगणस्थले ॥ 365 ॥

अजामेकामिति प्रोक्ताजा परात्मात्मिकैव सा ।
सू - ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ ( 1-4-10 )

अस्मान्मायीति वाक्येन सृष्टेरत्रोपदेशतः ॥ 366 ॥

अजात्वब्रह्मकार्यत्वधर्मयोर्न परस्परम् ।
विरोधो, लयकाले तु नामरूपे विहाय तत् ॥ 367 ॥

ब्रह्मदेहतया तिष्ठत्यचिद्वस्त्वजता ततः ।
भजमाना सृष्टिकाले ते अजा ब्रह्महेतुका ॥ 368 ॥

आदित्यस्य यथा सृष्टौ मधुत्वं कार्यता तथा ।
तस्यैव लयकाले तु सूक्ष्मस्थितिरकार्यता ॥ 369 ॥

॥ इति चमसाधिकरणम् ॥

॥ सङ्ख्योपसङ्ग्रहाधिकरणम् ॥ ( 1-4-3 )

सू - ॥ न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ( 1-4-11 )

प्रास्तमब्रह्मात्मकत्वमजाया हेत्वभावतः ।
यस्मिन्नित्यत्र तल्लिङ्गमस्तीत्येतन्निरस्यते ॥ 370 ॥

(पू) यस्मिन्पञ्चेति मन्त्रोऽस्ति बृहदारण्यकश्रुतौ ।
एष मन्त्रस्सांख्यतन्त्रतत्त्वबोधक इष्यते ॥ 371 ॥

पञ्चविंशतिसंख्याकतन्त्रतत्त्वप्रतीतितः ।
मोक्षाधिकारादेतानि तान्त्रिकाणीति निश्चयः ॥ 372 ॥

(सि) मैवं, यस्मिन्पञ्च पञ्चजना इत्यादिवाक्यतः ।
पञ्चविंशतिसंख्योपसंग्रहादपि तत्पदात् ॥ 373 ॥

नात्र तन्त्रप्रतीतिस्स्यादेषां तेभ्यः पृथक्त्वतः ।
यस्मिन्निति पदप्रोक्तब्रह्माश्रयतया सदा ॥ 374 ॥

तेषां ब्रह्मात्मकत्वं हि ज्ञायते चातिरेकतः ।
यच्छब्दवाच्यश्चाकाशश्चाधिको पञ्चविंशतेः ॥ 375 ॥

संख्यासंग्रह एवात्र नास्तीति ज्ञाप्यतेऽपिना ।
अत्र पञ्चजनाभिख्याः पञ्च सन्तीति कथ्यते ॥ 376 ॥

सू - ॥ प्राणादयो वाक्यशेषात् ॥ ( 1-4-12 )

पञ्च प्राणादयः पञ्चजना ब्रह्माश्रया इति ।
प्राणस्य प्राणमित्यादिवाक्यशेषात्प्रतीयते ॥ 377 ॥

सू - ज्योतिषैकेषामसत्यन्ने ॥ ( 1-4-13 )

असत्यन्नेपि काण्वानां पाठे पञ्चजना इमे ।
इन्द्रियाणीति बुध्येत ज्योतिश्शब्दात्पुरोदितात् ॥ 378 ॥

प्रकाशकानां ब्रह्मोक्त्वा प्रकाशकमनन्तरम् ।
पञ्चपञ्चेत्युक्तितस्स्युस्तादृश्येवेन्द्रियाणि हि ॥ 379 ॥

अतो यस्मिन्पञ्च पञ्चेत्यादिना परमात्मनि ।
अक्षभूतस्थितिप्रोक्तेर्नैव कथ्येत तान्त्रिकम् ॥ 380 ॥

॥ इति संख्योपसंग्रहाधिकरणम् ॥

॥ कारणत्वाधिकरणम् ॥ ( 1-4-4 )

सू - ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ ( 1-4-14 )

अब्रह्मात्मप्रधानस्य कारणत्वमवैदिकम् ।
इत्युक्तं तत्र वेदानामैककण्ठ्योक्तिरस्यते ॥ 381 ॥

(पू) सदेवेत्यसदेवेति क्वचिदव्याकृतं तथा ।
उच्यते कारणं वस्तु वाक्यैः कारणबोधिभिः ॥ 382 ॥

ब्रह्मणः कारणत्वे तु सत्त्वासत्त्वादिबाधतः ।
सर्ववाक्यैककण्ठ्यं न भवेत् , तन्त्रोदिते पुनः ॥ 383 ॥

सत्त्वासत्त्वाव्याकृतत्वान्यासते कालभेदतः ।
अनादित्वात्सृष्टिकाले परिणामित्वतस्तथा ॥ 384 ॥

नामरूपवियोगेनाव्यक्तत्वात्प्रलये ततः ।
(सि) कारणं तत्प्रधानं स्यादिति वादोऽसमञ्जसः ॥ 385 ॥

सर्वज्ञत्वाद्युक्तधर्मविशिष्टस्यैव सर्वदा ।
अकाशादिषु कार्येषु कारणत्वेन कीर्तनात् ॥ 386 ॥

ब्रह्मैव कारणमिति सर्ववाक्यैर्विनिश्चयः ।
सत्यं ज्ञानमिति श्रुत्या प्रकृतस्य विपश्चितः ॥ 387 ॥

सर्वेषूत्तरवाक्येषु सम्बन्धः परिदृश्यते ।
एवमेव हि सर्वत्र, तस्मात् ब्रह्मैव कारणम् ॥ 388 ॥

सू - ॥ समाकर्षात् ॥ ( 1-4-15 )

प्राक् सोकामयतेत्युक्तब्रह्मणस्सृजतो जगत् ।
असद्वा इदमित्यत्र, तद्धेत्युक्तस्य चोपरि ॥ 389 ॥

स एष इति वाक्ये च समाकर्षादसत्पदम् ।
अव्याकृतपदं चाह ब्रह्माव्यक्तशरीरकम् ॥ 390 ॥

तथा ब्रह्मात्मशब्दौ च न प्रधानावबोधकौ ।
कारणत्वप्रसङ्गोऽतः प्रधानस्य न विद्यते ॥ 391 ॥

॥ इति कारणत्वाधिकरणम् ॥

॥ जगद्वाचित्वाधिकरणम् ॥ (1-4-5 )

सू - ॥ जगद्वाचित्वात् ॥ ( 1-4-16 )

सर्वत्र चेतनस्यैव जगत्कारणतोच्यते ।
इत्युक्तं प्राक् , चेतनस्स कर्मिजीवो न चेतरः ॥ 392 ॥

तेनाधिष्ठितमेवैतत्प्रधानं हेतुरिष्यते ।
इत्यसौ सांख्यवादोऽत्राधिकृतौ विनिवार्यते ॥ 393 ॥

(पू) कौषीतकीश्रुतौ यो वै बालाक इति पठ्यते ।
वेदितव्यतयात्रोक्तः वियुक्तः प्रकृतेः पुमान् ॥ 394 ॥

यस्यवैतदितिश्रुत्या कर्मसम्बन्धितोक्तितः ।
ब्रह्मणस्तु च तद्योगः पुण्यपापात्मकर्मणि ॥ 395 ॥

रूढत्वात्कर्मशब्दस्य तदेवात्रोक्तमित्यतः ।
(सि) कर्मिजीवाधिष्टितैतत्प्रधानं हेतुरित्यसत् ॥ 396 ॥

यस्य वैतत्कर्म स इत्युक्तकर्मपदस्य च ।
ब्रह्मकार्यजगद्वाचित्वान्न सांख्योक्तपुंग्रहः ॥ 397 ॥

बालाकिना ब्रह्मतया प्रोक्तादित्यादिकर्मिणाम् ।
तत्त्वं निराकृत्य, परज्ञापनायैव भाषिते ॥ 398 ॥

वाक्येऽस्मिन्कर्मशब्देन पुण्यपापादि नोच्यते ।
अज्ञातज्ञापनासिद्धेः कार्यं क्रियत इत्यतः ॥ 399 ॥

प्राक् प्रस्तुतादित्यमुखजगद्वाच्येतदित्यपि ।
अतश्चैतज्जगत्कृत्स्नं यस्य कार्यं परात्मनः ॥ 400 ॥

नारायणस्स एवात्र वेदितव्यतयोच्यते ।
सू - ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्वचाख्यातम् ॥ 1-4-17 ॥

(पू) एवमेवेत्यत्र वाक्ये भोक्तुर्जीवस्य लिङ्गतः ॥ 401 ॥

अथास्मिन्प्राण इत्यादौ मुख्यप्राणस्य चान्वयात् ।
(सि) नायं परात्मेति चेत्प्राक् परिहारोऽस्य दर्शितः ॥ 402 ॥

उपक्रमादिना ब्रह्मपरत्वे निश्चिते सति ।
सर्वं तदनुरोधेन नेयं लिङ्गमितीरितम् ॥ 403 ॥

प्रातर्दने जीवमुख्यप्राणलिङ्गप्रकीर्तनम् ।
तत्तच्छरीरकब्रह्मोपासार्थमिति भाषितम् ॥ 404 ॥

इह चास्मिन् प्राण इति सामानाधिकरण्यतः ।
प्राणान्तर्याम्युपास्त्यर्थं युक्तं प्राणप्रकीर्तनम् ॥ 405 ॥

सू ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ (1-4-18)

देहातिरिक्तजीवस्य सद्भावप्रतिपादनम् ।
तदन्यब्रह्मसद्भावज्ञापनायेति जैमिनिः ॥ 406 ॥

क्वैष एतदिति प्रश्नादथास्मिन्प्राण इत्यतः ।
सता सोम्येत्यादिवाक्यसमार्थोत्तरवाक्यतः ॥ 407 ॥

एके च शाखिनस्तस्मिन् शेत इत्यवसानगम् ।
परात्मविषयं वाक्यं संवादेऽस्मिन्पठन्ति हि ॥ 408 ॥

॥ इति जगद्वाचित्वाधिकरणम् ॥

॥ वाक्यान्वयाधिकरणम् ॥

सू - ॥ वाक्यान्वयात् ॥ ( 1-4-19 )

पूर्वत्र कर्मशब्दस्य जगदर्थकताश्रयात् ।
वाक्यस्य भोक्तृपरता निरस्ताधिकृतौ त्विह ॥ 409 ॥

कर्मजन्यफलात्तैव साक्षात्संप्रतिपाद्यते ।
तत्परत्वं च वाक्यस्य युक्तमित्येतदस्यते ॥ 410 ॥

(पू) न वा अरे पत्युरिति बृहदारण्यकश्रुतौ ।
द्रष्टव्यत्वेन संप्रोक्तः पुरुषस्तान्त्रिको मतः ॥ 411 ॥

पतिजायापुत्रवित्तपश्वादिप्रियतान्वयात् ।
जीवप्रतीतिरस्त्यादौ तथा मध्यावसानयोः ॥ 412 ॥

वियुक्ताचिद्धर्मजीवस्वरूपज्ञानमेव हि ।
तन्त्रेऽमृतत्वहेतुत्वेनोच्यतेऽतोऽत्र तादृशम् ॥ 413 ॥

स्वरूपममृतत्वाय द्रष्टव्यत्वेन कथ्यते ।
(सि) अतः प्रधानं तद्युक्तं विश्वकारणमित्यसत् ॥ 414 ॥

समन्वयादत्र कृत्स्नवाक्यस्य परमात्मनि ।
द्रष्टव्यत्वेन निर्दिष्टस्स एव परमः पुमान् ॥ 415 ॥

जीवस्य स्वेष्टसंपत्त्यै यतः पत्यादयः प्रियाः ।
तद्वियुक्तमतो ध्येयं रूपं सन्त्यज्य तान्प्रियान् ॥ 416 ॥

असङ्गतेयमुक्तिस्स्यादन्वेष्टव्यं प्रियं हि तत् ।
पत्यादीनां स्वकामाय न स्युः पत्यादयः प्रियाः ॥ 417 ॥

आत्मनस्तु हि कामायेत्युक्त्वाऽऽत्मा वा अरे इति ।
द्रष्टव्यत्वेन निर्दिष्टो जीवान्यः पर एव सः ॥ 418 ॥

स्वीयान्प्रति प्रियत्वं च पत्यादीनां यदिच्छया ।
स परस्सत्यसङ्कल्पोऽतिप्रियः पुरुषोत्तमः ॥ 419 ॥

सू - ॥ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ ( 1-4-20 )

सर्वज्ञानप्रतिज्ञायास्सिद्धेर्लिङ्गमिदं मतम् ।
यज्जीववाचिभिश्शब्दैः परमात्माभिभाषणम् ॥ 420 ॥

यदि जीवः परात्मैव न तत्कार्यतया भवेत् ।
तदा परात्मविज्ञानात् जीवज्ञानं न संभवेत् ॥ 421 ॥

उत्पत्तिश्च लयश्चास्य ज्ञायते परमात्मतः ।
अतः परोक्तिर्जीवात्मशब्देनेत्याश्मरथ्यकः ॥ 422 ॥

सू - ॥ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ ( 1-4-21 )

जीवस्य ब्रह्मकार्यत्वे बहुदोषप्रसङ्गतः ।
न जायत इति श्रुत्या तस्य नित्यत्वसिद्धितः ॥ 423 ॥

पूर्वत्रोक्तमयुक्तं तस्योत्क्रमिष्यत एव हि ।
ब्रह्मभावाज्जीवशब्देनोक्तिरित्यौडुलोमिकः ॥ 424 ॥

सू - ॥ अवस्थितेरिति काशकृत्स्नः ॥ ( 1-4-22 )

अनेकदोषदुष्टत्वादेतदप्यसमञ्जसम् ।
शरीरभूते जीवात्मन्यात्मत्वेन परात्मनः ॥ 425 ॥

अवस्थितेरस्य जीवशब्देन प्रतिपादनम् ।
अन्तर्यामिब्राह्मणे च तथान्यत्र श्रुतावपि ॥ 426 ॥

चिदचिद्भ्यां शरीरित्वं ब्रह्मणो घुष्यते मुहुः ।
वक्त्येवं काशकृत्स्नोऽदस्सूत्रकर्तुर्मतं प्रियम् ॥ 427 ॥

॥ इति वाक्यान्वयाधिकरणम् ॥

॥ प्रकृत्यधिकरणम् ॥ ( 1-4-7 )

सू - ॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ ( 1-4-23 )

यदभ्युपगतं पूर्वं जगत्प्रति परात्मनः ।
उपादानत्वमेतन्न स्यादित्येतन्निवार्यते ॥ 428 ॥

(पू) निमित्तमेव जगतो नोपादानं भवेत्परः ।
लोके तयोः कारणयोर्भेदनैयत्यदर्शनात् ॥ 429 ॥

अस्मान्मायीत्यादिवाक्यैर्भेदस्य प्रदिपादनात् ।
ब्रह्मणो निर्विकारत्वश्रुतिबाधादपीत्यसत् ॥ 430 ॥

(सि) सर्वज्ञानप्रतिज्ञानदृष्टान्तानुपरोधतः ।
निमित्तमात्रं न ब्रह्मोपादानं च जगत्प्रति ॥ 431 ॥

ब्रह्मविज्ञानेन सर्वविज्ञानात्मप्रतिज्ञया ।
येनाश्रुतं श्रुतमिति वाक्यावगतया तथा ॥ 432 ॥

यथा सोम्येति वाक्योक्तमृत्तत्कार्यनिदर्शनात् ।
ब्रह्मैवोपादानमिति ज्ञायते, ब्रह्म तत् यदि ॥ 433 ॥

निमित्तहेतुरेव स्यात् जगद्ज्ञानं न तद्धिया ।
न भवेद्धि कुलालादिधिया कार्यघटादिधीः ॥ 434 ॥

विलक्षणस्य सर्वस्मात्सर्वशक्तेः परात्मनः ।
शास्त्रमात्राधिगम्यस्य कार्यकारणरूपयोः ॥ 435 ॥

अवस्थयोरपि सदा चिदचिद्भ्यां शरीरिणः ।
एकस्यैव निमित्तत्वोपादानत्वे ह्यबाधिते ॥ 436 ॥

विकारास्तु शरीरेऽचिद्वस्तुन्येव हि सङ्गताः ।
अतः कार्यदशायामप्यविकारित्वमक्षतम् ॥ 437 ॥

जगच्छरीरकस्यास्योपादानत्वेऽपि सर्वथा ।
अस्मान्मायीत्यादिनाऽवगम्यते दोषशून्यता ॥ 438 ॥

सू - ॥ अभिध्योपदेशाच्च ॥ ( 1-4-24 )

स्वस्यैव ब्रह्मणस्स्रष्टुस्सोकामयत बह्विति ।
तदैक्षतेति च बहुभावचिन्तोपदेशतः ॥ 439 ॥

ब्रह्मैव विश्वोपादानं निमित्तं चेति गम्यते ।
सू - ॥ साक्षाच्चोभयाम्नानात् ॥ ( 1-4-25 )

किंस्विद्वनं क इत्याद्यैस्साक्षादाम्नायते परः ॥ 440 ॥

उपादानं निमित्तं चेत्यतो ब्रह्मैव तद्द्वयम् ।
सू - ॥ आत्मकृतेः ॥ ( 1-4-26 )

तदात्मानं स्वयमिति प्रकृतस्य परात्मनः ॥ 441 ॥

सृष्टेः कर्मत्वकर्तृत्वे प्रतीयेते परश्च सः ।
नामरूपाश्रयः कार्यं कर्ता च तदनाश्रयः ॥ 442 ॥

सू - ॥ परिणामात् ॥ ( 1-4-27 )

अत्रोपदिश्यमानस्य परिणामस्य सर्वथा ।
परे न दोषावहता त्वैश्वर्यावहता भृशम् ॥ 443 ॥

अपृथङ्नामरूपादिसूक्ष्माचिज्जीवदेहिनः ।
विभक्तनामरूपाचिज्जीवदेहतया श्रुतौ ॥ 444 ॥

परिणामोपदेशो हि तद्धेदमिति वाक्यतः ।
अतोऽपुमर्थादिदोषाश्शरीरचिदचिद्गताः ॥ 445 ॥

दशाद्वयेऽप्यात्मभूतं ब्रह्मापहतपाप्मकम् ।
स्थूलसूक्ष्मावस्थकृत्स्नवस्तुनो ब्रह्मदेहता ॥ 446 ॥

तदात्मत्वं ब्रह्मणश्च वेदान्ते बहु पठ्यते ।
अतोऽनघः परात्मैवोभयमप्यत्र कारणम् ॥ 447 ॥

सू - ॥ योनिश्च हि गीयते ॥ ( 1-4-28 )

यद्भूतयोनिं कर्तारमीशं पुरुषमित्र्युचोः ।
परः कृत्स्नस्य जगतो योनित्वेन हि गीयते ॥ 448 ॥

योनिशब्द उपादानवाचीत्यत्रैव गम्यते ।
यथोर्णनाभिवाक्येनातः परे हेतुताद्वयम् ॥ 449 ॥

॥ इति प्रकृत्यधिकरणम् ॥

सर्वव्याख्यानाधिकरणम् ॥ ( 1-4-8 )

सू - ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ ( 1-4-29 )

कारणत्वमुपास्यत्वमुक्तं नारायणस्य हि ।
अयुक्तं तदिदं रुद्रः क्वचिच्छाखाशु कथ्यते ॥ 450 ॥

कारणत्वेनेति शङ्का पूर्वोक्तन्यायसञ्चयैः ।
निरस्तेति ज्ञापयितुं प्रवृत्तेयमधिक्रिया ॥ 451 ॥

(पू) यदातमस्तदित्याद्यैः श्वेताश्वतर उच्यते ।
रुद्रस्यैकस्य जगतः प्रलयेऽवस्थितिस्ततः ॥ 452 ॥

तस्यैव कारणत्वं स्यादित्येतदसमञ्जसम् ।
(सि) उक्तन्यायकलापेन सर्वे कारणवादिनः ॥ 453 ॥

श्रीमन्नारायणपरा वेदान्ताः प्रतिपादिताः ।
नारायणस्यैव बहुभावसङ्कल्पनादिभिः ॥ 454 ॥

धर्मैरसाधारणैश्च कारणत्वे सुनिश्चिते ।
शिवादिशब्दास्तत्रैव नेतव्या रूढिभङ्गतः ॥ 455 ॥

विपर्ययोऽत्र किं न स्यादिति शङ्का न संभवेत् ।
नारायणपदस्यास्य रूढ्या योगेन वा तथा ॥ 456 ॥

तदन्यपरताऽयोगात् णत्वासंभवतस्तथा ।
संज्ञायां वै णत्वविधेः श्रीशत्वासंभवादपि ॥ 457 ॥

अतो नारायणस्यैव कारणत्वादिकं स्थिरम् ।
अतश्चालोड्येति चाथ ध्येयो नारायणस्सदा ॥ 458 ॥

इत्यादिकथितं वेदे सूत्रकारैश्च पञ्चमे ।
अभ्यासोऽत्राध्यायपरिसमाप्तिद्योतको भवेत् ॥ 459 ॥

॥ इतिसर्वव्याख्यानाधिकरणम् ॥

॥ प्रथमाध्यायः परिसमाप्तः ॥

॥॥।
च्ड्ढड़दृदड्ड ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

॥ श्री शारीरककारिकावली ॥

च्र्ण्त्द्धड्ड ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

॥ श्रीशारीरककारिकावली ॥

॥ अथ द्वितीयाध्याये प्रथमः पादः ॥

॥ स्मृत्यधिकरणम् ॥ (2-1-1)

सू ॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ (2-1-1)

नारायणाख्यं ब्रह्मैव जगद्धेतुतया श्रुतौ ।
प्रतिपाद्यमिति प्रोक्तमाद्येऽध्याये सुनीतिभिः ॥ 1 ॥

परपक्षान्निराकृत्य स्थूणानिखननक्रमात् ।
पूर्वोक्तार्थं दृढीकर्तुमेषोऽध्यायः प्रवर्तते ॥ 2 ॥

पूर्वं साङ्ख्यौ निरस्तौ द्वौ वेदान्तार्थप्रकाशनात् ।
निरीश्वरोऽत्र कपिलस्मृतिग्राही निरस्यते ॥ 3 ॥

पू. आप्तप्रणीतस्मृत्यैव वेदान्तार्थविनिर्णयः ।
कार्योऽल्पश्रुतमन्दैस्तत् वेदोक्तकपिलोक्तया ॥ 4 ॥

स्मृत्या तत्त्वैकरया न्याय्यो वेदार्थनिर्णयः ।
अन्यथाऽनवकाशोऽस्याः तस्मादखिलकारणम् ॥ 5॥

प्रधानमेव वेदान्तवेद्यमित्येव युक्तिमत्।
न च वाच्यमयुक्तत्वात्प्रधानं नेति कारणम् ॥ 6 ॥

वचनेन विरोधे हि नैव न्यायः प्रवर्तते ।
ततो जगत्कारणं तत् प्रधानमिति चेन्न तत् ॥ 7॥

सि. न्यायाविरुद्धस्मृत्योपबृंहितान्निगमादपि ।
दुर्बलस्तद्विरुद्धस्मृत्युपबृंहित इत्यतः ॥ 8 ॥

श्रुतिस्तुतोक्त्याप्ततममन्वादिस्मृतिभिः कृतम् ।
उपबृंहणमेव स्यात् ग्राह्यं भूयोऽन्यथा महान् ॥ 9 ॥

आसामनवकाशत्वरूपदोषस्समापतेत् ।
न ह्यासां सावकाशत्वं भवेद्धर्मोपबृहणात् ॥ 10 ॥

यतस्तेषां च धर्माणां पराराधनरूपता ।
" इष्टापूर्त " मिति श्रुत्या " यज्ञैस्त्व " मिति च स्मृतेः ॥ 11 ॥

ज्ञायतेऽतः कापिलोक्त्योपबृंहणमसङ्गतम् ।
वेदोपबृंहणं नाम तदुक्तार्थप्रकाशनम् ॥ 12 ॥

कापिल्यास्तद्विरुद्धत्वात् न तत्संभावनार्हता ।
" ऋषिं प्रसूत " मित्युक्त्या नैवाप्ततमता भवेत् ॥ 13 ॥

सू ॥ इतरेषां चानुपलब्धेः ॥ (2-1-2)

साक्षात्कृतातीन्द्रियार्थजातानामात्मयोगतः ।
वेदान्तविद्वरिष्ठानां मन्वादीनां च भूयसाम् ॥ 14 ॥

कपिलोक्तप्रकारेण तत्त्वस्यानुपलब्धितः ।
एतत्स्मृतिर्भ्रान्तिमूलेत्यनया नार्थनिर्णयः ॥ 15॥

॥ इति स्मृत्यधिकरणम् ॥

॥ योगप्रत्युक्त्यधिकरणम् ॥ (2-1-2)

सू ॥ एतेन योगः प्रत्युक्तः ॥ (2-1-3)

कपिलोक्तेर्भ्रान्तिमूलकत्वेपि तदसंभवात् ।
वेदप्रवक्तृविध्युक्तयोगतन्त्रस्य, तेन वै ॥ 16 ॥

वेदोपबृंहणं न्याय्यमिति शङ्का निरस्यते ।
कृत्स्नवेदप्रवक्त्रैव योगस्याभिहितत्वतः ॥ 17 ॥

पू. ईशाभ्युपगमाच्चापि योगस्मृत्याऽर्थनिर्णयः ।
न्याय्योऽतो वेदवाक्यानां प्रधानपरतेत्यसत् ॥ 18॥

सि. कपिलोक्तेर्मिरासेन योगतन्त्रं च वारितम् ।
कपिलस्मृतिवद्वेदविरुद्धत्वाविशेषतः ॥ 19 ॥

अग्राह्या सर्वथा योगस्मृतिश्च भ्रान्तिहेतुका ।
क्षेत्रज्ञत्वाद्विधेर्वक्तुः भ्रमादिस्संभवेन्ननु ॥ 20 ॥

॥ इति योगप्रत्युक्त्यधिकरणम् ॥

॥ विलक्षणत्वाधिकरणम् ॥ (2-1-4)

सू-॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ (2-1-4)

मन्वादिस्मृतयस्तर्कविरुद्धत्वात्सुदुर्बलाः ।
तर्कानुसारिणी ग्राह्या कापिलीत्येतदस्यते ॥ 21 ॥

ईशाद्विकारित्वाज्ञत्वाऽपुमर्थाश्रचयतादिभिः ।
विलक्षणत्वाज्जगतः न भवेत् ब्रह्मकार्यता ॥ 22 ॥

वैलक्षण्यं च " विज्ञानञ्चे " ति वेदात्प्रतीयते ।
अतो जगत्कारणं तत् प्रधानं स्यात्सलक्षणम् ॥ 23 ॥

" तं पृथिव्यब्रवीत्, आप " इत्यादिश्रुतिवाक्यतः ।
पृथिव्यादेरपि स्पष्टं ज्ञानयोगोऽवसीयते ॥ 24 ॥

तस्मान्न जगतो ब्रह्मवैलक्षण्यं भवेदिति ।
आक्षेपपरिहारय पठ्यते सूत्रमुत्तरम् ॥ 25 ॥

पू.सू. ॥ अभिमानिव्यपदेशस्तु विशोषानुगतिभ्याम् ॥ (2-1-5)

धीकार्यव्यपदेशोऽयं " तं पृथिव्यब्रवीदि " ति ।
तत्तत्पदार्थाभिमानिदेवताविषयो मतः ॥ 26 ॥

" हन्ताह " मिति पृथ्व्यादेर्देवतेति विशेषणात् ।
" अग्निर्वागि " ति वागादावग्न्यादेश्चानुवेशनात् ॥ 27 ॥

ब्रह्मसालक्षण्यमस्य जगतोऽतो न विद्यते ।
प्रधानोपादानकत्वमतोऽस्त्वागमसंमतम् ॥ 28 ॥

सि-सू-॥ दृश्यते तु ॥ (2-1-6)

अत्रोच्यते माक्षिकादेः क्रिम्याद्युत्पत्तिदर्शनात् ।
कार्यकारणभावोऽस्ति सुविलक्षणयोरपि ॥ 19 ॥

सि-सू-॥ असदिति चेन्न प्रतिषेधमात्रत्वात्॥ (2-1-7)

कारणात् यदि कार्यस्य वैलक्षण्यमिहेष्यते ।
कारणे तर्हि कार्यं न सदित्यसत उद्भवः ॥ 30 ॥

प्रसजेदिति चेत्तन्न कार्यकारणयोर्मिथः ।
सलक्षणत्वनियममात्रस्य प्रतिपेधतः ॥ 31 ॥

तयोरेकद्रव्यता तु स्नीकृतैवैकमेव तत् ।
कारणं कार्यतां प्राप्तं सलक्षणविलक्षणे ॥ 32॥

अवस्थे भजते तस्मात् नियमोऽत्र न विद्यते ।
अतोऽत्र वैलक्षण्येऽपि ब्रह्मकारणकं जगत् ॥ 33॥

पू-सू.-॥ अपीतौ तद्वत्प्रसङ्गादसमज्जसम् ॥ (2-1-8)

जगतः कारणे ब्रह्मण्यपीत्यादौ परात्मनः ।
जगद्वच्च विकारित्वाद्यनिष्टः प्रसजेत्ततः ॥ 34 ॥

भवेद्वेदान्तवाक्यानामसमञ्जसतेति चेत् ।
सि-सु-न तु दृष्टान्तभावात् ॥ (2-1-9)

नैतद्युक्तं ब्रह्मणोऽस्य चिदचिद्वस्तुदेहिनः ॥ 35 ॥

कार्यकारणभावे चासंस्पर्शे गुणदोषयोः ।
निदर्शनस्य सद्भावात् यथा जीवस्य देहिनः ॥ 36॥

बाल्ययौवनवृद्धत्वधर्मास्सन्त्येव विग्रहे ।
आत्मन्येव ज्ञानसुखादीनि तद्वत्परात्मनः ॥ 37 ॥

शरीरभूतचिदचिद्गता दोषा अधीमुखाः ।
सार्वज्ञ्यसत्यसङ्कल्पतादयश्च परात्मनि ॥ 38 ॥

सि-सू-॥ स्वपक्षदोषाच्च ॥ (2-1-10 )

ब्रह्मकारणवादस्य संग्रहोऽस्य न केवलम् ।
निर्दुष्टत्वात्, प्रधानस्य हेतुत्वे दोषतोपि हि ॥ 39 ॥

प्रधानहेतुवादे हि पुंसो निर्विकृतेस्सदा ।
अजासान्निध्यतोऽन्योन्यं धर्माध्यासो न संभवेत् ॥ 40 ॥

अध्यासो ह्यन्यधर्मानुसन्धानं स्वान्यवस्तुनि ।
निर्विकारस्य सोऽध्यासो न भवेदचितो भृशम् ॥ 41 ॥

प्रकृतेरिति तन्मूलविश्वकार्याद्यसंभवः ।
तस्मादत्यन्तदुष्टत्वात् न तत्पक्षपरिग्रहः ॥ 42 ॥

सि-सू-॥ तर्काप्रतिष्ठानादपि ॥ (2-1-11)

अस्याप्रतिष्ठितत्वाच्च तर्कस्यान्यहतस्य च ।
एतन्मूलस्तन्त्रवादः त्याज्यः प्रामाणिकैर्भृशम् ॥ 43 ॥

सि-सू-॥ अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ (2-1-12)

क्लृप्तप्रकारादितरप्रकारेणानुमानिकम् ।
अनुमेयं तदिति चेत् एवमप्युक्तदोषतः ॥ 44 ॥

अनिर्मोक्षप्रसङ्गश्च दुर्वारो भवति ध्रुवम् ।
त्वदुक्ततर्कादधिककुतर्कस्यापि संभवात् ॥ 45 ॥

॥ इति विलक्षणत्वाधिकरणम् ॥

॥ शिष्टापरिग्रहाधिकरणम् ॥ (2-1-4)

सि-सू-॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ (2-2-13)

ब्रह्मकारणतावदोऽचाल्योप्यस्थिरतर्कतः ।
अणुकारणतर्कैस्स चाल्य इत्येतदस्यते ॥ 46 ॥

साङ्ख्यतन्त्रनिरासेन शिष्टा वेदापरिग्रहाः ।
निरस्ताः कणभक्षादिस्मृतयश्चाप्रतिष्ठिताः ॥ 47 ॥

शङ्काऽधिकाऽणुवादस्य न दुष्टत्वं बहुग्रहात् ।
निस्तारस्तर्कमूलत्वादस्याप्यस्थिरतेति च ॥ 48 ॥

॥ इति शिष्टापरिग्रहाधिकरणम् ॥

॥ भोक्त्रापत्त्यधिकरणम् ॥ (2-1-4)

सि-सृ-भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ (2-2-24)

त्वत्पक्षेपि जगद्देहप्रतिसम्बन्धितावशात् ।
जीवस्येव ब्रह्मणोऽपि दोषाः स्युः भोक्तृतादयः ॥ 49 ॥

इत्थमत्र पुनस्साङ्ख्यप्रत्यवस्थानमस्यते ।
चिदचिद्रूपजगता देहिनः परमात्मनः ॥ 50 ॥

जीवात्मवद्देहयोगप्रयुत्त सुखदुःखयोः ।
भोक्तृत्वापत्तितोऽस्य स्यादविभागस्तु जीवतः ॥ 51 ॥

सि. इति चेन्न विभागस्स्यात् हेयप्रतिभटत्वतः ।
शरीरित्वप्रयुक्ता न सुखदुःखोपभोक्तृता ॥ 52 ॥

कर्ममूलैव " न ह वा " इति कर्मवपुःपरम् ।
" स एकधे " त्यादिवाक्यान्मुक्तस्यापि शरीरिता ॥ 53 ॥

श्रूयतेऽतः परस्यास्य नितरां भोक्तृता नहि ।
राजाज्ञावर्तिनां लोके यथा तदतिवर्तिनाम् ॥ 54 ॥

सुखदुःखान्वयेऽप्यस्य राज्ञो देहित्वमात्रतः ।
न स्यात्तदुपभोक्तृत्वमनन्याधीनतावशात् ॥ 55 ॥

अतो जगच्छरीरस्य ब्रह्मणस्संर्वशासितुः ।
विश्वोपादानतावादः दोपगन्धविवर्जितः ॥ 56 ॥

॥ इति भोक्त्रापत्त्यधिकरणम् ॥

॥ आरम्भणाधिकरणम् ॥ (2-1-6)

सि-सू-॥तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ (2-1-25)

आश्रित्यानन्यतां कार्यहेत्वोर्विश्वपरात्मनोः ।
विश्वकारणताऽस्योक्ताऽनन्यता साऽत्र साध्यते ॥ 57 ॥

पू. विश्वेशयोरनन्यत्वं न कदाप्युपपद्यते ।
नहि हेतोरनन्यत्वं संभवेत्कार्यवस्तुनः ॥ 58 ॥

नामधेयाऽऽकारकार्यकालधीभेददर्शनात् ।
कारकीयक्रियाजातवैयर्थ्यापत्तितोऽपि च ॥ 59 ॥

तस्माज्जगत् ब्रह्मकार्यं ब्रह्मतोऽन्यत् भवेद्ध्रुवम् ।
अनन्यत्वश्रुतिस्त्वत्रान्यथा नेयेति चेन्न तत् ॥ 60 ॥

सि . कार्यस्य जगतस्तस्मात्कारणात्परमात्मनः ।
वाचारम्भणशब्दादेरनन्यत्वं प्रतीयते ॥ 61 ॥

वाक्पूर्वव्यवहारस्य सिद्ध्यै हेतुमृदादिना ।
पृथुबुध्नोदरत्वादिविकारो घट इत्यापि ॥ 62 ॥

नाम च स्पृश्यते तस्मात्कार्यरूपं घटाद्यपि ।
मृत्तिकाद्रव्यमित्येव प्रमाणेनोपलभ्यते ॥ 63 ॥

न तु द्रव्यान्तरत्वेन, बुद्धिशब्दान्तरादयः ।
उपपन्ना यथैकस्यास्थाभेदैरनेकधा ॥ 64 ॥

बालो युवा वृद्ध इ#िति बुद्धिशब्दान्तरादयः ।
कार्यभेदाश्च दृश्यन्ते विरोधो नात्र कश्चन ॥ 65 ॥

तदवस्थोत्पादकत्वात् क्रियाणामपि सार्थता ।
नामरूपास्पृष्टसूक्ष्मचिदचित्तनुकं हि यत् ॥ 66 ॥

तत् ब्रह्म कारणावस्थं यत्स्थूलचिदचित्तनु ।
तत् कार्यावस्थमित्यस्मात्कारणात् ब्रह्मणो जगत् ॥ 67 ॥

कार्यरूपमनन्यत्स्यादुभयावस्थयोरपि ।
गुणदोषव्यवस्थोक्ता शरीरस्य च देहिनः ॥

सि-सू-भावे चोपलब्धेः ॥ (2-1-16)

घटादिकार्यभावेऽपि तदेवेदं मृदादिकम् ।
द्रव्यमित्युपलब्धेश्च कार्यं कारणमेव तत् ॥ 69 ॥

सि-सू-सत्त्वाच्चापरस्य ॥ (2-1-17)

घटादिकमिदं सर्वं मृदेव प्रागभूदिति ।
" सदेव सोम्येदमग्र " इति लोके श्रुतावपि ॥ 70 ॥

अपरस्यास्य कार्यस्य कारणे सत्त्वतस्तयोः ।
अनन्यत्वं ततः कार्यं कारणत्वेन कथ्यते ॥ 71 ॥

सू - असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेश्शब्दान्तराच्च ॥ (2-1-18)

(पू .) " असद्वा इद " मित्यादावग्रे कार्यस्य कारणे ।
असत्त्वव्यपदेशात्स उक्तार्थो नोपपद्यते ॥ 72 ॥

(सि.) इति चेन्नन्यधर्मेण द्रव्यस्य व्यपदेशतः ।
स्थूलत्वेतरसूक्ष्मत्वरूपधर्मान्तरान्वयात् ॥ 73 ॥

असदित्युक्तिः, अर्थोयं वाक्यशेषादिबोधितः ।
वाक्यशेषश्च तदसदेव सन्मन इत्ययम् ॥ 74 ॥

असत्पदार्थस्तुच्छान्यो मनस्कारादिहेष्यते ।
युक्तिस्सत्त्वासत्त्वयोश्च वस्तुधर्मत्वसाधिका ॥ 75 ॥

मृदः किञ्चिदवस्थत्वं घटोस्तीत्युक्तिकारणम् ।
तद्विरुद्धाकारयोगः तन्नास्तीत्युक्तिकारणम् ॥ 76 ॥

नेतरः कश्चिदस्त्यत्र पदार्थोऽभावसंज्ञकः ।
शब्दान्तरं च पूर्वोक्तं सदेवेत्यादिकं भवेत् ॥ 77 ॥

(सू.) पटवच्च ॥ 2-1-19)

व्यतिषङ्गविशेषेण यथैव बहुतन्तवः ।
कार्यान्तरं नामरूपे भजन्ते ब्रह्म तत्तथा ॥ 78 ॥

(सू.) यथा च प्राणादिः ॥ (2-1-20)

यथैक एव वायुश्च देहे वृत्तिविशेषतः ।
प्राणापानेत्यादिनामरूपकार्यान्तराणि च ॥ 79 ॥

भजते तद्वदेवैकं ब्रह्म स्थावरजङ्गमम् ।
चित्रं जगद्भवत्येवेत्यतोऽनन्य् जगत्परात् ॥ 80 ॥

॥ इत्यारम्भणाधिकरणम् ॥

॥ इतरव्यपदेशाधिकरणम् ॥ (2-1-7)

(पू.सू.) इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ (2-1-21)

परस्योपादानताया विरोधोऽस्तः परेरितः ।
अनन्यत्वे, निमित्तत्वप्रयुक्तोऽत्र निवार्यते ॥ 81 ॥

(पू) ब्रह्मेतरस्य जीवस्य ब्रह्मत्वव्यपदेशतः ।
स्वहिताकरणं दोषः स्वानिष्टकरणं तथा ॥ 82 ॥

प्रसक्तस्तत्र दुर्वारः तत्त्वमस्यादिवाक्यतः ।
जीवात्मब्रह्मणोरैक्यं ह्युच्यते ब्रह्मणोऽस्य च ॥ 83 ॥

सर्वज्ञत्वादयोऽनेकगुणाश्चङ्गीकृता अतः ।
तथाविधब्रह्मणो हि स्रष्टृत्वं नोपपद्यते ॥ 84 ॥

जगद्दुःखोल्बणमिदं प्रतिकूलं च दृश्यते ।
जीवानन्यब्रह्मणोऽतः कारणत्वमसङ्गतम् ॥ 85 ॥

(सि.सू.) अधिकं तु भेदनिर्देशात् ॥ (2-1-22)

" ज्ञाज्ञौ, य आत्मनी " त्यादिभेदनिर्देशतः श्रुतौ ।
जीवात्मनोऽर्थान्तरं तत् ब्रह्मेत्येवावसीयते ॥ 86 ॥

तादात्म्यं जीवपरयोः तत्त्वमस्यादिभिः श्रुतम् ।
शरीरात्मत्वतः, तस्मात् अन्योन्यं स्रृष्टसृज्ययोः ॥ 87 ॥

स्वरूपभेदस्सिद्धोऽतो जीवकर्मानुसारतः ।
तदनिष्टप्रपञ्चस्य स्रष्टृत्वेऽपि परात्मनः ॥ 88 ॥

नोक्तदोषोऽस्त्यतश्चास्य जगत्कारणता स्थिरा ।
(सि.सू)-अश्मादिवच्च तदनुपपत्तिः ॥ (2-1-23)

अश्मकाष्ठादिहेयाचित्पदार्थानां यथा सदा ॥ 89 ॥

हेयप्रतिभटानन्तकल्याणब्रह्मरूपता ।
न संभवेत्तथा स्वल्पधियोऽशक्तस्य दुःखिनः ॥ 90 ॥

जीवस्यापि ब्रह्मता सा सर्वथैव न संभवेत् ।
तयोश्शरीरात्मतया सामानाधिकरण्यवाक् ॥ 91 ॥

जगतो ब्रह्मकार्यत्वं तदनन्यत्वमस्य च ।
अचिज्जीवब्रह्मणां च गुणदोषव्यवस्थितिः ॥ 92 ॥

सर्वश्रुत्यविरोधश्च सर्वमत्र समञ्जसम् ।
निमित्तकारणमपि ततो नारायणः प्रभुः ॥ 93 ॥

॥ इति इतरव्यपदेशाधिकरणम् ॥

उपसंहारदर्शनाधिकरणम् ॥ (2-1-8)

(सु.) उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ (2-1-24)

वैलक्षण्यं परस्योक्तं सत्यसङ्कल्पतादिभिः ।
सङ्कल्पमात्रतः सृष्टिः न युक्तेत्येतदस्यते ॥ 94 ॥

(पू.) कारकौधोपसंहारदर्शनात्कार्यसर्जने ।
निस्सहायब्रह्मणोऽस्य न जगद्धेतुता भवेत् ॥ 95॥

इति चेन्नासहायस्य यथा क्षीरस्य हेतुता ।
दधिभावे तथाऽस्यापि संभवेद्विश्वहेतुता ॥ 96 ॥

(सू.)- देवादिवदपि लोके ॥ (2-1-25)

यथा देवादयः स्वे स्वे लोके सङ्कल्पमात्रतः ।
सृजन्त्यात्मापेक्षितानि तथाऽसौ पुरुषोत्तमः ॥ 97 ॥

स्वसङ्कल्पेनैव कृत्स्न जगत्सृजति चावशः ।
दृष्टान्तोक्तिर्ब्रह्मणोऽत्र सुखग्रहणसिद्धये ॥

॥ इत्युपसंहारदर्शनाधिकरणम् ॥

कृत्स्नप्रसक्त्यधिकरणम् ॥ (2-1-9)

(पू.सृ) - कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ (2-1-26)

उक्ता प्राक् क्षरिदृष्टान्तात् विश्वारम्भकतेशितुः ।
तत्र दृष्टान्तवैषम्यशङ्काऽत्र विनिवार्यते ॥ 99 ॥

(पू ) - निर्गतावयवस्यास्य ब्रह्मणो जगदात्मना ।
परिणामे स्वरूपं तत् कृत्स्नं कार्यान्वितं भवेत् ॥ 100 ॥

अंशेन परिणामे तु निरंशत्वावबोधकाः ।
शब्दाःस्युर्बाधितास्तस्मात् कारणत्वमसङ्गतम् ॥ 101 ॥

(सि.सू.) श्रुतेस्तु शब्दमूलत्वात् ॥ ( 2-1-27)

श्रुतिप्रामाण्यतो नैवमसामञ्जस्यमापतेत् ।
ब्रह्मणोऽनंशितां विश्वसर्गं चाह श्रुतिस्स्वयम् ॥ 102 ॥

अस्य शब्दैकवेद्यस्यालौकिकस्य च वस्तुनः ।
विचित्रशक्तियोगोऽत्र वेदोक्तो न विरुद्ध्यते ॥ 103 ॥

सामान्यतो दृष्टमूलं चोद्यं ब्रह्मणि सर्वदा ।
सर्वार्थविसजातीये सर्वशक्तौ न संभवेत् ॥ 104 ॥

(सि.सृ.) आत्मनि चैवं विचित्राश्च हि ॥ (2-1-28)

अचेतनविजातीयत्वादेवाचिद्गता गुणाः ।
न चेतने प्रसज्यन्ते विजातीयेष्वचित्स्वपि ॥ 105 ॥

अग्निवार्यादिकेष्वेवमासतेऽद्भुतशक्तयः ।
एवं परात्मनोपि स्युः विचित्राश्शक्तयस्सदा ॥ 106 ॥

(सि.सू.)स्वपक्षदोषाच्च ॥ (2-1-29)

लोकिकार्थसजातीयप्रधानादौ च कारणे ।
लोकदृष्टा दोषगणा भवेयुरत एव च ॥ 107 ॥

विलक्षणं तत् ब्रह्मैव कारणं भवितुं क्षमम् ।
अनेकदोषदुष्टत्वात् न प्रधानादि कारणम् ॥ 108 ॥

सि.सू. सर्वोपेता च तद्दर्शनात् ॥ (2-1-30)

सर्वशक्तियुता ह्येषा देवता परमा सदा ।
" परास्य शक्ति " रित्यादिश्रुतिरर्थं ब्रवीत्यमुम् ॥ 109

(सि.सू.) विकरणत्वान्नेति चेत्तदुक्तम् ॥ (2-1-31)

" न तस्य कार्य " मित्यादिश्रुत्या देहेन्द्रियोज्झितात् ।
न कार्यारंभ इति चेत्पूर्वमत्रोक्तमुत्तरम् ॥ 110 ॥

" श्रुतेस्तु शब्दमूलत्वा " दित्यादावाह च श्रुतिः ।
" पश्यत्यचक्षु " रित्याद्या तस्माद्ब्रह्मैव कारणम् ॥ 111 ॥

॥ इति कृत्स्नप्रसक्त्यधिकरणम् ॥

प्रयोजनवच्वाधिकरणम् ॥ ( 2-1-10)

पू-सू.न प्रयोजनवत्त्वात् ॥ (2-1-32)

जगत्स्रष्टृत्वमुक्तं प्राक् स्वेच्छयैव परात्मनः ।
सृष्टेः प्रयोजनाभावात्तन्न स्यादिति वार्यते ॥ 112 ॥

फलाविनाभूततया सृष्टेस्तस्य परात्मनः ।
अवाप्ताखिलकामस्य वैमुख्यात्तत्प्रयोजने ॥ 113 ॥

न स्रष्टृत्वं, समारम्भे कार्याणां द्विविधं फलम् ।
स्वार्थः परार्थ इति च पूर्णस्यास्य न चादिमः ॥ 114 ॥

दयालोर्नान्तिमो दुःखयुग्जगत्सृष्ट्यसंभवात् ॥

तस्मात् जगत्कारणत्वं ब्रह्मणोऽस्य न संभवेत् ॥ 114 ॥

(सि.सृ) - लोकवत्तु लीलाकैवल्यम् ॥ (2-1-33)

लीलैव केवला सर्गे ब्रह्मणोऽस्य प्रयोजनम् ।
भवेत्संपरिपूर्णस्य लोक ऋद्धिमतो यथा ॥ 116 ॥

राज्ञो लीलैकफलिका कन्दुकाद्याश्च केलयः ।
तथैव ब्रह्मणस्सृष्टेः लीलैव स्या प्रयोजनम् ॥ 117 ॥

(सि.सू.) - वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति ॥ (2-1-34)

देवाद्युत्कृष्टादिसृष्ट्या वैषम्यं परमात्मनः ।
दुःखान्वयप्रापणाच्च नैर्घृण्यमपि संभवेत् ॥ 118 ॥

इति चेत् ते नहि स्यातां सृज्यमानाखिलात्मनाम् ।
तत्तत्कर्मापेक्षितत्वात्तत्तत्सृष्टेः, तथा श्रुतिः ॥ 119 ॥

" साधुकारी साधु " रिति तथा पाराशरी स्मृतिः ।
" निमित्तमात्रमेवासा " वित्याद्याऽर्थं ब्रवीत्यमुम् ॥ 120 ॥

(सि.सू.न) कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ॥ 2-1-35)

" सदेवे " त्यादिवाक्ये चाविभागश्रवणात्तदा ।
जीवा न स्युः कर्म कुतः प्रक्सृष्टेः कथमुच्यते ॥ 121 ॥

सृष्टिवैषम्यमितिचेन्न जीवानां च कर्मणाम् ।
अनादित्वात्, जीवतत्त्वं तत्काले परमात्मनि ॥ 122 ॥

अविभक्तं चातिसूक्ष्मं कर्माद्यस्ति यतस्ततः ।
अविभागश्चोपपन्नः न चेदेवं समापतेत् ॥ 123 ॥

अकृताभ्यागमकृतनाशदोषद्वयं स्थिरम् ।
न " जायत " इति श्रुत्या लभ्यते जीवनित्यता ॥ 124 ॥

तस्मात् जगत्कारणं तत् ब्रह्मैवेति च सुस्थितम् ।
(सि.सू ) - सर्वधर्मोपपत्तेश्च ॥ (2-1-36)

प्रधानपरमाण्वादेः हेतुत्वे बाधिता हि ये ॥ 125 ॥

तेषां च सर्वधर्माणां ब्रह्मण्येवोपपत्तितः ।
नारयणाख्यं ब्रह्मैव जगतस्सर्वकारणम् ॥ 126 ॥

॥ इति प्रयोजनवच्वाधिकरणम् ॥

॥ इति द्वितीयाध्याये प्रथमः पादः ॥

द्वितीयाध्याये द्वितीयः पादः ॥

॥ रचनानुपपत्त्यधिकरणम् ॥ (2-2-1)

(सि.सू.)रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ (2-2-1)

ब्रह्मकारणतापक्षे दोषाः प्रास्ताः परेरिताः ।
अत्र स्वपक्षरक्षार्थमस्यतेऽन्यमतव्रजः ॥ 127 ॥

सन्मतत्वभ्रामकं सत्कार्यवाददिसंग्रहात् ।
प्रथमं कापिलमतं दूष्यते मानयुक्तिभिः ॥ 128 ॥

तनूविश्वादिकं कार्यं स्वसजातीयहेतुजम् ।
कार्यत्वाद्धटवल्लोक एवमेव हि दृश्यते ॥ 129 ॥

प्रकृते पक्षतन्वादेः सुखदुःखादिरूपतः ।
तत्सरूपं कारणं तत् प्रधानमिति सिद्ध्यति ।. 130 ॥

सुखाद्यात्मकसच्वादिद्रव्यसङ्घतरूपिणः ।
(सि.) प्रधानस्यैव साजात्यमिति चेत्तन्न युक्तिमत् ॥ 131 ॥

प्राज्ञानधिष्ठितं तन्न प्रधानं विश्वकारणम् ।
अचेतनस्य तदभिज्ञानधिष्ठितवस्तुनः ॥ 132 ॥

रचनानुपपत्तेस्तदभिज्ञाधिष्ठितस्य च ।
तत्प्रवृत्तेर्दर्शनाच्च यथा दार्वादि केवलम् ॥ 133 ॥

स्थादिकार्यनिर्माणे न समर्थमिदं ततः ।
प्राज्ञानधिष्ठितं न स्यात्प्रधानं विश्वकारणम् ॥ 234 ॥

सि.सू.- पयोम्बुवच्चेत्तत्रापि ॥ (2-2-2)

(पू.) प्राज्ञानधिष्ठितक्षीरमेघमुक्ताम्बुनोर्यथा ।
दधिभावेन चूतादिरसरूपेण च स्वयम् ॥ 135 ॥

परिणामस्तथाऽस्यापि युज्यते केवलस्य सः ।
(सि). मैवं प्राज्ञानधिष्ठाने प्रवृत्तिर्नोपपद्यते ॥ 136 ॥

यदुक्तं क्षीरवार्यादि सर्वं पक्षीकृतं हि तत् ।
" योप्सु तिष्ठ " न्निति श्रुत्या प्राज्ञाधिष्ठितता मता ॥ 137॥

(सि.सू.)व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ (2-2-3)

प्राज्ञाधिष्ठानानपेक्षपरिणामित्वमुच्यते ।
यदि प्रधानस्य, तर्हि सर्गस्य व्यतिरेकतः ॥ 138 ॥

प्रतिसर्गावस्थयावस्थित्यभावः प्रसज्यते ।
यस्मात्प्राज्ञानपेक्षत्वं प्रकृतेस्सर्गकर्मणि ॥ 139 ॥

प्रोक्तं तस्मात्सर्वदैव सृष्टिर्ह्यस्याः प्रसज्यते ।
प्राज्ञानधिष्ठितं नातः प्रधानं विश्वकारणम् ॥ 140 ॥

(सि.सू.) अन्यत्राभावाच्च न तृणादिवत् ॥ (2-2-4)

धन्वादिना चर्वितस्य तृणादेः क्षीरता यथा ।
स्वयं भवति तद्वच्च प्रधानस्येति नोचितम् ॥ 141 ॥

तस्य तत्परिणामश्च प्राज्ञास्थित्यैव जायते ।
तदन्यवृषभुक्तस्य क्षीरभावो न दृश्यते ॥ 142 ॥

(सि.सू.) पुरुषाश्मवदिति चेत्तथापि ॥ (2-2-5)

पङ्गोर्द्दक्शक्तियुक्तस्य सान्निध्यात्तत्प्रचोदितः ।
अन्धः प्रवृत्तिशक्तोऽन्यः यथा कार्ये प्रवर्तते ॥ 143 ॥

अयस्कान्ताश्मसान्निध्यात् यथा चायः प्रवर्तते ।
एवं पुरुषसान्निध्यात् प्रकृतिश्च प्रवर्तते ॥ 144 ॥

इति चेन्न प्रधानस्य प्रवृत्तिर्नोपपद्यते ।
पङ्गोर्मार्गोपदेशादिव्यापारस्तत्र दृश्यते ॥ 145 ॥

पङ्गूपदेशग्रहणमन्धस्यापि च वर्तते ।
अयस्यमीपागमनमयस्कान्ताश्मनोऽस्ति हि ॥ 146 ॥

पुंसोऽत्र निष्क्रियत्वाद्वि विकारो नास्ति तादृशः ।
ततस्तत्सन्निधानान्न प्रवृत्तिः प्रकृतेर्भवेत् ॥ 147 ॥

तत्सान्निध्यस्य नित्यत्वात् नित्यसर्गः प्रसज्यते ।
नित्यमुक्तत्वतोऽस्य स्यादभावो बन्धमोक्षयोः ॥ 148 ॥

(सि.सू.) अङ्गित्वानुपपत्तेश्च ॥ (2-2-6)

प्रतिसर्गदशायां च गुणानां समताजुषाम् ।
एकस्योत्कर्षरूपाङ्गिभावस्यानुपपत्तितः ॥ 149 ॥

तदुत्कर्षापकर्षात्माऽङ्गाङ्गित्वोत्थजगत्कृतिः ।
न संभवत्यतः प्राज्ञासङ्गि तन्नैव कारणम् ॥ 150 ॥

(सि.सू.)अन्यथानुमितौ च ज्ञाशक्तिवियोगात् ॥ (2-2-7)

उक्तरीत्यन्यरीत्यैव प्रधानानुमितावपि ।
ज्ञातृत्वशक्तिशून्यत्वात्तस्य दोषास्तथा स्थिताः ॥ 151 ॥

सि.सू. अभ्युपगमेप्यर्थाभावात् ॥ (2-2-8)

प्रधानस्याभ्युपगमेप्यर्थाभावादनेन च ।
तन्नानुमेयं भोगापवर्गरूपप्रयोजनम् ॥ 152 ॥

निर्विकारस्य पुंसोऽस्ति न भोगः प्रकृतीक्षणम् ।
तद्विसर्जनरूपापवर्गश्च स्यात्कदापि न ॥ 153 ॥

तस्सान्निध्यादेव पुंसः भोगस्संभवतीति चेत् ।
तत्सान्निध्यस्य नित्यत्वादपवर्गो न सेत्स्यति ॥ 154॥

(सि.सू.) विप्रतिषेधाच्चासमञ्जसम् ॥ (2-2-9)

पुंसश्च निर्विकारत्वं द्रष्टृत्वं भोक्तता तथा ।
बन्धमोक्षौ न तस्य स्तः प्रकृतेरेव तावुभौ ॥ 155 ॥

पुंसो भोगापवर्गार्था प्रवृत्तिः प्रकृतेस्तथा ।
एवं मिथो व्याहतोक्त्या दद्दर्शनमसङ्गतम् ॥ 156 ॥

॥ इति रचनानुपपत्त्यधिकरणम् ॥

महद्दीर्घाधिकरणम् ॥ 2-2-2)

(सि.सू.) महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् ॥ (2-2-10)

प्रधानहेतुवादस्य प्रागसाङ्गत्यमीरितम् ।
अणुकारणवादस्यासामञ्जस्यमिहोच्यते ॥ 157 ॥

(पू) मिथोऽवयवसंयोगात् अवयव्युद्भवात्तथा ।
अंशाल्पत्वाबहुत्वाभ्यामंशिवैषम्यदर्शनात् ॥ 158 ॥

तदंशाल्पत्वकाष्ठा चावश्यकीत्यणवो मताः ।
जगदारंभकास्ते च क्रमात्स्युरिति चेन्न तत् ॥ 159 ॥

(सि). द्व्यणुकात्परमाणोश्च त्र्यणुकादिजनिर्यथा ।
तदभ्युपगतं चान्यत् सर्वमप्यसमञ्जसम् ॥ 160 ॥

तन्त्वाद्यवयवास्स्वांशैष्षङ्भिः पार्श्वैर्हि सङ्गताः ।
जनयन्त्यवयव्याख्यं पृथुवस्त्वणवोऽपि ते ॥ 161 ॥

तथैव संयुज्यमानाः कल्पेरन् द्व्यणुकादये ।
तदणूनां निरंशत्वे परमाणुशतस्य च ॥ 162 ॥

संयेगेऽपि न चैकाणुपरिमाणाधिकं महत् ।
परिमाणं भवेत्तेषामंशवत्त्वं यदीष्यते ॥ 163 ॥

तेपि सांशः स्वकीयांशैः ते च स्वांशैरिति क्वचित् ।
कारणत्वस्य न स्याद्धि व्यवस्थितिरतो न सत् ॥ 164 ॥

(सि.सू.) उभयथापि न कर्मातस्तदभावः ॥ (2-2-11)

परमाणुष्वाद्यकर्मादृष्टकारितमुच्यते ।
तदद्दष्टं चाणुगतमथवाऽऽत्मगतं भवेत् ॥ 165 ॥

द्वेधाप्यकादाचित्कत्वाद्दष्टस्याऽस्य सर्वदा ।
उत्पादकत्वापत्तिः स्यात्कादाचित्कं भवेन्न तत् ॥ 166 ॥

ततश्च कर्मणाणूनां संयोगाभाव आगतः ।
विपाकापेक्षया नास्य सदोत्पादकतेति चेत् ॥ 167 ॥

नानाप्रकाराद्दष्टानामेकदैवैकरूपतः ।
न विपाकस्संभवेद्धि तथेशस्यानुमानतः ॥ 168 ॥

असिद्धेरीशसङ्कल्पात् नियमोऽत्र न संभवेत् ।
अतो जगत्कारणत्वं परमाणोरसङ्गतम् ॥ 169 ॥

(सि.सू.) समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ (2-2-12)

समावायाभ्युपगमाच्चेदं मतमसङ्गतम्।
द्रव्याप्रथक्सिद्धिहेतुतया जात्यादिकस्य च ॥ 170 ॥

इष्यते समवायोऽयं तथाभावेप्यमुष्य च ।
साम्याच्च हेत्वपेक्षायाः अनवस्था प्रसज्यते ॥ 171 ॥

स्वाभाविकस्तथाभावस्सम्बन्धस्येति चेत्तदा ।
एष स्वभावो जात्यादेरेव युक्तः किमन्यतः ॥ 172 ॥

(सि.सू.) नित्यमेव च भावात् ॥ (2-2-73)

सम्बन्धस्यास्य नित्यत्वे सम्बन्ध्यखिलवस्तुनः ।
नित्यमेव च भावाद्धि मतमेतदसङ्गतम् ॥ 173 ॥

(सि.सू.) रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ (2-2-14)

पार्थिवाद्यणुसङ्घानामेषां रूपादिमत्त्वतः ।
स्यात्स्वाभिमतनित्य त्वाऽनंशित्वादिविपर्ययः ॥ 174॥

घटादिकेषु रूपादिमत्स्वेवं दर्शनान्नहि ।
द्दष्टानुसारात्कल्प्योऽर्थः स्वभीष्टे पर्यवस्यति ॥ 175 ॥

सि.सू.उभयथा च दोषात् ॥ (2-2-15)

उक्तानित्यत्वादिदोषभयात् रूपादिशून्यता ।
अणुसङ्घे स्वीकृता चेत्कार्यं स्याद्रूपवर्जितम् ॥ 176 ॥

स्वहेतुगुणपूर्वत्वात् गुणानां कार्यवर्तिनाम् ।
एतद्दोषभयात्तेषु रूपवत्त्वं यदीष्यते ॥ 177 ।
तर्ह्यनित्यत्वादिदोषः पूर्वोक्तः प्रसजेत्ततः ।
दोषादुभयथा चैवमसमञ्जसमेव तत् ॥ 178 ॥

(सि.सू) - अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ (2-2-16)

श्रुतिन्यायविरुद्धेपि कपिलस्य मते क्वचित् ।
सत्कार्यवादमुख्येऽस्ति वैदिकानां परिग्रहः ॥ 179 ॥

केनाप्यंशेन काणादपक्षस्यास्यापरिग्रहात् ।
अनपेक्षैव कार्याऽत्रात्यन्तं मोक्षफलेप्सुभिः ॥ 180 ॥

॥ इति महद्दीर्घाधिकरणम् ॥

समुदायाधिकरणम् ॥ (2-2-3)

सि.सू.समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ (2-2-17)

अणुकारणतावादिपक्षे पूर्वं निराकृते ।
तत्साम्योपास्थितः पक्षः सौगतानां निरस्यते ॥ 181 ॥

चतुर्विधास्सौगतास्तेष्वाद्या वैभाषिकाख्यकाः ।
द्वितीयास्सौत्रान्तिकाख्या एषां दर्शनमीद्दशम् ॥ 182 ॥

गन्धादिसङ्घैरणुभिः पार्थिवाद्यैश्चतुर्विधैः ।
उत्पाद्यन्ते पृथिव्यादिसङ्धातास्तैश्च भौतिकाः ॥ 183 ॥

उत्पाद्यन्ते च सङ्घाताः बाह्यार्था एत एव हि ।
आन्तरो ज्ञानसन्तानरूपो देहान्तरास्थितः ॥ 184 ॥

अहंप्रतीतिविषयः - आत्मास्त्यर्थेष्वमीष्वपि ।
क्षणिकेषु स्थिरत्वादिबुद्ध्याख्याविद्ययाऽखिलम् ॥ 185 ॥

उपपद्यत एवातः जगदुत्पत्तिरप्यथ ।
युज्यते व्यवहारश्चेत्येतन्मतमसङ्गतम् ॥ 186 ॥

अणुहेतुकपृथ्व्यादिसङ्घे पृथ्व्यादिहेतुके ।
देहेन्द्रियादिसङ्घे च सङ्घोत्पत्तिर्न युज्यते ॥ 187 ॥

क्षणिकत्वाभ्युपगमात् अणुपृथ्व्यादिकस्य च ।
कदाऽणवः क्षणध्वस्ताः व्याप्रियन्ते च संहतौ ॥ 188 ॥

भूतानि च कदा वा ते संहन्यन्तेऽथ तानि च ।
कदा ते ज्ञानविषयाः यान्ति वा व्यवहार्यताम् ॥ 189 ॥

सर्वे क्षणविशिष्टाश्चेत् पदार्था, नहि युज्यते ।
जगदुत्पत्तिरपि च व्यवहारश्च लौकिकः ॥ 190 ॥

(सि.सू.) इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् ॥ (2-2-18)

अविद्या विपरीता धीः तया संस्कारशब्दिताः ।
रागद्वेषादयश्चैवमविद्यादिपरम्परा ॥ 191 ॥

अन्योन्यमूलाऽनादिश्च चक्रवत्परिवर्तते ।
भूतभौतिकसङ्घातं विनैतन्नोपपद्यते ॥ 192 ॥

अतस्सङ्घातभावाद्यमुपपन्नमिहेति चेत् ।
नैवमेतदविद्यादेः सङ्घातत्वादिकं प्रति ॥ 193 ॥

अनिमित्तत्वतोऽविद्या स्थिरताबुद्धिरस्थिरे ।
क्षणिकस्य हि नार्थस्य भजेत् संहतिहेतुताम् ॥ 194 ॥

शुक्तिरूप्यत्वबुद्धिर्हि न शुक्त्याद्यर्थसंहतेः ।
हेतुस्स्यात् किञ्च यस्य स्यात् क्षणिके स्थिरतामतिः ॥ 195 ॥

स तदैव ध्वस्त इति कस्य रागादिकं भवेत् ।
सि.सू.उत्तरो पादे च पूर्वनिरोधात् ॥ (2-2-19)

परक्षणोत्पत्तिकाले पूर्वक्षणविनाशतः ॥ 196 ॥

परक्षणं प्रत्येतस्य हेतुत्वानुपपत्तितः ।
न स्याद्विश्वोत्पत्तिरस्मिन् क्षणिकत्वमते ध्रुवम् ॥ 197 ॥

अभावस्यैव हेतुत्वे सर्वं सर्वत्र सर्वदा ।
उत्पद्येताऽथ पूर्वत्र वर्तिनोऽस्यैव हेतुता ॥ 198 ॥

कश्चित् घटक्षणो हेतुः स्यान्नानोत्तरभाविनाम् ।
(सि.सू.)असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ (2-2-20)

असत्यपि च हेतौ तत् कार्यमुत्पद्यते यदि ॥ 199 ॥

ज्ञानोत्पत्तावधिपतिसहकार्यादिकस्य च ।
कारणत्वप्रतिज्ञायाः विरोधश्चापि संभवेत् ॥ 200 ॥

प्रतिज्ञाऽनुपरोधाय तिष्ठत्येकघटक्षणे ।
घटक्षणान्तरोत्पत्तिः इष्यते भवता यदि ॥ 201 ॥

यौगपद्येनोपलब्धिः कार्यकारणयोर्भवेत् ।
(सि.सू.) प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ (2-2-21)

विनाशश्च द्विधा प्रोक्तः स्थूलसूक्ष्मप्रभेदतः ॥ 202 ॥

आद्योऽयमुपलब्ध्यर्हः घटादौ दण्डत्ताडिते ।
अन्त्यः प्रतिक्षणोद्भावी तदनर्हो निरन्वयौ ॥ 203 ॥

न स्यातां तौ विनाशादिधर्मभाग्वस्तुनस्सदा ।
अविच्छेदात् घटादौ चावस्थान्तरसमन्विते ॥ 204 ॥

निरन्वयविनाशस्यादर्शनादेवमे तु ।
दीपनिर्वाणेऽपि सूक्ष्मावस्थासंप्राप्तिरिष्यते ॥ 205 ॥

(सि.सू.) उभयथा च दोषात् ॥ (2-2-22)

जातस्य तुच्छतापत्तौ तुच्छाच्चोत्पत्तिवर्णने ।
दोषापत्तेरुभयथा ते न स्यातां हि सर्वथा ॥206 ॥

तुच्छादुत्पत्तिवादे हि कार्यं तुच्छात्मकं भवेत् ।
यस्मादुत्पद्यते यच्च तत् तदात्मकमेव हि ॥ 207 ॥

मृत्सुवर्णादिकार्यं हि दृश्यते तन्मयं यथा ।
जातस्य तुच्छतापत्तौ जगुत्तचेछात्मकं भवेत् ॥ 208 ॥

तच्च तुच्छात्मकं नाङ्गीक्रियते न प्रमीयते ।
तस्मादुभयथा दोषादिदं मतमसङ्गतम् ॥ 209 ॥

(सि.सू.) आकाशे चाविशेषात् ॥ (2-2-23)

तुच्छस्वरूपताऽऽकाशे न संभवति तत्र च ।
अबाधितप्रतीतिर्यत् पृथिब्यादाविवास्ति नः ॥ 210 ॥

पतत्यत्र श्येन इति तदाधारत्वतोऽनिशम् ।
(सि.सू.) अनुस्मृतेश्च ॥ (2-2-24)

प्रत्यभिज्ञानतोप्येवमर्थक्षणिकता नहि ॥

तदेवेदमिति ज्ञानमतीताद्यवगाहनात् ।
कालद्वयविशिष्टं च वस्त्वेकं सूचयत्यतः ॥ 212 ॥

अस्थिरत्वे पदार्थस्य प्रत्यभिज्ञा न सङ्गता ।
समानं दूषणं प्रोक्तं बाह्यार्थास्तित्ववादिनोः ॥ 213 ॥

(सि.सू.) नासतोऽदृष्टत्वात् ॥ (2-2-25)

ज्ञानोत्पत्तिक्षणेऽर्थस्यानवस्थानान्न कस्यचित् ।
अर्थस्य धीविषयता स्यादिति प्राक् यदीरितम् ॥ 214 ॥

तत्रानुमेयार्थवादी प्राह सौत्रान्तिकः परः ।
न ज्ञानविषयत्वेऽत्र वस्तुसत्तैव कारणम् ॥ 215 ॥

वस्तुनो धीविषयता यतस्तद्धेतुतात्मिका ।
विज्ञाने नीलपीतादिविचित्राकारदर्शनात् ॥ 216 ॥

पूर्वं समर्प्य स्वाकारं विज्ञाने तदनन्तरम् ।
स्वयं विनष्टो नीलादिरर्थः पुसाऽनुमीयते ॥ 217 ॥

यतोऽर्थकृतमेवैतत् ज्ञानवैचित्र्यमित्यसत् ।
ज्ञाने नीलादिराकारः लभ्यते यः स नार्हति ॥ 218 ॥

आकारो भवितुं नष्टस्यार्थस्यैवमपि क्वचित् ।
नष्टे धर्मिण्यदृष्टत्वात् धर्मस्यान्यत्र सङ्गतेः ॥ 219 ॥

जपापुष्पे विनष्टे हि लौहित्यं स्फटिके कुतः ।
धीवैचित्र्यमतोऽर्थस्य क्षणिकत्वे न संभवेत् ॥ 220 ॥

(सि.सू.) उदासीनानामपि चैवं सिद्धिः ॥ (2-2-26)

क्षणिकत्वे पदार्थानां निष्प्रयत्ननृणामपि ।
सर्वार्थसिद्धिस्स्यादेव प्रयत्नाद्यनुतिष्ठतः ॥ 221 ॥

तदानीमेव नष्टत्वात् तत्संस्कारादिकस्य च ।
स्थिरस्यैकस्यानुवर्तमानस्यासंमतत्वतः ॥ 222 ॥

भवेदहैतुकी सिद्धिः अप्रयत्नवतामपि ।
उभयोरप्यर्य दोषः समोऽतो दर्शनं न सत् ॥ 223 ॥

॥ इति समुदायाधिकरणम् ॥

उपलब्ध्यधिकरणम् ॥ (2-2-4)

(सि.सू.) नाऽभाव उपलब्धेः ॥ (2-2-27)

चतुर्विधेषु बौद्धेषु प्राङ्निरस्तं द्वयोर्मतम् ।
योगाचारस्यात्र मतं तृतीयस्य निरस्यते ॥ 224 ॥

यद्धीविचित्रत्वमर्थवैचित्र्यकृतमुच्यते ।
तन्नार्थवन्मतेरेव विचित्रत्वाच्च साकृतेः ॥ 225 ॥

निराकारधियां कुत्राप्यप्रकाशो हि संमतः ।
ततः प्रकाशमानायाः धियस्साकारता भवेत् ॥ 226 ॥

ज्ञायमानो य आकारः स ज्ञानस्येति निश्चयः ।
बहिर्वदवभासोऽपि तस्य विभ्रममूलकः ॥ 227 ॥

सहोपलम्भनियमादपि ज्ञानार्थयोस्तथा ।
ज्ञानादव्यतिरिक्तोऽर्थः किञ्च बाह्यार्थवादिभिः ॥ 228 ॥

ज्ञानेप्यर्थसरूपं च रूपमास्थेयमन्यथा ।
ज्ञानस्य तत्तदर्थं प्रत्यसाधारणता कथम् ॥ 229 ॥

तावन्मात्रेणैव सर्वव्यवहारोपपत्तितः ।
विज्ञानेतरबाह्यार्थकल्पनं नैव युक्तिमत् ॥ 230 ॥

इति योगाचारमतं न्यायेऽमुष्मिन्निरस्यते ।
विज्ञानव्यतिरिक्तार्थाभावो वक्तुं न शक्यते ॥ 231 ॥

जानाम्यहं घटमिति निराबाधोपलब्धितः ।
ज्ञातृज्ञानार्थेषु तुल्यं स्फुरत्स्वत्र पृथक् त्रिषु ॥ 232 ॥

ज्ञानस्यैकस्य सत्यत्वमसत्यत्वं तदन्ययोः ।
वदतोऽस्य मतं नूनं हास्यं निर्युक्तकत्वतः ॥ 233 ॥

सहोपलंभनियमात् अभेद इति तद्वचः ।
विरुद्धमर्थभेदस्य साहित्यं साधकं यतः ॥ 234 ॥

तदर्थव्यवहारानुगुण्यापादकतैव हि ।
तद्ज्ञानस्याकार इति घटादिर्न तथा भवेत् ॥ 235 ॥

ज्ञानस्य यस्य येनास्ति सम्बन्धो विषयेण तत् ।
ज्ञानं तद्विषयासाधारणमीदृग्व्यवस्थया ॥ 236 ॥

घटाद्यसाधारणत्वं तद्ज्ञानस्य हि कीर्त्यते ।
(सि.सू.) वैधर्म्याच्च न स्वन्पादिवत् ॥ (2-2-28)

स्वान्पज्ञानस्येव बाह्यघटाद्यर्थधियामपि ॥ 237 ॥

अर्थशून्यत्वसिद्ध्या च बाह्यार्था नेति चेन्न तत् ।
जाग्रद्दशाधियां स्वन्पज्ञानवैधर्म्यतो भृशम् ॥ 238 ॥

अर्थशून्यत्ववादो न युज्यते, स्वन्पगा धियः ।
निद्रादुष्टन्द्रियाज्जन्या बाधिताश्च भवन्ति हि ॥ 239 ॥

जाग्रद्दशाधियश्चैतद्विपरीता न तत्समाः ।
वस्तुतस्स्वान्पिके ज्ञानेप्यर्थसत्यत्वमिष्यते ॥ 240 ॥

ज्ञानानामर्थशून्यत्वे साध्योप्यर्थो न सिद्ध्यति ।
निरालम्बानुमानस्याप्यर्थशून्यत्वतस्तव ॥ 241 ॥

तस्यार्थवत्त्वे ज्ञानत्वमनेकान्तं भवेत् खलु ।
(सि.सू.) न भावोऽनुपलब्धेः ॥ (2-2-29)

भावोऽर्थशून्यज्ञानस्य न संभवति च क्वचित् ॥ 242 ॥

अकर्तृकाकर्मकस्य ज्ञानस्यानुपलब्धितः ॥

अतो योगाचारमतं सर्वमप्यसमञ्जसम् ॥ 243 ॥

॥ इत्युपलब्ध्यधिकरणम् ॥

सर्वथानुपपत्त्यधिकरणम् ॥ 2-2-5 ॥

(सि.सू.) सर्वथानुपपत्तेश्च ॥ (2-2-30)

बौद्धैकदेशिनां पक्षाः त्रिविधानां निराकृताः ।
अथ माध्यमिकस्सर्वशून्यवादी निरस्यते ॥ 244 ॥

उत्पर्त्तिदुर्निरूपैव भावतोऽभावतस्तथा ।
घटादिश्चोत्पद्यमानः मृदादेरुपमर्दितात् ॥ 245 ॥

उत्पद्यते चोपमर्दः नाशस्तस्याऽऽकृतेस्स च ।
अभाव एव तस्मान्न भावादुत्पत्तिरिष्यते ॥ 246 ॥

नान्त्यः पक्षोप्यभावाच्च भावोत्पत्तेरसंभवात् ।
इत्थ च दुर्निरूपत्वादुत्पत्तेस्तदनन्तराः ॥ 247 ॥

विकाराश्च न सन्त्येवाऽतस्तत्त्वं शून्यमुच्यते ।
मतं माध्यमिकस्येदं सर्वथा नोपपद्यते ॥ 248 ॥

सर्वं सदिति वा सर्वमसदित्येव वान्यथा ।
शून्यवादी प्रतिज्ञाय यतेत स्वेष्टसाधने ॥ 249 ॥

सर्वथानुपपत्तेश्च तदिष्टं तु न संभवेत् ।
वस्तुनो विद्यमानस्य सदमच्छब्दतद्धियोः ॥ 250 ॥

अवस्थागोचरत्वं हि प्रोक्तं तस्मान्न तुच्छता ।
कुतश्चिदपि सिद्ध्येत्तदभिप्रेता हि सर्वथा ॥ 251 ॥

इष्यते यदि नास्तित्वं अखिलं शून्यमित्यतः ।
तर्हि रूपान्तरेणैवास्तित्वं प्रोक्तं भवेत्, यतः ॥ 252 ॥

रूपान्तरापत्तिरेव नास्तिशब्दार्थ उच्यते ।
ततो मृत्पिण्डोपमर्दः घटत्वोत्पत्तिरूपकः ॥ 253 ॥

मृद्द्रव्यं पिण्डतावस्थायुक्तमुत्पादकं, तथा ।
तदेव घटतावस्थायुक्तमुत्पाद्यमिष्यते ॥ 254 ॥

तस्मादभावाद्भावस्य नोत्पत्तिः क्वचिदिष्यते ।
तस्मान्माध्यमिकस्येदं मतं सर्वमसङ्गतम् ॥ 255 ॥

॥ इति सर्वथानुपपत्त्यधिकरणम् ॥

॥ एकस्मिन्नसंभवाधिकरणम् ॥ (2-2-6)

(सि.सू.) नैकस्मिन्नसंभवात् ॥ (2-2-31)

निरस्यैवं सौगतोक्तिमार्हतस्य मतं त्विह ।
अणुकारणतावादसाम्योपस्थितमस्यते ॥256 ॥

जगत् जीवादिभेदेन षड्द्रव्यात्मकमीश्वरः ।
न कश्चिदस्तत्र जीवः देहतुल्यप्रमाणवान् ॥257 ॥

सदेवेत्यादिनियमशून्यं वस्त्वखिलं च तत् ।
सर्वं च सदसद्रूपं नित्यानित्यात्मकं तथा ॥ 258 ॥

भिन्नाभिन्नात्मकमपीत्येवं जैनमतं न सत् ।
सत्त्वासत्त्वादिधर्माणां तेजस्तिमिरवन्मिथः ॥ 259 ॥

विरुद्धानामेकदैवासंभवादेकवस्तुनि ।
नैतन्मतं सङ्गतं स्यात्, अश्वत्वमहिषत्वयोः ॥260 ॥

कथं युगपदेकस्मिन् समावेशस्य संभवः ।
ईशानाधिष्ठिताणोश्च कारणत्वे य ईरिताः ॥ 261 ॥

दोषास्ते तदवस्थाश्चेत्ययुक्तं जैनजल्पनम् ।
(सि.सू.) एवं चात्माऽकात्स्नर्यम् ॥ (2-2-32)

जीवस्यैवं वपुस्तुल्यमानाभ्युपगमे सति ॥ 262 ॥

हस्तिदेहस्थितस्यास्य मशकादिप्रवेशने ।
अल्पदेशव्यापितया भवेदपरिपूर्णता ॥ 263 ॥

बृहद्देहप्रवेशेऽपि कृत्स्नव्याप्तिर्न तत्र च ।
(सि.सू.) न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ (2-2-33)

न च सङ्कोचादिरूपावस्थाभ्युपनमेन च ॥ 264 ॥

परिहर्तुं विरोधोऽस्य शक्यते घटतुल्यता ।
विकारित्वानित्यतादिदोषास्पदतया भवेत् ॥ 265 ॥

(सि.सू.) अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः॥ (2-2-34)

आत्मनो मोक्षकाले यत्परिमाणं तदेव च ।
स्वाभाविकं ततश्चात्मस्वरूपवदमुष्य च ॥ 266 ॥

मोक्षकालिकमानस्य नित्यत्वात्पूर्वमप्यदः ।
मानमेवेति वक्तव्यतया तस्यात्मवस्तुनः ॥ 267 ॥

पूर्वं वपुस्तुल्यमानवदोऽतीवासमञ्जसः ।
तस्मान्मिथो विरुद्धत्वात् मतमेतदसङ्गतम् ॥ 268 ॥

इत्येकस्मिन्नसंभवाधिकरणम् ॥

पशुपत्यधिकरणम् ॥ (2-2-7)

(सि.सू.) पत्युरसामञ्जस्यात् ॥ (2-2-35)

कापिलादिमतेष्वस्तु वेदबाह्येषु मादरः ।
सर्वज्ञरुद्रसंप्रोक्ते मते पाशुपते भृशम् ॥

आदरः कार्य एवेति वादोऽत्र विनिवार्यते ।
ईशस्सिद्धोऽनुमानेन स औपनिषदो न च ॥ 270 ॥

निमित्तोपादानयोश्च भेदः पशुपतिस्था ।
निमित्तहेतुर्विश्चोपादानमव्याकृतं भवेत् ॥ 271 ॥

जगत्पशुषतिस्सर्वं कुलालादिर्घटादिवत् ।
सृजत्येवं मुक्तिहेतुः मुद्रिकाषाट्कधारणम् ॥272 ॥

सुराकुम्भे देवपूजा चात्मध्यानं भगे तथा ।
इति वेदविरुद्धार्थान् शैवा आहुश्चतुर्विधाः ॥ 273 ॥

इदं मतं पशुपतेः व्याघाताच्च परस्परम् ।
श्रुतेश्चैवं विरुद्धत्वात् असामञ्जस्यतो भृशम् ॥274 ॥

निश्रेयसार्थिभिर्नैवाऽऽदरणीयं विवेकिभिः ।
वेदा जगन्निमित्तं चोपादानं च पुनः पुनः ॥ 275 ॥

नारायणं वदन्तस्य ब्रह्मणो वदेनात्मिका ।
उपास्तिर्मुक्तिदा चेति तत्र तत्र श्रुता अपि ॥ 276 ॥

शिवादिशब्दा नारायणानुवाकानुसारतः ।
नारायणपरा एव श्रुतं तत्र तथैव हि ॥ 277 ॥

अयं चार्थः पूर्वमेव सुस्पष्टं प्रतिपादितः ।
अतो वेदविरुद्धत्वात् मतमेतदङ्गतम् ॥ 278 ॥

(सि.सू.) अधिष्ठानानुपपत्तेश्च ॥ (2-2-36)

निमित्तमात्रेश्वरस्य कल्पनादनुमानतः ।
दृष्टानुसारात्कर्तव्यमधिष्ठानं कुलालवत् ॥ 279 ॥

न युज्यते पशुपतेः प्रधानाधिष्ठितिः क्वचित् ।
अदेहत्वात्सदेहानां ह्येवाधिष्ठितिरिष्यते ॥ 280 ॥

न शरीरित्वमस्य स्यात्तस्य सावयवस्य च ।
नित्यत्वेऽनित्यतायां च प्राक् दोषाः परिकीर्तिताः ॥ 281 ॥

(सि.सू.) करणवच्चेन्न भोगादिभ्यः ॥ (2-2-37)

अशरीरस्य जीवस्य करणादिपरिग्रहः ।
यथोपपद्यते तद्वदीश्वरस्याप्यदेहिनः ॥ 282 ॥

प्रकृत्यधिष्ठानमिति चेन्न पुण्यादिकर्मणाम् ।
फलभोगाय हि वपुराद्यधिष्ठानमात्मनः ॥ 283 ॥

तद्वदस्यापि सर्वं स्यात्फलभोगाद्यपीशितुः ।
तस्मात्प्रधानाधिष्ठानसंभवो नेश्वरस्य हि ॥ 284 ॥

(सि.सू) अन्तवत्त्वमसर्वंज्ञता वा ॥ (2-2-38)

पुण्यापुण्यात्मकादृष्टवत्त्वे पशुपतेस्तदा ।
अन्तवत्त्वं जीववच्च सृष्टिसंहार्यता तथा ॥ 285 ॥

असर्वज्ञत्वं च भवेत् तस्मात्सर्वप्रकारतः ।
इदं नादरणीयं स्यात् मतं मुक्तिफलेप्सुभिः ॥ 286 ॥

॥ इति पशुपत्यधिकरणम् ॥

उत्पत्त्यसंभवाधिकरणम् ॥ 2-2-8 ॥

(पाञ्चरात्राधिकरणम् )

(पू.सू) उत्पत्त्यसंभवात् ॥ (2-2-39)

साङ्रव्यादितन्त्रसामान्यात्पाञ्चरात्रागमेऽपि च ।
साक्षाद्भगवता प्रोक्ते मोक्षसाधनबोधिनि ॥ 287 ॥

अप्रामाण्याशङ्किपरपक्षोऽत्र क्षिप्यते नयैः ।
(पू) असंभवन्त्या जीवानामुत्पत्तेरभिधानतः ॥ 288 ॥

न प्रमाणं पाञ्चरात्रागमस्तन्त्रेऽत्र कथ्यते ।
सङ्कर्षणो नाम जीवः वासुदेवात्प्रजायते ॥ 289 ॥

सङ्कर्षणाच्च प्रद्यम्नसंज्ञमुत्पद्यते मनः ।
अहङ्कारोऽनिरुद्धाख्यः तस्माज्जायत इत्यपि ॥ 290 ॥

अत्र श्रुतिविरुद्धा हि जीवोत्पत्तिः प्रितीयते ।
श्रुतौ " न जायत " इति तदनादित्वमुच्यते ॥ 291 ॥

(पू.सू) न च कर्तुः करणम् ॥ (2-2-40)

सङ्कर्षणान्मनो जातमिति कर्तुश्च जीवतः ।
मनसः करणस्यैवमुत्पत्तिश्च न संभवेत् ॥

" एतस्माज्जायते प्राणः मनस्सर्वेन्द्रियाणि च " ।
इत्युत्पत्तिश्रुतेर्ब्रह्मसकाशान्मनसोऽपि च ॥ 293 ॥

(सि.सू) विज्ञानादिभावे वा तदप्रतिषेधः ॥ (2-2-41)

(सि) एवं सूत्रद्वयेनैतदागमस्याप्रमाणताम् ।
आशङ्क्य तस्य प्रामाण्यं साध्यते सूत्रयुग्मतः ॥ 294 ॥

अत्र विज्ञानादिशब्दात् परब्रह्माभिधीयते ।
सङ्कर्षणादिमूर्तीनां ब्रह्मत्वे तिसृणां सति ॥ 295 ॥

तदर्थबोधनपरशास्त्रस्यास्य प्रमाणता ।
निषिध्यते नैव, वासुदेवाख्यं ब्रह्म तत्परम् ॥ 296 ॥

आश्रिताश्रयणीयत्वसिद्धये श्रितवत्सलम् ।
चतुर्धा स्वेच्छयैवाविर्भवतीति च कथ्यते ॥ 297 ॥

चातुरात्म्योपासनं तत् ब्रह्मोपासनमित्यपि ।
अतस्सङ्कर्षणादीनां परब्रह्मण एव हि ॥ 298 ॥

स्वेच्छाविग्रहरूपत्वात् तादृगर्थावबोधिनः ।
शास्त्रस्यास्य प्रमाणत्वाप्रतिषेधो हि युज्यते ॥ 299 ॥

तत्र जीवमनोहङ्कारतत्त्वानां क्रमात्तथा ।
अधिष्ठातार उच्यन्ते त्रयस्सङ्कर्षणादयः ॥ 300 ॥

तेषां जीवादिशब्दैश्च भाषणं न विरुध्यते ।
प्राणाकाशादिशब्दैश्च यथा ब्रह्मावबोधनम् ॥ 301 ॥

(सि.सू.) विप्रतिषेधाच्च ॥ (2-2-42)

" स ह्यनादिरनन्तश्च परमार्थेन निश्चितः " ।
इत्यस्मिन्नपि तन्त्रे च जीवोत्पत्तिनिषेधतः ॥ 302 ॥

अविरुद्धमिदं तन्त्रं प्रमाणतममुच्यते ।
तस्मान्महाभारते च सूत्रकृद्बादरायणः ॥ 303 ॥

" पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् " ।
इयुक्तयैतद्वक्तुराप्ततमत्वं चास्य कृत्स्नशः ॥ 304 ॥

प्रामाण्यं बोधयाञ्चक्रे सुस्पष्टं तत्त्ववित्तमः ।
तस्मद्विलक्षणं शास्त्रं निस्समाभ्यधिकं मतम् ॥ 305 ॥

पञ्चरात्रस्य पूर्वोक्तागमवच्चाप्रमाणताम् ।
अनिच्छतस्सूत्रकृतस्तदप्रामाण्यवादिनाम् ॥ 306 ॥

पक्षस्य परपक्षत्वात् पादेऽस्मिन् तन्निराकृतिः ।
युक्ताऽतोऽस्या अधिकृतेः पादसङ्गतिरक्षता ॥ 307 ॥

इदं शतसहस्राद्धी त्यादिभारतसूक्तिभिः ।
आशयस्सूत्रकारस्य सुस्पष्टं हि प्रतियते ॥ 308 ॥

॥ इति उत्पत्त्यसंभवाधिकरणम् ॥

॥ इति द्वितीयाध्याये द्वितीयः पादः ॥

॥श्रीमते श्रीराघवार्यमहादेशिकाय नमः ॥

॥ अथ द्वितीयाध्याये तृतीयः पादः ॥

॥ वियदधिकरणम् ॥ (2-3-1 )

(पू-सू) न वियदश्रुतेः ॥ (2-3-1)

साङ्ख्यादिबाह्यतन्त्राणां न्यायाभासाश्रयत्वतः ।
तथा विप्रतिषेधाच्चासाङ्गत्यं पूर्वमीरितम् ॥ 309 ॥

दोषाभावख्यापनाय निजपक्षस्य सर्वथा ।
ब्रह्मकार्यतयेष्टस्य चिदचित्सर्ववस्तुनः ॥ 310 ॥

तत्कार्यताप्रकारोऽथ शोध्यते पादयुग्मतः ।
तत्रादौ वियदुत्पत्तिराक्षिप्य स्थाप्यते नयैः ॥ 311 ॥

(पू) वियन्नोत्पद्यते तस्योत्पत्तेरश्रवणात् श्रुतौ ।
निरंशस्यात्मन इव वियतस्तादृशस्य हि ॥ 312 ॥

नोत्पत्तिश्श्क्यते वक्तुं च्छान्दोग्योपनिषद्यतः ।
तत्तेजोऽसृजते त्येव तेजआदेः श्रुता जनिः ॥

श्रुतान्यत्र तदुत्पत्तिर्बाध्यतेऽर्थविरोधतः ।
(सि-सू) अस्ति तु ॥ (2-3-2)

उत्पत्तिर्वियतोऽस्त्येवाऽऽकाशस्संभूत इत्यतः ॥ 314 ॥

मानान्तराप्रतीतामप्युत्पतिं्त तस्य हि श्रुतिः ।
अतीन्द्रियार्थविषया वक्तुं शक्तैव सर्वथा ॥ 315 ॥

निरंशद्रव्यता ह्यस्य नोत्पतिं्त विनिवारयेत् ।
अनुत्पत्तेरप्रयोजकत्वात्तस्यास्तथात्मनः ॥ 316 ॥

नानुत्पत्तिर्निरंशत्वप्रयुक्ता किन्तु सा श्रुतेः ।
(पू-सू) गौण्यसंभवात् शब्दाच्च ॥ (2-3-3)

तत्तेजोऽसृजते त्यत्रोत्पत्तिस्तेजस एव हि ॥ 317 ॥

प्रथमं श्रूयते तस्मात् व्योमोत्पत्त्युक्त्यसंभवात् ।
तैत्तिरीयश्रुतिर्गौण्याऽऽकाशस्संभूत इत्यसौ ॥ 318 ॥

वायुश्चे ति श्रुतौ व्योम्नोऽमृतत्वश्रवणात्तथा ।
(पू-सू) स्याच्चैकस्य ब्रह्मशब्दवत् ॥ (2-3-4)

व्योम्नि संभूतशब्दस्य प्रयुक्तत्वेऽपि गौणतः ॥ 319 ॥

अनुषक्तेस्योपरिष्टात् वायोरित्यादिके स्थले ।
स्यादेव मुख्यता ब्रह्मशब्दवत् , शब्द एष हि ॥ 320 ॥

गौणवृत्त्या प्रधाने च तस्मादि त्यत्र पठ्यते ।
मुख्यवृत्त्या ब्रह्मणि च तत्रैव तपसेति च ॥ 321 ॥

(सि-सू) प्रतिज्ञाऽहानिरव्यतिरेकात् ॥ (2-3-5 )

येनाऽश्रुतं श्रुतमिति च्छान्दोग्ये प्रतिपादितम् ।
व्योमादिसर्वविज्ञानप्रतिज्ञानं यदस्य च ॥ 322 ॥

ब्रह्मकार्यत्वेन तदव्यतिरेकाद्विहायसः ।
भवत्यहानिस्तस्मात्सा गौणी नोदाहृता श्रुतिः ॥ 323 ॥

परात्मैकत्वावधृतिवादिभ्यः प्रलयेपि च ।
सदेवे त्यादिशब्देभ्योऽवगता वियतो जनिः ॥ 324 ॥

तत्तेज इत्यत्र तेजस्सृष्टिमात्रं प्रकाशितम् ।
न तु प्रथमसृष्टत्वं तस्मात्तस्य जनिः स्थिरा ॥ 325 ॥

(सि-सू) यावद्विकारं तु विभागो लोकवत् ॥ (2-3-7)

ऐतदात्मय मिति श्रुत्या व्योमादेरखिलस्य च ।
ब्रह्मकार्यत्ववचनात् विकारणां हि यावताम् ॥ 326 ॥

उत्पत्तिरुक्तप्रायैव देवदत्तसुता इमे ।
इत्युक्त्वा तेषु केषाञ्चित् उत्पत्तिवचने यथा ॥ 327 ॥

व्योम्नोऽमृतत्वोक्तिरपि चिरस्थायित्वसूचिका ।
(सि-सू) एतेन मातरिश्वा व्याख्यातः ॥ (2-3-8 )

न्यायेनैतेनैव वायोरप्युत्पत्तिश्च भाषिता ॥ 328 ॥

उत्तराधिकृतौ वायोः परामर्शप्रयोजना ।
वायोरत्र पृथग्योगकृतिर्नैवातिदेशनम् ॥ 329 ॥

(सि-सू) असंभवस्तु सतोऽनुपपत्तेः ॥ (2-3-9)

परस्य ब्रह्मणस्सर्वकारणस्यैव सर्वथा ।
उत्पत्त्यसंभवो युक्तस्तदन्यस्याखिलस्य च ॥ 330 ॥

एकज्ञानाधीनसर्वविज्ञानानुपपत्तितः ।
विज्ञातकार्यभावस्यानुत्पत्तिर्नैव संभवेत् ॥

॥ इति वियदधिकरणम् ॥

॥ तेजोधिकरणम् ॥ (2-3-2)

(पू-सू) तेजोऽतस्तथा ह्याह ॥ (2-3-10 )

सर्वस्य ब्रह्मकार्यत्वात् जगत्कारणता पुरा ।
परस्योक्ता , न साक्षात्सा द्वारेणेत्येतदस्यते ॥ 332 ॥

अस्माद्वायोः केवलाद्वै तेज उत्पद्यते तथा ।
तैत्तिरीयश्रुति र्वायोहग्नि रित्येव वक्ति हि ॥

(पू-सू ) आपः ॥ (2-3-11 )

आपोऽपि तेजसश्चातः उत्पद्यन्ते तथा श्रुतिः ।
तदपोऽसृजते त्य ग्नेराप इत्यादिकाऽऽह हि ॥ 334 ॥

पृथ्वीविकारत्वाद्वेतौ कार्यशब्दः प्रयुज्यते ।
वाक्यशेषे च भूतानां रूपसंशब्दने तथा ॥ 337 ॥

अपतेजोभ्यां सहोक्त्यैव तदन्नस्ये ति च श्रुतौ ।
सपष्टं प्रतीयते ह्यन्नशब्दवाच्या महीति च ॥ 338 ॥

शब्दान्तरं प्रकारणे तुल्येऽद्भ्यः पृथिवी ति च ।
तस्मात्पृथ्व्येवान्नशब्दवाच्येति ज्ञायते दृढम् ॥ 339 ॥

एतस्माज्जायते प्राणः इत्याद्याः ब्रह्मणस्ततः ।
पारंपर्येण हेतुत्वेप्युपपद्यन्त एव हि ॥ 340 ॥

(सि-सू ) तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ (2-3-14)

कार्याणां महदादीनां तत्तद्वस्तुशरीरकः ।
कारणं परमात्मैव तदभिध्यानलिङ्गतः ॥ 341 ॥

बहु स्यामिति सङ्कल्परूपेक्षापूर्विकैव हि ।
तत्कार्यसृष्टिस्सर्वत्र श्रूयते तादृगीक्षणम् ॥ 342 ॥

तत्तच्छरीरकस्यास्य परस्यैवोपपद्यते ।
यः पृथिव्यां , योऽप्सु तिष्ठन् इत्यादौ हि पृथक्पृथक् ॥343 ॥

तत्तच्छरीरकत्वेन तत्तदात्मत्वमस्य च ।
अन्तर्यामिब्राह्मणे हि श्रूयते परमात्मनः ॥ 344 ॥

(सि -सू) विपर्यण तु क्रमोऽत उपपद्यते च ॥ (2-3-15)

आकाशाद्वायु रित्यादिपारंपर्यक्रमादातः ।
विपर्ययेण सर्वेषां ब्रह्माव्यवहितक्रमः ॥ 345 ॥

एतस्माज्जायते प्राणः इत्यादिभिरुदाहृतः ।
तत्तद्रूपात् ब्रह्मणोऽतः सृष्टेरेवोपपद्यते ॥ 346 ॥

(सि-सू) अन्तरा विज्ञानमनसी क्रमेण लल्लिङ्गादिति चेन्नाविशेषात् ॥

(2-3-16)

मध्ये भूतप्राणयोश्चोन्द्रियौघमनसी क्रमात् ।
उत्पद्येते ईदृशार्थपरं पूर्वसुदाहृतमम् ॥ 347 ॥

एतसा दित्यादिवाक्यं खं वायु रिति लिङ्गतः ।
अतः पारम्पर्यपरमेवेदमिति चेन्न तत् ॥ 348 ॥

एतस्माज्जायत इति प्राणादिषु पृथक् पृथक् ।
पृथ्व्यन्तेष्वप्यन्वयाविशेषात्तस्मात्परः पुमान् ॥ 349 ॥

तेजआदिसमस्तानां साक्षादेव हि कारणम् ।
तत्तच्छरीरकब्रह्मवाचकास्तेजआदयः ॥ 350 ॥

लोके तत्तद्वस्तुवाचितया सिद्धैः पदव्रजैः ।
ब्रह्माभिधानं भाक्तं स्यादित्याशंक्याह चोत्तरम् ॥ 351 ॥

(सि-सू) चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोभाक्तस्तद्भावभावित्वात् ॥

(2-3-17)

चराचराश्रयाश्शब्दाः मुख्या एव परात्मनि ।
आत्मत्वेन ब्रह्मभावभावित्वात्तेजआदिषु ॥ 352 ॥

सर्वस्य ब्रह्मदेहत्वात्तत्प्रकारत्वतस्ततः ।
तत्तद्वाचकशब्दास्ते पर्यवस्यन्ति तत्र हि ॥ 353 ॥

प्रकारवाचिशब्दानां प्रकारिण्यवसानतः ।
अभाक्तत्वं गवादौ तु सिद्धं तस्माद्धि लौकिकाः ॥ 354 ॥

व्युत्पत्तिशून्या वेदान्त एकदेशे प्रयुञ्जते ।
तस्माद्विशिष्टं ब्रह्मैव सर्वकारणमुच्यते ॥ 355 ॥

॥ इति तेजोधिकरणम् ॥

॥ आत्माधिकरणम् ॥ (2-3-3)

(सि-सू) नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ (2-3-18 )

स्वरूपपरिणामाख्यविकारकतयेरितम् ।
वियदाद्यचितां ब्रह्मकार्यत्वं न्याययोः पुरा ॥ 356 ॥

उत्पतिं्त प्रतिषिध्यात्र प्रसक्तां वियदादिवत् ।
जीवानां ब्रह्मकार्यत्वमुच्यतेऽन्यप्रकारतः ॥ 357 ॥

एकविज्ञानेन सर्वधीप्रतिज्ञानतस्तथा ।
सृष्टेः प्राक् परमात्मैकत्वावधारणतोऽपि च ॥ 358 ॥

तोयेन जीवा नित्यादिजीवोत्पत्तिश्रुतेरपि ।
जीवस्योत्पत्तिरस्तीति चेन्न नात्मा प्रजायते ॥ 359 ॥

श्रुते र्न जायते ज्ञाज्ञा वित्यादेर्नित्यताऽस्य च ।
नित्योऽजो नित्य इत्यादिश्रुतिभ्यश्चावगम्यते ॥ 360 ॥

कार्यहेत्वोरनन्यत्वात्कार्यत्वादात्मनोऽपि च ।
एकविज्ञानेन सर्वधीप्रतिज्ञोपपद्यते ॥ 361 ॥

कार्यत्वमेकद्रव्यस्यान्यावस्थापत्तिरेव हि ।
तद्धीसङ्कोचादिरूपावस्थान्तरममुष्य च ॥ 362 ॥

जीवस्याप्यस्ति योत्पत्तिर्वियदादिषु दृश्यते ।
सा स्वरूपान्यथात्वाख्या जीवे हि विनिवार्यते ॥ 363 ॥

ईशस्यैकत्वावधृतिः प्राक् सृष्टेश्चिदचित्तनोः ।
नामरूपविभागस्याभावादेवोपपद्यते ॥ 364 ॥

उत्पत्तिमृतिवादिन्यः श्रुतयः प्रत्यगात्मनः ।
ज्ञानसङ्कोचादिकरदेहयोगादिबोधिकाः ॥

॥इत्यात्माधिकरणम् ॥

॥ ज्ञाधिकरणम् ॥ (2-3-4)

(सू) ज्ञोऽत एव ॥ (2-3-19)

जीवस्य ब्रह्मकार्यत्वं प्रागिष्टं ज्ञानधर्मतः ।
तद्धर्मभूतज्ञानं वै नास्येत्युक्तिरिहास्यते ॥ 366 ॥

(पू) विज्ञानं यज्ञ मित्यादिश्रुतेश्चिन्मात्रमात्मनः ।
स्वरूपमथवाऽऽत्मायमागन्तुकमतिर्जडः ॥ 367 ॥

सुषुप्त्यादावात्मनोऽस्य चैतन्यानुपलब्धितः ।
इन्द्रियाधीनचैतन्यवत्त्वाज्जाग्रदृशास्वपि ॥ 338 ॥

न प्रेत्येति च मुक्तस्य चैतन्यप्रतिषेधतः ।
किञ्ज सर्वत्र कार्योपलब्धेस्सर्वगतश्च सः ॥ 669 ॥

इकि चेन्नैष हि द्रष्टा सप्रष्टे त्यादिश्रुतेरतः ।
ज्ञातृत्वं ज्ञानरूपत्वमस्य स्वाभाविकं द्वयम् ॥ 370 ॥

इति प्रतीयतेऽतोऽयं न चिन्मात्रं च नो जडः ।
बद्धमुक्तोभयावस्थ आत्मा ज्ञातैव सर्वदा ॥ 371 ॥

स्वाभाविके च ज्ञातृत्वे सर्वगस्यास्य सर्वदा ।
सर्वत्र चोपलब्धिस्स्यादित्यत्रोत्तरमुच्यते ॥ 372 ॥

(सि-सू) उत्क्रान्तिगत्यागतीनाम् ॥ (2-3-20)

उत्क्रान्त्यादिश्रुतेरात्माऽणुरेवायं न सर्वगः ।
उत्क्रान्तिश्चैष आत्मा निष्क्रामती त्युच्यते श्रुतौ ॥ 373 ॥

गातिश्च पठ्यते ये वै केचास्मा दिति वाक्यतः ।
आगतिः पुनरेत्यस्मै लोकाये ति च पठ्यते ॥ 374 ॥

विभुत्व एता उत्क्रान्तिमुखास्स्युर्बाधिता भृशम् ।
(सि-सू) स्वात्मना चोत्तरयोः ॥ (2-3-21 )

स्थितस्याप्यात्मनस्तस्य कथञ्चिदुपपद्यते ॥ 375 ॥

उत्क्रान्तिस्तनुविश्लेषात् न तु गत्यागती उभे ।
स्वात्मनेव तयोस्संपाद्यत्वादुत्तरयोर्द्वयोः ॥ 376 ॥

तस्मादस्यात्मवर्गस्याऽणुत्वं निश्चितमेव तत् ।
(सि-सू) नाणुरतच्छØतेरिति चेन्नेतराधिकारात् ॥ (2-3-22)

योऽयमि त्यादिना जीवं प्रस्तुत्यैष महानजः ॥ 377 ॥

इति तस्य महत्त्वोक्त्या नाणुरात्मेति चेन्न तत् ।
यस्यानुवित्त इत्यादिश्रुतौ जीवेतरस्य वै ॥ 378 ॥

प्राज्ञस्याधिकृतेस्तस्मान्महत्त्वं तत्स्थमेव हि ।
(सि-सू) स्वशब्दोन्मानाभ्यांच ॥ (2-3-23 )

साक्षादेव श्रीयतेऽणुशब्द एषोषणुरि त्यपि ॥ 379 ॥

वालाग्रशतभागस्ये त्यादौ जीवस्य कथ्यते ।
अणुवस्तूद्धृत्य ततस्थमानत्वं , तत एव च ॥ 380 ॥

बद्धमुक्तोभयावस्थो जीवोऽणुपरिमाणवान् ।
(अव) अस्याणुत्वे सर्वदेहव्यापिनी स्यान्न वेदना ॥ 381 ॥

इत्यत्र परिहारोऽन्यमतरीत्या प्रदर्श्यते ।
(सि-सू) अविरोधश्चन्दनवत् ॥ (2-3-24)

यथा देहैकदेशस्थोप्याह्णादं सर्ववर्ष्मसु ॥ 382 ॥

बिन्दुरुत्पादयत्याशु चन्दनस्य , तथैव हि ।
आत्मा देहैकदेशस्थोप्यखिलाङ्गोत्थवेदनाम् ॥ 384 ॥

तदैवानुभवत्येषः न विरोधोऽत एव हि ।
(सि-सू) अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ (2-3-25)

देहदेशविशेषावस्थितिवैशेष्यतोऽस्य हि ॥ 384 ॥

चन्दनस्य तथाभावः , आत्मनस्तन्न विद्यते ।
इति चेन्नात्मनोप्यस्य हृदि ह्यय मितिश्रुतेः ॥ 385 ॥

देहदेशविशेषान्तर्हृद्गतत्वावबोधनात् ।
(अव) सर्वदेहव्यापिकार्यकरत्वं कुत्रचिस्थले ॥ 386 ॥

वर्तमानस्य जीवस्य स्वमतेन ब्रवीत्यथ ।
(सि-सू) गुणाद्वाऽऽलोकवत् ॥ (2-3-26 )

ज्ञानेन स्वगुणेनात्मा हृत्स्थो व्याप्याखिलां तनुम् ॥ 387 ॥

वर्तते यद्वदालोकः देशे क्वापि सतो मणेः ।
(अव) धियस्स्वरूपातिरिक्तगुणत्वं कथमुच्यते ॥ 388 ॥

विज्ञानमात्रमेवान्मेत्युक्तं हीत्यत्र कथ्यते ।
(सि-सू ) व्यतिरेको गन्धवत्तथा च दर्शयति ॥ (2-3-27)

व्यतिरेकस्सिद्ध एव जानामीति प्रतीतितः ॥ 389 ॥

जीवस्वरूपात् ज्ञानस्य, यथा गन्धवती मही ।
इति प्रतीतौ गन्धस्य मह्या भेदः प्रतीयते ॥ 390 ॥

श्रुतिश्च दर्शयत्येवं जानात्येवाय मित्यसौ ।
(सि-सू) पृथगुपदेशात् ॥ (2-3-28 )

नाहि विज्ञातु रित्यादिश्रुत्या विज्ञातुरात्मनः ॥ 391 ॥

पृथक्त्वेनैव विज्ञानमुपदिश्यत एव हि ।
(अव) कथं विज्ञानमात्मे ति वच इत्यत्र कथ्यते ॥ 392 ॥

(सि-सू) तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ (2-3-29 )

विज्ञानगुणसारत्वादात्मा विज्ञानशब्दतः ।
कथ्यते यद्वदानन्दगुणसारत्वतः परः ॥ 393 ॥

एष आकाश आनन्द इत्यानन्दपदेरितः ।
(सि-सू) यावदात्मभावित्वाच्च न दोषस्तदृर्शनात् ॥ (2-3-30)

ज्ञानस्यात्मस्वरूपानुबन्धित्वात् ज्ञानशब्दतः ॥ 394 ॥

उक्तिर्नदोषो गोत्वादेर्नित्यधर्मत्वकारणात् ।
गौरित्युक्तिर्हि खण्डादौ दृश्यतेऽत्र चकारतः ॥ 395 ॥

आत्मनः स्वप्रकाशत्वात् विज्ञानमिति भाषणे ।
न दोष इत्युच्यतेऽतः ज्ञानं ज्ञानगुणश्च सः ॥ 396 ॥

(अव) धियस्स्वरूपानुबन्धिधर्मत्वं कथमुच्यते ।
सुषुप्त्यादिष्वप्रातीतेरित्याशङ्कात्र वार्यते ॥ 397 ॥

(सि-सू) पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ (2-3-31 )

सुषुप्त्यादावस्फुरतः सतश्च ज्ञानवस्तुनः ।
दागर्यादिष्वभिव्यक्तेर्यावदात्मानुबन्धि तत् ॥ 398 ॥

बाल्ये सतोऽपि पुंस्त्वस्यानभिव्यक्तस्य वर्ष्मणः ।
यथा युवत्वेऽभिव्यक्त्या कादाचित्कं न तद्भवेत् ॥ 399 ॥

न प्रेत्ये ति श्रुतिर्मुक्ते ज्ञानाभावं न वक्ति हि ।
पूर्वानुभूतजन्मादिज्ञानमेव निषेधति ॥ 400 ॥

(अव) चिन्मात्रं च विभुश्चात्मेत्यत्र दोषः प्रदर्श्यते ।
(सि-सू) नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ (2-3-32)

आत्मनस्सर्वगत्वे च चिन्मात्रत्वे च सर्वदा ॥ 401 ॥

स्यातां सहैवोपलभ्यानुपलम्भावथापि वा ।
सदोपलब्धिरेव स्यात् तद्विपर्यय एव वा ॥ 402 ॥

सर्वगश्चित्स्वरूपोऽसौ हेतुस्स्याल्लोकवर्तिनोः ।
आत्मोपलब्ध्यन्ययोश्चोपलब्धेरेव वा तथा ॥ 403 ॥

तदन्यस्यैव हेतुर्वा हेतुश्चेदुभयस्य सः ।
सर्वत्र सर्वदा तस्योभयं तद्वर्ततामथ ॥ 404 ॥

उपलब्धेरेव तदाऽनुपलम्भो भवेन्न हि ।
केवलानुपलब्धेश्चेदुपलब्धर्न तु क्वचित् ॥ 405 ॥

शरीरस्यान्तरेवावस्थितत्वान्मन्मते सदा ।
तत्रैवात्मोपलब्धिस्स्यात् न चान्यत्रेति सिद्ध्यति ॥ 406 ॥

आगन्तुकज्ञानपक्ष आत्मनां सर्वगत्वतः ।
साधारण्याददृष्टादेश्चोक्तदोषः समस्तथा ॥ 407 ॥

आत्मा ज्ञानस्वरूपोऽणुः नित्यज्ञानगुणस्तथा ।
इत्यर्थोऽस्यामधिकृतौ स्थापितो मानयुक्तिभिः ॥ 408 ॥

॥ इति ज्ञाधिकरणम् ॥

कर्त्रधिकरणम् ॥ (2-3-5 )

(सि-सू) कर्ता शास्त्रार्थवत्त्वात् ॥ (2-3-33)

जीवस्य पूर्वं ज्ञातृत्वमणुत्वं च समर्थितम् ।
कर्तृत्वमपि तस्यैव स्थाप्यतेऽधिकृताविह ॥ 409 ॥

(पू ) प्रधानस्यैव कर्तृत्वमात्मनस्तन्न संभवेत् ।
हन्ता चेन्मन्यते हन्तु मित्यादिकठवाक्यतः ॥ 410 ॥

हननादिक्रियास्वस्य कर्तृत्वं प्रतिषिध्यते ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ 411 ॥

नान्यं गुणेभ्यः कर्तार मित्यादिभगवद्वचः ।
स्वरूपमस्याऽकर्तृत्वं व्यामोहः कर्तृतात्मनि ॥ 412 ॥

भोक्तत्वमेव जीवस्येत्येवं वक्ति स्फुटं ह्यतः ।
प्रकृतेरेव कर्तृत्वं भोक्तृतैवात्मनो भवेत् ॥ 413 ॥

(सि ) इत्यसन्मतमात्मैव कर्ता शास्रार्थवत्त्वतः ।
शासनादेव शास्त्रं तत् शासनं च प्रवर्तनम् । 414 ॥

प्रवर्तकत्वं शास्त्रस्य बोधोत्पादनमार्गतः ।
अचेतनं प्रधानं न शक्यं बोधयितुं ततः ॥ 415 ॥

शास्त्रणामर्थवत्ताऽस्य भोक्तुश्चैतन्ययोगिनः ।
कर्तृत्वं एव हि फलं प्रयोक्तर्येव संभवेत् ॥ 416 ॥

यदकर्तृत्वमस्योक्तं हननाख्यकतौ च तत् ।
हन्तव्यत्वाभावतोऽस्य नित्यत्वादुपपद्यते ॥ 417 ॥

प्रवृत्तिष्वस्य संसारे कर्तृता गुणयोगतः ।
अतो गुणानां कर्तृत्वचनं चोपपद्यते ॥ 418 ॥

कारणं गुणसङ्गोऽस्ये त्यत्रैवार्थोऽयमुच्यते ।
अधिष्ठानं तथा कर्ते त्यत्रैवोक्ताऽस्य कर्तृता ॥ 419 ॥

अतः कर्ता च भोक्ता च जीवात्मैवेति सिद्ध्यति ।
(सि-सू) उपादानाद्विपारोपदेशाच्च ॥ (2-3-34)

एतान्प्राणान् गृहीत्वा स्वे शरीरे परिवर्तते ॥ 420 ॥

इति प्राणाद्युपादाने विहारे चास्य कर्तृता ।
उपदिष्टा ततश्चायमेव कर्ता भवेत्खलु ॥ 421 ॥

(सि-सू) व्यपदेशाच्च क्रियायां नचेन्निर्देशविपर्ययः ॥ (2-3-35)

विज्ञानं तनुते यज्ञं कर्माणि तनुतेऽपि च।
इति सर्वक्रियास्वस्य कर्तृत्वव्यपदेशतः ॥ 422 ॥

कर्ताऽयं , ननु विज्ञानशब्दान्नात्मोच्यतेऽपितु ।
अन्तः करणरूपोक्ता बुद्धिरेवेति चेन्न तत् ॥ 423 ॥

तथा सत्यत्र निर्देशविपर्यासो भवेत्खलु ।
विज्ञानेनेति करणविभक्तिः पठिता भवेत् ॥ 424 ॥

ततो विज्ञानशब्देन जीवात्मैवोच्यते श्रुतौ ।
(सि-सू ) उपलब्धिवदनियमः ॥ (2-3-36)

उपलब्धेरनियमः विभुत्वे चात्मनः पुरा ॥ 425 ॥

य उक्तस्तद्वदत्रापि ह्यकर्तृत्वेऽस्य चात्मनः ।
प्रकृतेश्चापि कर्तृत्वे भोक्तृत्वानियमो भवेत् ॥ 426 ॥

प्रकृतेस्सर्वपुरुषसामान्यादखिलः क्रियाः ।
भोगाय स्युः सर्वपुंसां नैव वा यस्य कस्यचित् ॥ 427 ॥

अन्तःकरणभेदऽपि ह्यात्मनां सर्वगत्वतः ।
साधारण्यं चानिवार्यं व्यवस्थाऽतो न सिद्ध्यति ॥ 428 ॥

ततश्चास्यैव कर्तृत्वं , प्रकृतेर्नहि सर्वथा ।
(सि-सू) शक्तिविपर्ययात् ॥ (2-3-37)

प्रकृतेस्सति कर्तृत्वे तदन्यस्य तु सर्वाथा ॥ 429 ॥

भोक्तृत्वायोगतस्तस्या एव स्यात् भोक्तृता ततः ।
आत्मनो भोक्तृताशक्तिर्न स्यात्सा प्रकृतेरिति ॥ 430 ॥

मानं नात्मस्थितौ तस्मात्कर्ता भोक्ता च चेतनः ।
(सि-सू) समाध्यभावाच्च ॥ (2-3-38 )

कर्तृत्वे प्रकृतेस्तस्याः समाधौ मोक्षसाधने ॥ 431 ॥

सा स्यात्कर्त्री समाधिश्च प्रकृत्यन्योस्म्यहन्त्विति ।
प्रकृतिः प्रकृतेरन्यास्मीति ध्यातुमलं न हि ॥ 432 ॥

(सि-सू) यथा च तक्षेभयधा ॥ (2-3-29 )

वागादीन्द्रियसम्पन्नोप्यात्मेच्छति यदा तदा ।
करोति नेच्छति यदा न करोति तदा यथा ॥ 433 ॥

तक्षा वास्यादियुक्तोपि स्वेच्छयैव करोति च ।
न करोति च , कर्तत्वे प्रकृतेरचितस्तथा ॥ 434 ॥

वाञ्च्छादिहेत्वभावाद्धि सर्वदा कर्तृता भवेत् ।
तस्मात् कर्तृत्वभोक्तृत्वे जीवस्यैवेति सुस्थितम् ॥ 435 ॥

॥ इति कर्त्रधिकरणम् ॥

परायत्ताधिकरणम् ॥ (2-3-6 )

(सि-सू) परात्तु तच्छØतेः ॥ (2-3-40)

पूर्वं जीवस्य कर्तृत्वं यत् व्यवस्थापितं नयैः ।
तत् परात्माधीनमिति स्थाप्यतेऽधिकृताविह ॥ 436 ॥

(पू) स्वायत्तमेव कर्तृत्वं न परायत्तमात्मनः ।
पराधीनं यदि स्यात्तत् विध्यादेर्व्यर्थताऽऽपतेत् ॥ 437 ॥

यः स्वबुद्ध्या प्रवृत्त्यादशक्तः प्रेर्यस्स एव हि ।
तस्माज्जीवस्य कर्तृत्वं स्वातन्त्र्येणेति चेन्न तत् ॥ 438 ॥

(सि) कर्तृत्वमस्य जीवस्य परात्मयत्तमेव हि ।
अन्तः प्रविष्टश्शास्ता , य आत्मनी त्यादिवाक्यतः ॥ 439 ॥

सर्वस्य चाह मित्यादिगीतावचनतस्तथा ।
अतो जीवस्य कर्तृत्वं परात्माधिनमिष्यते ॥ 440 ॥

(सि-सू) कृतप्रयत्रापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ (2-3-41 )

सर्वक्रियासु जीवेन प्रथमं स्वेच्छया कृतम् ।
यत्रं परात्मापेक्ष्याथ तत्रानुमतिदानतः ॥ 441 ॥

प्रवर्तयत्ययं चार्थः विध्यवैयर्थ्यतस्तथा ।
निग्रहानुग्रभ्यां च ज्ञायतेऽतः परात्मना ॥ 442 ॥

प्रवर्तितोऽपि जीवात्मा योग्यो विधिनिषेधयोः ।
तस्माज्जीवस्य कर्तृत्बं परायत्तमिति स्थितम् ॥ 443 ॥

औदासीन्यानुमन्तृत्वे प्रेरकत्वमितीशितुः ।
आकारास्सन्ति तत्राद्यप्रवृत्तौ प्रत्यगात्मनः ॥ 444 ॥

औदासीन्यं , द्वितीयादिप्रवृत्तावनुमन्तृता ।
तदभावे प्रवृत्तेरप्यात्मनोऽसंभवात्तथा ॥ 445 ॥

य ईशस्यानुकूल्ये वा प्रातिकूल्येऽथवा पुमान् ।
अत्यन्तव्यवसाय्यस्मिन् विषये प्रेरकत्ववान् ॥ 446 ॥

॥ इति परायत्ताधिकरणम् ॥

॥ अंशाधिकरणम् ॥ (2-3-7 )

(सि-सू) अंशो नानाव्यपदेशादन्यथा चापि दाशकतितवादित्वमधीयत एके ॥ (2-3-42)

पूर्वं जीवस्य कर्तृत्वं परायत्तमितीतरितम् ।
तेन जीवब्रह्मणोश्च राजतद्भृत्ययोरिव ॥ 447 ॥

अत्यन्तभेदावगमात् तदभेदार्थकश्रुतेः ।
आश्रित्यामुख्यतां प्राप्तो वादोऽत्र विनिवार्यते ॥ 448 ॥

(पू) जीवः परात्मतोऽत्यन्तभिन्नो ज्ञाज्ञ विति श्रुतेः ।
अभेदश्रुतयोऽमुख्याः विरुद्धार्थावबोधनात् ॥ 449 ॥

भ्रान्तं ब्रह्मैव वा जीवः ब्रह्मात्मत्वोपदेशतः ।
अयमात्मा ब्रह्म , तत्त्वमसी त्याद्यभिदाश्रुतौ ॥ 450 ॥

भेदश्रुतिस्तु प्रत्यक्षसिद्धभेदानुवादिनी ।
यद्वा ब्रह्मोपाधियुक्तं जीव उक्ताभिदाश्रुतेः ॥ 451 ॥

अस्योपाधेर्भ्रान्तिपरिकल्पितत्वं न संभवेत् ।
बन्धमेक्षव्यवस्थायास्सर्वथाऽनुपपत्तितः ॥ 452 ॥

भेदश्रुतिस्तु गौण्येव , नेशांशो जीव इष्यते ।
एकवस्त्वेकदेशत्वं ह्यंशत्वं नास्य तद्भवेत् ॥ 453 ॥

तस्य ब्रह्मैकदेशत्वे तद्दोषौधः परे भवेत् ।
न ब्रह्मखण्डो जीवोऽस्य खण्डनादेरसंभवात् ॥ 454 ॥

(सि) इति चेन्न ब्रह्मणोंशः जीवो भेदोपदेशतः ।
अभेदव्यपदेशाच्च , परस्यैके च शाखिनः ॥ 455 ॥

ब्रह्म दाशा इति श्रुत्या दाशत्वाद्यप्यधीयते ।
एतेन सर्वजीवात्मव्यापित्वेनाभिदोच्यते ॥ 456 ॥

विशिष्टवस्त्वेकदेशोऽपृथक्सिद्धविशेषणम् ।
यत् , तदेव द्रव्यसंशशब्दवाच्यं भवेदिह ॥ 457 ॥

चेतनाचेतनाभ्यां च विशिष्टं ब्रह्म सर्वदा ।
जीवस्य ब्रह्मदेहत्वं यस्यात्मे त्यादिना श्रुतम् ॥ 458 ॥

शरीरं ह्यपृथक्सिद्धद्रव्यभूतविशेषणम् ।
अतो जीवस्य पूर्वोक्तमंशत्वं स्यात्परं प्रति ॥ 459 ॥

शरीरवाचिशब्दानां देहिपर्यन्तवाचिता ।
आकृतिन्यायसिद्धाऽतः शब्दानां जीववाचिनाम् ॥ 460 ॥

ब्रह्मपर्यन्तवाचित्वात् तत्त्वस्यादिषु श्रुतम् ।
सामानाधिकरण्यं हि मुख्यं स्याल्लक्षणां विना ॥ 461 ॥

भेदश्रुतिस्तु सर्वत्र स्वरूपेण स्वभावतः ।
जीवेशयोर्मिथो भेदं वक्त्यतोऽस्याश्च मुख्यता ॥ 462 ॥

तस्मात्सिद्धान्तिनां सर्वश्रुतेर्मुख्यत्वमक्षतम् ।
अतो जीवः परात्यन्तभिन्नः स्यादिति वाक् हता ॥ 463 ॥

नित्यनिर्दुष्टसर्वज्ञब्रह्मणो भ्रान्ततादशा ।
न कदापि भवेत्तस्मात्पक्षोऽयमपि वारितः ॥ 464 ॥

परस्य सुखदुःखादेराश्रयत्वप्रसङ्गतः ।
तृतीयश्चापि पक्षोऽयं सुदूरं विनिवारितः ॥ 465 ॥

तस्माज्जीवो ब्रह्मणोंशः इति पक्षः समञ्जसः ।
(सि-सू) मन्त्रवर्णात् ॥ (2-3-43 )

पादोऽस्य विश्वाभूतानी त्यादिपुंसूक्तमन्त्रतः ॥ 466 ॥

ब्रह्मांश एव जीवोऽत्र पादशब्दोंऽशवाचकः ।
(सि-सू) अपि स्मर्यते ॥ (2-3-44)

ममैवांशो जीवलोके जीवभूतस्सनातनः ॥ 467 ॥

इति जीवस्य गीतायां स्मर्यते हि परंशता ।
(सि.सू) प्रकाशादिवत्तु नैवं परः ॥ (2-3-45 )

जीवः प्रकाशादिरिव परमात्मांश उच्यते ॥ 468 ॥

यथा प्रकाशो मण्यादेरंशः स्यात्तद्विशेषणम् ।
तथात्मदेहकत्ववात्तद्विशिष्टस्य परत्मनः ॥ 469 ॥

जीवोंशः स्याद्विशिष्टैकदेशरूपविशेषणम् ।
विशिष्टस्यांश एव स्यादेवं जातिगुणादयः ॥ 470 ॥

विशेषणत्वैकरूपाः द्रव्यांशा एव सर्वदा ।
विशेषणविशेष्याख्यजीवात्मेश्वरयोर्द्वयोः ॥ 471 ॥

स्वरूपस्य स्वभावस्यात्यन्तभेदात् परस्परम् ।
यत्स्वरूपो यत्स्वभावो जीवो नैवं परो भवेत् ॥ 472 ॥

सर्वज्ञस्सत्यसङ्कल्पो निरवद्यः परः पुमानु ।
(सि-सू) स्मरन्ति च ॥ (2-3-46 )

पराशरादयोंशत्वं प्रभाया इव चात्मनः ॥ 473 ॥

एकदेशस्थितस्याग्नेर्ज्योत्स्ने त्यादौ स्मरन्ति च ।
यत्किञ्चित्सृज्यते येने त्यादिना च परं प्रति ॥ 474 ॥

तनुत्वमस्य जीवस्य सुस्पष्टं कथयन्ति हि ।
(सू) अनुज्ञापरिहारौ देहसंबन्धात् ज्योतिरादिवत् ॥ (2-3-47)

द्विजादिसर्वजीवानां ब्रह्मांशत्वे समेऽपि च ॥ 475 ॥

वेदापाठाद्यनुज्ञातन्निषेधौ येषुकेषुचित् ।
शुच्यशुच्यात्मविप्रादिदेहयोगकृतौ , यथा ॥ 476 ॥

अग्निराह्नियतेऽऽगारात् श्रोत्रियस्य , श्मशानगः ।
स परिह्नियते किञ्च यथान्नं श्रोत्रियस्य हि ॥ 477 ॥

ग्राह्यं तदभिशस्तादेः त्याज्यं तद्वदिहोच्यते ।
(सि-सू ) असन्ततेश्चव्यतिकरः ॥ (2-3-48)

जीवानां प्रतिदेहं च भिन्नत्वादणुमानतः ॥ 478 ॥

मिथो जीवविभेदाच्च भोगाव्यतिकरो भवेत् ।
ब्रह्मैव बद्ध्यतेऽज्ञानोपाधिभ्यामिति पक्षयोः ॥ 479 ॥

भोगव्यवस्थितिर्नैव स्यादतोऽसाधु तद्द्वयम् ।
(सि-सू) आभासा एव च॥ (2-3-49 )

सर्वज्ञब्रह्मणोऽज्ञानतत्तिरोधानसाधकाः ॥ 480 ॥

आभासा हेतवः , स्याच्च बाधो निर्दोषताश्रुतेः।
अविद्याकल्पितोपाधिभेदवादेऽपि पूर्ववत् ॥ 481 ॥

(पू ) सत्योपाधियुतब्रह्मजीववादेऽप्यदृष्टतः ।
उपाधिभेदहेतोस्तद्व्यवस्थेत्यत्र कथ्यते ॥ 482 ॥

(सि-सू) अदृष्टानियमात् ॥ (2-3-50 )

उपाधिहेत्वदृष्टानामाश्रयस्य परस्य च ।
एकत्वात्तददृष्टानां नियमासिद्धितस्तथा ॥ 483 ॥

उपाधिभिरदृष्टैश्च स्वसम्बन्धात्परस्य हि ।
छेदासंभवतश्चापि न स्यात् भोगव्यवस्थितिः ॥ 484 ॥

(सि-सू ) अभिसन्ध्यादिष्वपि चैवम् ॥ (2-3-51)

अदृष्टहेतुभूतेषु सङ्कल्पादिष्वपीशितुः ।
पूर्वोक्तात्कारणादेव तद्व्यवस्था न सेभवेत् ॥ 485 ॥

(सि- सू) प्रदेशभेदादिति चेन्नान्तर्भावात् ॥ (2-3-52)

उपाधियोगिनो ब्रह्मप्रदेशात्तदयोगिनः ।
ब्रह्मप्रदेशा भिद्यान्ते तस्माद्भोगव्यवस्थितिः ॥ 486 ॥

इति चेत्तन्न , गच्छत्सु सर्वत्रोपाधिषु स्वयम् ।
अन्तर्भावात्प्रदेशस्य पूर्वानुपहितस्य च ॥ 487 ॥

तस्माद्भोगव्यतिकरः दुर्वारः , सकलस्य च ।
ब्रह्मदेशत्वतस्सर्वदुःखं तस्यैव संभवेत् ॥ 488 ॥

अतः परस्मिन् चिदचिद्विशिष्टब्रह्मणि स्वयम् ।
विशेषणत्वेनांशोऽयं जीव इत्येव सुस्थितम् ॥ 489 ॥

॥ इत्यंशाधिकरणम् ॥

॥ इति द्वतीयाध्याये तृतीयः पादः ॥

॥ द्वितीयाध्याये चतुर्थः पादः ॥

॥ प्राणोत्पत्त्यधिकरणम् ॥ (2-4-1)

(पू-सि-सू) तथा प्राणाः ॥ (2-4-1)

प्रागुक्तं ब्रह्मकार्यत्वं खादेर्जीवात्मनामपि ।
अत्रेन्द्रियादिजीवोपकरणानां तदुच्यते ॥ 490 ॥

यथा नोत्पद्यते जीवः तथैवेन्द्रियसञ्चयः ।
प्राक्सृष्टेरिन्द्रियाणामप्यवस्थानप्रमाणतः ॥ 491 ॥

ऋषयो वाव ते , के ते , प्राणा वावे ति च श्रुतिः ।
प्रलयेऽपि स्थितिं तेषां ब्रवीत्युत्पत्तिवादिनी ॥ 492 ॥

जीवोत्पत्तिश्रुतिरिव नेयेत्येतन्मतं न सत् ।
(सि ) प्राक् सृष्टेः परमात्मैकत्वावधारणतस्तथा ॥ 493 ॥

एतस्माञ्जायते प्राणः इत्युत्पत्तिश्रुतेस्यथा ।
तन्नित्यत्ववचोऽभावाच्चोद्भवन्तीन्द्रियाणि तु ॥ 494 ॥

प्राणा वावे त्यादिनोक्तः परात्माऽस्यैव संभवेत् ।
ऋषिशब्देनावगतं सर्वज्ञत्वं , नचाऽचिताम् ॥ 495 ॥

(अव) प्राणा ऋषय इत्यत्र बहूक्तिस्संभवेत्कथम् ।
बहुत्वासंभवादत्रेत्याशङ्कैवं निवार्यते ॥ 496 ॥

(सि-सू) गौण्यसंभवात् तत्प्राक्श्रुतेश्च ॥ (2-4-2)

बहूक्तिरत्र गोणी स्यात् बह्णर्थासंभात्तदा ।
परमात्मन एव प्राक् अवस्थानश्रुतेरपि ॥ 497 ॥

(सि - सू) तत्पूर्वकत्वाद्वाचः ॥ (2-4-3)

नामधेयस्य सर्वस्य परमात्मान्यवाचिनः ।
वियदादेस्सृष्टिपूर्वकत्वात् प्राणाः परः पुमान् ॥ 498 ॥

प्राक्सृष्टेर्वियदादीनामभावान्नामरूपिणाम् ।
वागादीन्द्रियकार्यस्य तदा कस्याप्ययोगतः ॥ 499 ॥

नेन्द्रियाणि तदा सन्ति तदत्र प्राणशब्द्यता ।
नैषां , किन्तु परस्यैव , प्रसिद्धिश्चात्र वैदिकी ॥ 500 ॥

॥ इति प्राणोत्पत्त्यधिकरणम् ॥

॥ सप्तगत्यधिकरणम् ॥ (2-4-2)

(पू-सू ) सप्त गतेर्विशेषितत्वाच्च॥ (2-4-4)

समस्तानामिन्द्रियाणां कार्यत्वं प्राङ्निरूपितम् ।
तेषां सङ्ख्याऽत्राधिकृतौ विचार्य स्थाप्यते नयैः ॥ 501 ॥

सप्त प्राणा इति श्रुत्या गतिर्जीवात्मना सह ।
सप्तानामेवोच्यतेऽथ यदा पञ्चे ति वाक्यतः॥ 502 ॥

एतेषामेव योगे च विशिष्य वचनं ततः ।
पञ्च श्रोत्रादीनि बुधिर्मन एतानि सप्त वै ॥ 503 ॥

इन्द्रियाणि , न वागादीन्यात्मना गत्यभावतः

अल्पोपकारकेष्वेषु प्राणोक्तिस्त्वौपचारिकी ॥ 504 ॥

(सि-सू ) हस्तादयस्तु स्थितेऽतो नैवम् ॥ (2-4-5 )

जीवे स्थिते शरीरान्तः , हस्तादीन्यपि पञ्च हि ।
तस्योपकरणानि स्युः बोद्ध्यं सप्तैव नेत्यतः ॥ 505 ॥

दशेमे परुषे प्राणाः , इन्द्रियाणि दशेति च ।
श्रुतिस्मृतिभ्यां जीवोपकरणत्वाविशेषतः ॥ 506 ॥

पञ्च श्रोत्रादीनि पञ्च हस्तादीन्येककं मनः ।
एकादशेन्द्रियाणि स्युः न्यूनसंख्योक्तिरत्र हि ॥ 507 ॥

तत्तद्व्यापारमात्रस्य तत्र तत्र विवक्षया ।
योगकाले विशिष्योक्तिः श्रोत्रादेर्मनआदिना ॥ 508 ॥

ज्ञानेन्द्रियत्वप्राधान्यात् दशैकं चेन्द्रियाण्यतः ।
सप्तैवेत्युक्तिनियमो न स्यातन्मानविरोधतः ॥ 509 ॥

॥ इति सप्रगत्यधिकरणम् ॥

॥ प्राणाणुत्वाधिकरणम् ॥ (2-4-3)

(सि-सू ) अणवश्च ॥ (2-4-6 )

संख्या निर्धारिता पूर्व इन्द्रियाणां प्रमाणतः ।
अत्राधिकरणे तेषां परिमाणं निरूप्यते ॥ 510 ॥

(पू) सर्वेऽनन्ता इति श्रुत्या प्राणाननत्यावबोधनात् ।
विभुत्वमेषां सिद्धं स्यात् इति वादोऽसमञ्जसः॥ 511 ॥

सर्वे प्राणा अनूत्क्रामन्ती ति गत्युपदेशतः ।
सिद्धे सत्यल्पमानत्वे चाप्रत्यक्षत्वतोऽणवः ॥ 512 ॥

तदानन्त्यश्रुतिस्तावत् कार्यानन्त्यावबोधिका ।
(सि-सू) श्रेष्ठश्च (2-4-7)

शरीरस्थितहेतुत्वात् श्रेष्टत्वगुणसंयुतः ॥ 513 ॥

प्राणो न जायते सृष्टेः प्राक् स्वकार्यस्थितिश्रुतेः ।
जीवस्येवास्य चोत्पत्तिश्रुतिर्नेयान्यथेति चेत ॥ 514 ॥

मुख्यप्राणोपीन्द्रियवदुत्पद्यत इतीर्यते ।
एतस्माज्जायते प्राण इत्युत्पत्तिश्रुतेस्तथा ॥ 515 ॥

जीवस्येवास्य चोत्पत्तिनिषेधाश्रवणात्तथा ।
प्राक्सृष्टेश्च परैकत्वावधारणविरोधतः ॥ 516 ॥

आनीदवात मित्येषा श्रुतिस्तु प्राणनस्य च ।
प्रलये प्राणकार्यस्य सद्भावं न ब्रवीति हि ॥ 517 ॥

परब्रह्मण एकस्य वक्ति सा विद्यमानताम् ।
अवातमिति तत्रैव वाय्वभावस्य भाषणात् ॥ 518 ॥

॥ इति प्राणाणुत्वाधिकरणम् ॥

॥ वायुक्रियाधिकरणम् ॥ (2-4-4)

(सि-सू ) न वायुक्रिये पृथगुपदेशात् ॥ (2-4-8 )

मुख्यप्राणोपीन्द्रियवदुत्पद्यत इतीरितम् ।
तस्य स्वरूपं प्राणस्य विचार्यात्र निरूप्यते ॥ 519 ॥

श्रेष्ठप्राणो वायुमात्रं यः प्राणः स इति श्रुतेः ।
भूताद्वितीये प्राणत्वप्रसिद्धिर्नेति चेत्तदा ॥ 520 ॥

वायोरुच्छ्वासादिरूपक्रिया वा प्राण उच्यताम् ।
(सि) इति पक्षद्वयमपि न मानानुगुणं भवेत् ॥ 521 ॥

न वायुस्तक्रिया वापि प्राणो भवितुमर्हति ।
देहादिधृतियोग्यत्वदशावान् वायुरेव सः ॥ 522 ॥

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुरिति वायोश्च प्राणस्य पृथगुक्तितः ॥ 523 ॥

न वायुमात्रं प्राणः स्यात् तत एव न तत्क्रिया ।
क्रियायाः पृथगुक्तिर्न चेजआदिषु दृश्यते ॥ 524 ॥

अव - प्राणो वायुविकारश्चेत् तेजो भूतान्तरं यथा ।
तथाऽयमप्यन्यभूतं स्यादित्याशंक्य कथ्यते ॥ 525 ॥

(सि - सू ) चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः॥ (2-4-9 )

चक्षुःश्रोत्रादिवत्प्राणो जीवोपकरणं मतम् ।
तथोपकरणत्वं च तादृशैरिन्द्रियैस्सह ॥ 526 ॥

प्राणसंवादादिकेऽस्य शासनादवगम्यते ।
तत्साजात्ये हि सत्येव पाठस्तैस्सह युज्यते ॥ 527 ॥

करणेषु विशिष्येक्त्याप्ययमर्थोऽवगम्यते ।
तस्मादग्न्यादिवन्नायं प्राणो भूतान्तरं भवेत् ॥ 528 ॥

(सि - सू) अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ (2-4-10)

जीवं प्रत्युपकारात्मक्रियाशून्यत्वतोऽस्य च

उद्भाव्यते यश्च दोषः न भवेत् स यतः श्रुतिः॥ 529 ॥

यस्मिन्नुत्क्रान्त इति च पापिष्टतरमित्यपि ।
शरीरेन्द्रियधृत्याख्यक्रियां दर्शयति स्फुटम् ॥ 530 ॥

जीवोपकारकत्वेन शरीरादिधृतेरतः ।
प्राणस्यैतस्येन्द्रियवत् करणत्वं तदक्षतम् ॥ 531 ॥

(सि -सू ) पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ (2-4-11)

यथा कामादि मनसः कामः सङ्कल्प इत्यतः।
वृत्तितत्कार्ययोर्भेदेऽप्यन्यतत्त्वं न संमतम् ॥ 532 ॥

तथा प्राणोऽपान इति गिरा प्राणस्य वै गतः ।
वृत्तिभेदमपानादिर्नान्यतत्त्वमिति स्थितम् ॥

॥ इति वायुक्रियाधिकरणम् ॥

॥ श्रेष्ठाणुत्वाधिकरणम् ॥ (2-4-5 )

(सि-सू) अणुश्च ॥ (2-4-12)

अवस्थान्तरमापन्नो वायुर्वै प्राणशब्दितः ।
इत्युक्तं पूर्वमस्यात्र परिमाणं निरूप्यते ॥ 534 ॥

प्राणोनूत्क्रामती त्यादवुत्क्रान्तिश्रवणादयम् ।
मुख्याप्राणोपीन्द्रियवदणुरानन्त्यबोधिका ॥ 535 ॥

सम एभिस्त्रिभिर्लोकै रित्याद्या श्रुतिरस्य च ।
तदधीनाखिलप्राणिस्थित्युत्कर्षं ब्रवीति हि ॥ 536 ॥

॥ इति श्रेष्ठाणुत्वाधिकरणम् ॥

॥ ज्योतिराद्यधिष्ठानाधिकरणम् ॥ (2-4-6 )

(सि-सू) द्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥ (2-4-13)

एवं सप्राणेन्द्रियाणामुत्पत्त्यादि निरूपितम् ।
अग्न्यादेस्तदधिष्ठाने निरपेक्षत्वमस्यते ॥ 537 ॥

जीवस्य चाग्न्यादीनां चेन्द्रियसंघप्रवर्तनम् ।
स्वायत्तं नैरपेक्ष्यादित्युक्तिर्माननिराकृता ॥ 538 ॥

जीवात्मना सहाग्न्यादेरिन्द्रियादिप्रवर्तनम् ।
सङ्कल्पादेवेशितुस्संभवति श्रुतिवाक्यतः ॥ 539 ॥

योऽग्नौ तिष्ठन् यमयति , स आत्मे त्यादिका श्रुतिः।
(सि -सू ) तस्य च नित्यत्वात् ॥ (2-4-14)

परात्माधिष्ठितत्वस्य सर्वेषां नियतत्वतः॥ 540 ॥

तत्सङ्कल्पादेव तेषामधिष्ठातृत्वमुच्यते ।
तत्सृष्टेत्यादिनेशस्य नियन्तृत्वेन सर्वदा ॥ 541 ॥

चिदचित्सु प्रवेशो हि श्रूयते स्मर्यतेऽपि च।
विष्यभ्ये त्यादि , तस्मात्स्यादर्थः प्रोक्तः समञ्जसः॥ 542 ॥

॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् ॥

॥ इन्द्रियाधिकरणम् ॥ (2-4-7 )

(सि - सू ) त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ (2-4-15)

श्रेष्ठस्य चक्षुरादेश्च जीवोपकरणत्वतः ।
सर्वेषामिन्द्रियत्वं स्यादिति वादोऽत्र वार्यते ॥ 543 ॥

(पू ) करणत्वात्प्राणशब्दवाच्यत्वादविशेषतः ।
ते सर्व एवेन्द्रियाणि भवेयुरिति चेन्न तत् ॥ 544 ॥

श्रेष्ठातिरिक्ताः प्राणास्त इन्दरियण्येषु वै स्फुटम् ।
इन्द्रियाणि दशैकं चे त्यादिनेन्द्रियतोक्तितः ॥ 545 ॥

(सि -सू) भेदश्रुतेर्वैलक्षण्याच्च ॥ (2-4-16)

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
इत्यादिष्विन्द्रियेभ्योऽस्य प्राणस्य पृथगुक्तितः ॥ 546 ॥

इन्द्रियत्वं तदन्येषामेवेति ज्ञायते स्फुटम् ।
मनसः पृथगुक्तस्य त्विन्द्रियत्वं प्रमाणतः ॥ 547 ॥

श्रेष्ठस्य चक्षुरादेश्च वैलक्षण्याच्च नास्य तत् ।
सुषुप्तौ वृत्तिरस्यास्ति नेन्द्रियाणां हि दृश्यते ॥ 548 ॥

समनश्चक्षुरादेस्तु कार्यं ज्ञानादिकं भवेत् ।
देहेन्द्रियधृतिस्त्वस्य तस्मान्नेन्द्रियताऽस्य हि ॥ 549 ॥

॥ इतीन्द्रियाधिकरणम् ॥

संज्ञामूर्तिक्लृप्त्यधिरणम् ॥ (2-4-8)

(सि -सू) संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कृर्वत उपदेशात् ॥ (2-4-17 )

समष्टिसृष्टिर्ब्रह्यैककृतेति प्राङ्निरूपणात् ।
निश्चितं ब्रह्मकार्यत्वं महाभूतोन्द्रियादिषु ॥ 550 ॥

देवादिव्यष्टिमृष्टिर्या चतुर्मुखकृतैव सा ।
इति शङ्कापनोदेन देवमर्त्यादिदेहिनाम् ॥ 551 ॥

तत्कार्यतानिश्चयाय प्रवृत्तेयमधिक्रिया ।
(पू ) नामरूपव्याक्रियात्मप्रपञ्चव्यष्टिसर्जनम् ॥ 552 ॥

समष्टिजीवरूपल्य धातुरेव क्रिया भवेत् ।
अनेन जीवेने त्यादिव्यतिरेकश्रुतेस्यथा ॥ 553 ॥

अत्र व्याकरवाणी ति ह्युत्तमोक्तिः कथञ्जन ।
जीवात्मनः परांशत्वात् उपपद्यत एव च ॥ 554 ॥

तस्मादेतद्व्याकरणं धातुरेवेति चेन्न तत् ।
(सि ) त्रिवृत्कुर्वत एवैतद्व्याकृतेरुपदेशतः ॥ 555 ॥

नामरूपव्याकरणव्यष्टिसृष्टिः परात्मनः ।
त्रिवृत्करणमेतत्तु धात्रा कर्तुं न शक्यते ॥ 556 ॥

चतुर्मुखजनिर्ह्यण्डसृष्ट्यनन्तरभाविनी ।
त्रिवृत्कृतैरेव तेजोबन्नेस्तत्सृष्टिसंभवः ॥ 557 ॥

तस्मिन् जज्ञे स्वयं ब्रहमा सर्वलोकपितामहः ।
समेत्यान्योन्यसंयोगमणडमुत्पादयन्ति ते ॥ 558 ॥

इत्यादि स्मर्यतेऽतो वै चतुर्मुखशरीरकात् ।
परमात्मन एवैषा व्याष्टिसृष्टिरितीर्यते ॥ 559 ॥

श्रुतौ व्याकरवणीति निर्देशश्च सुसङ्गतः ।
अनेन जीवेने त्यादि व्यतिरेकवचोषऽपि तत् ॥ 560 ॥

जीवात्मदेहकेनात्मनेत्यर्थाद्धि सुसङ्गतम् ।
जीवशब्दस्तेजआदिशब्दवज्जीवदेहकम् ॥ 561 ॥

ब्रह्म वक्ति ततो जीवेनात्मनेति श्रुतौ श्रुतम् ।
सामानाधिकरण्यं च मुख्यं निर्दिष्टयोरिह ॥ 562 ॥

प्रवेशव्याकरणयोरेककर्तृकतापि च ।
नामरूपव्याकरणं क्रियाऽतः परमात्मनः ॥ 563 ॥

(अव) त्रिवृत्कारप्रकारोऽत्र वेधस्सृष्टेषु वस्तुषु ।
प्रदर्शयतेऽन्नमशितं त्रेधं त्याद्यैरतश्च सः ॥ 564 ॥

वेधःकृतस्त्रिवृत्कारःतत् एवोपपद्यते ।
नामरूपे व्याकरो दित्ये कैकामकरो दिति ॥ 565 ॥

पौर्वापर्यमपीत्येतद्वचोऽत्र विनिवार्यते ।
(सि-सू) मांसादि भौमं यथाशब्दमितरयोश्च ॥ (2-4-18)

अन्नमित्यादिना नात्र त्रिवृत्करणमुच्यते ॥ 566 ॥

भुक्तान्नादेः त्रिप्राकारः परिणामोऽत्र कथ्यते ।
यः स्थविष्ठो भागः एवमादिपर्यायतः क्रमात् ॥ 567 ॥

पुरीषं मांसमनसी विकारा अन्नवस्तुनः ।
मूत्रासृजी प्राण इमे परिणामा जलस्य च ॥ 568 ॥

अस्थिमज्जावाच इति विकारास्तेदजसोऽपि च ।
यदीह चेजोबन्नानां त्रिवृत्करणमुच्यते ॥ 569 ॥

तर्हि भौमात् पुरीषाद्धि मांसस्य मनसः क्रमात् ।
अणुत्वादाप्यताणीयस्त्वाच्च तैजसताऽऽपतेतः ॥ 570 ॥

पृथिव्यप्तेजसामत्रिवृत्कृतानां यतः क्रमात् ।
स्थविष्ठत्वाणुताणीयस्त्वस्वभावो हि संमतः ॥ 571 ॥

आपः पीतास्तथा तेजोऽशितमित्याद्युपक्रमात् ।
तयोः पर्याययोश्चैवमाप्यतैजसते क्रमात् ॥ 572 ॥

उच्येते हि यथाशब्दं वाक्यशेषस्तथैव हि ।
आपोमयः प्राण इति वाक् च तेजोमयी ति च ॥ 573 ॥

प्रागुक्तोऽत्र त्रिवृत्कारप्रकारो यदि कथ्यते ।
स्थविष्ठत्वादणीयस्त्वात्तन्मूत्रप्राणयोः क्रमात् ॥ 574 ॥

भौमतैजसते चापि प्रसज्येते यथाक्रमम् ।
तथास्थिमज्जयोश्चापि भौमता चाप्यताऽऽपतेत् ॥ 575 ॥

अतस्त्रिवृत्कृतस्यैव प्रागन्नादेरिहोच्यते ।
त्रेधा परिणतिस्तस्मात् त्रिवृत्कारोऽत्र नोच्यते ॥ 576 ॥

त्रिवृत्कृतिर्नामरूपव्याकृतेः पूर्वभाविनी ।
बलीयोर्थक्रमेणात्र पाठरीतिस्तु बाध्यते ॥ 577 ॥

यदग्ने रोहित मिति त्रिवृत्कारप्रदर्शनम् ।
अण्डस्थाग्न्यादिषु , श्वेतकेतोरण्डस्थितत्वतः ॥ 578 ॥

तस्मै बहिर्वस्तुषु तद्भोधनासंभवादतः ।
त्रिवृत्कृतानां कार्येषु क्रियते तत्प्रदर्शनम् ॥ 579 ॥

(सि-सू) वैशेष्यात्तु तद्वादस्तद्वादः ॥ (2-4-19)

अन्नमापस्तेज इति पादनां शुद्धवाचिनाम् ।
त्रिवृत्कृतपृथिव्यादिपरत्वं चात्र युज्यते ॥ 580 ॥

एकैकस्य हि बाहुल्यादेकैकस्मिन्नथ त्रिषु ।
अन्नादिवाक् , पदाभ्यासोऽध्यायपूर्तेः प्रदर्शकः ॥ 581 ॥

॥ इति संज्ञामूर्तिक्लृप्त्यधिकरणम् ॥

॥ इति द्वितीयाध्याये चतुर्थः पादः ॥

॥ इति द्वितीयाध्यायः ॥

॥ श्रीरस्तु ॥

॥ श्रीमते श्रीराघवार्यमहादेशिकाय नमः ॥

॥ अस्मद्गुरुपरम्परायै नमः ॥

क़दृद्वद्धद्यण् ॠड्डण्न्र्ठ्ठन्र्ठ्ठ

॥ चतुर्थाध्याये तृतीयः पादः ॥

॥ अर्चिराद्यधिकरणम् ॥ ( 4-3-1 )

(सि.सू) ॥ अर्चिरादिना तत्प्रथितेः ॥ ( 4.3.1 )

(अव) हार्दानुग्रहतो नाडीविशेषात् स्थूलदेहगात् ।
उत्क्रान्तस्य ब्रह्मविदः प्राक् प्रोक्तो गत्युपक्रमः ॥ 189 ॥

गच्छतस्तस्य विदुषो मार्गो निर्णीयतेऽधुना ।
सर्वश्रुतिष्वेक एव मार्गोऽर्चिर्मुख उच्यते ॥ 190 ॥

तेनैव विद्वान् किं ब्रह्म यात्युतानेन वेतरैः ।
अन्यत्रोक्ताध्वभिर्वाऽतोऽनियमोऽत्रेति संशये ॥ 191 ॥

(पू) मार्गाणां नैकरूपत्वात् नैरपेक्ष्यान्मिथस्तथा ।
(सि) अत्रानियम एवेति वचनं नैव युक्तिमत् ॥ 192 ॥

एक एवार्चिरादिस्स मार्गस्सर्वत्र कथ्यते ।
तत एकेनैव तेन पथा गच्छति, तस्य वै ॥ 193 ॥

सर्वत्र प्रत्यभिज्ञानात् श्रुतिष्वध्वैक एव सः ।
न्यूनाधिकतया सर्वश्रुतिषु प्रतिपाद्यते ॥ 194 ॥

विद्यागुणोपसंहारो यथा तद्वदिहापि च ।
कार्यैकत्र श्रुतानां च तदन्यत्रोपसंहृतिः ॥ 195 ॥

ततस्सर्वोपनिषदि श्रुतस्यैकत्वतोऽध्वनः ।
तेनैव सर्वे विद्वांसो गन्तव्या इति सुस्थितम् ॥ 196 ॥

॥ इत्यर्चिराद्यधिकरणम् ॥

॥ वाय्वधिकरणम् ॥ ( 4.3.2 )

(सि.सू) ॥ वायुमब्दादविशेषविशेषाभ्याम् ॥ ( 4.3.2 )

अर्चिरादिप्रकरणे साम्नि संवत्सरात्परम् ।
आदित्यः श्रूयतेऽन्यत्र देवलोकश्च मारुतः ॥ 197 ॥

तयोर्मध्ये श्रुतावेतौ भिन्नार्थावथवा मरुत् ।
(पू) एक एवेति विशये, भिन्नार्थौ शब्दभेदतः ॥ 198 ॥

भिन्नार्थत्वे चोर्ध्वशब्दात् पञ्चम्या च तयोर्द्वयोः ।
संवत्सरादित्यमध्ये प्राप्तत्वात् श्रुतिरीतितः ॥ 199 ॥

विशेषाभावतश्चासौ विद्वान् गच्छेत् स्वकेच्छया ।
(सि) नैवं संवत्सरादूर्ध्वं वायुं गच्छेदसौ पुमान् ॥ 200 ॥

अविशेषविशेषाभ्यां वायोरेवेरितत्वतः ।
देवलोकपदं त्वत्र देवानां लोक इत्यतः ॥ 201 ॥

सामान्येनाह वायुं तं स वायुमभिगच्छति ।
इति वायुपदं त्वत्र तं विशेषेण वक्ति च ॥ 202 ॥

अतस्ताभ्यां च शब्दाभ्यां वायुरेवाभिधीयते ।
अतस्संवत्सरादूर्ध्वं गच्छेत्तं वायुमेव सः ॥ 203 ॥

आवासभूतो देवानां वायुरित्युच्यते श्रुतौ ।
योऽयं पवत इत्यत्र तस्मादुक्तार्थसङ्गतिः ॥ 204 ॥

॥ इति वाय्वधिकरणम् ॥

॥ वरुणाधिकरणम् ॥

(सि.सू) तटितोऽधि वरुणस्संबन्धात् ॥ ( 4-3-3 )

छान्दोग्यादिष्वर्चिरादेरध्वनः क्रम ईरितः ।
तत्र संवत्सरादूर्ध्वं सिद्धं वायोर्निवेशनम् ॥ 205 ॥

वायोरूर्ध्वं यथापाठं किमेते वरुणादयः ।
निवेश्या उत सर्वान्ते तटितोऽधीति चिन्तने ॥ 206 ॥

(पू) कौषीतक्यनुसारेण वायोरूर्ध्वं प्रचेतसः ।
निवेशोऽतश्च वाय्वर्कक्रमबाधान्मरुत्वतः ॥ 207 ॥

प्रजापतेश्च तत्रैव प्रवेश इति चेन्न सत् ।
(सि) मेघवर्तित्वसंबन्धात् विद्युद्वरुणयोर्मिथः ॥ 208 ॥

विद्युतोऽधि निवेशोऽस्य वरुणस्योपपद्यते ।
ततः पश्चादिन्द्रधात्रोः निवेशो वरुणादधि ॥ 209 ॥

पठनादागन्तुकानामन्ते स्थाग्यत्वतोऽपि च ।
एवं चायं क्रमस्सिद्धः आतिवाहिकसन्ततेः ॥ 210 ॥

अर्चिर्दिनाद्यपक्षोदगयनाब्दसमीरणाः ।
सूर्यचन्द्रतटित्पाशिशक्राब्जप्रभवा इति ॥ 211 ॥

॥ इति वरुणाधिकरणम् ॥

॥ आतिवाहिकाधिकरणम् ॥ ( 4-3-4 )

(सि.सू) ॥ आतिवाहिकास्तल्लिङ्गात् ॥ ( 4.3.4 )

किमर्चिरादयो मार्गचिह्नभूता इमेऽथवा ।
भोगभूमय एते किं विदुषामातिवाहिकाः ॥ 212 ॥

(पू) चिन्ताया चिह्नभूतास्ते ग्रामादीन्प्रति लैकिकः ।
मार्गोपदेश एवं हि दृश्यते कालवाचिनाम् ॥ 213 ॥

एतेषां चिह्नभावस्याऽयोगात् स्युर्भोगभूमयः ।
अहरादेरेत एवेत्यत्र लोकत्वसंश्रुतेः ॥ 214 ॥

लोकशब्देनार्चिरादीन् पठन्त्येके च शाखिनः ।
(सि) नैवं मार्गातिवोढारो नियुक्ताः परमात्मना ॥ 215 ॥

गन्तुर्गमयितृत्वात्मलिङ्गतो विदुषोऽध्वनि ।
अमानवस्स एनानित्युपसंहारवाक्यतः ॥ 216 ॥

वैद्युतस्यातिवोढृत्वदर्शनात् पूर्ववर्तिनाम् ।
इतरेषां चाविशेषनिर्दिष्टानां स एव च ॥ 217 ॥

अतिवोढृत्वसंबन्ध इति निश्चीयते ततः ।
भोगाभावान्मार्गमध्ये मार्गवोढृत्व एव हि ॥ 218 ॥

लोकशब्दो युज्यतेऽत्र शब्दास्त्वेतेऽर्चिरादयः ।
तदात्मभूताश्शंसन्ति देवता अभिमानिनीः ॥ 219 ॥

(अव) वैद्युतस्यैव पुंसोऽत्र ब्रह्मप्रापकताश्रुतेः ।
परेषां वरुणादीनां आतिवाहिकता कथम् ॥ 220 ॥

(सि.सू) ॥ वैद्युतेनव ततस्तच्छØतेः ॥ ( 4-3-5 )

विद्युतश्चोर्ध्वमेतेषां गमनं वैद्युतेन वै ।
स एनानिति तस्यैव ब्रह्मप्रापकताश्रुतेः ॥ 221 ॥

अमानवस्य तस्यैव पाश्याद्यास्सहकारिणः ।
ततोऽर्चिरादयस्सर्वे विदुषामातिवाहिकाः ॥ 222 ॥

॥ इत्यातिवाहिकाधिकरणम् ॥

॥ कार्याधिकरणम् ॥ ( 4-3-5 )

(पू.सू) ॥ कार्यं बादरिरस्य गत्युपपत्तेः ॥ ( 4-3-6 )

पूर्वं गमयितारस्ते प्रोक्ता अर्चिर्मुखाध्वनि ।
निरूप्यन्तेऽत्र गन्तारः निरस्य च मतान्तरम् ॥ 223 ॥

अर्चिरादिगणः कार्यमुपासीनान् चतुर्मुखम् ।
किं नयत्यथवा ब्रह्मध्यातॄनेवोत तानपि ॥ 224 ॥

जीवं ब्रह्मात्मकत्वेनोपासीनांश्चेति संशये ।
(पू) उपासीनानेव कार्यं नयतीत्याह बादरिः ॥ 225 ॥

हिरण्यगर्भोपासीनस्यैव गत्युपपत्तितः ।
सर्वत्र पूर्णं तद्ब्रह्मोपासीनस्य तदाप्तये ॥ 226 ॥

देशान्तरगतिर्नैव युक्ता प्राप्तत्वतस्सदा ।
परविद्या कार्यमत्राऽविद्यानाशनमेव हि ॥ 227 ॥

परिच्छिन्नप्रदेशस्थप्राप्तये हि गतिर्मता ।
अतः कार्योपासितारं नयत्यर्चिर्मुखो गणः ॥ 228 ॥

(पू.सू) ॥ विशेषितत्वाच्च ॥ ( 4-3-7 )

(पू) पुरुषो मानसो ब्रह्मलोकानिति बहूक्तितः ।
लोकशब्दाच्च धातारमुपासीनममानवः ॥ 229 ॥

नयतीति ज्ञाप्यतेऽथ गतोऽर्चिर्मुखमार्गतः ।
प्रजापतेस्सभां वेश्मेत्यभिसन्धत्त आत्मनः ॥ 230 ॥

वेधोन्तिकगतिं तस्मादर्चिरादिर्नयत्यमुम् ।
(अव) निश्चिते सत्येवमेनान् ब्रह्मेत्यब्जभुवः कथम् ॥ 231 ॥

उक्तिर्नपुंसकब्रह्मशब्देनेत्यत्र कथ्यते ।
(पू.सू) ॥ सामीप्यात्तु तद्व्यपदेशः ॥ ( 4.3.8 )

(पू) विधातुर्ब्रह्मशब्दोक्तिर्व्रह्मसामीप्यतो भवेत् ॥ 232 ॥

अस्य प्रथमजत्वेन तत्सामीप्यं हि विद्यते ।
(अव) आब्रह्मभुवनादित्याद्युक्त्या प्राप्तस्य वेधसम् ॥ 233 ॥

अत्याज्या पुनरावृत्तिरित्यत्रोत्तरमुच्यते ।
(पू.सू) कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ( 4.3.9 )

(पू) हिरण्यगर्भप्राप्तावप्यनावृत्तिश्च युज्यते ॥ 234 ॥

कार्यवेधोलोकनाशे तदध्यक्षेण वेधसा ।
विदुषोऽस्यापि ते ब्रह्मेत्यत्र ब्रह्माप्तिभाषणात् ॥ 235 ॥

(पू.सू) ॥ स्मृतेश्च ॥ ( 4-3-10 )

(पू) ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ 236 ॥

इति स्मृतेश्चायमर्थो ज्ञायतेऽतोऽर्चिरादिकः ।
कार्यध्यातॄनेव नयत्येवं वदति बादरिः ॥ 237 ॥

(अव) अत्र सूत्रत्रयेणाह सिद्धान्तं जैमिनिः स्वकम् ।
(पू.सू) ॥ परं जैमिनिर्मुख्यत्वात् ॥ ( 4.3.11 )

अर्चिरादिः परंब्रह्मध्यातॄनेव नयत्यसौ ॥ 238 ॥

ब्रह्मशब्दस्य मुख्यत्वात् स एनानिति तत्र वै ।
गमनानुपपत्तिर्न परस्य ब्रह्मणस्सदा ॥ 239 ॥

सर्वगत्वेपि विदुषो विशिष्टस्थानगस्य वै ।
सर्वाविद्यानाशपूर्वब्रह्माप्तिपरशास्त्रतः ॥ 240 ॥

लोकशब्दबहूक्तिभ्यां न प्रतीतिः स्वयंभुवः ।
निषादस्थपतिन्यायात् युज्यते कर्मधारयः ॥ 241 ॥

ब्रह्मैव लोक इत्यत्रार्थैकत्वे सति निश्चिते ।
बहूक्तिरदितिः पाशानितिवच्चोपपद्यते ॥ 242 ॥

ब्रह्मणः परिपूर्णस्य स्वेच्छया परिकल्पिताः ।
अप्राकृता अनन्ताश्च लोकास्सन्ति प्रमाणतः ॥ 243 ॥

(पू.सू) ॥ दर्शनाच्च ॥ ( 4.3.12 )

अस्माच्छरीरादित्यादिश्रुतिरर्चिर्मुखाध्वना ।
गतस्य परमब्रह्मप्राप्तिं दर्शयति स्फुटम् ॥ 244 ॥

(पू.सू) ॥ न च कार्ये प्रत्यभिसन्धिः ॥ ( 4-3-13 )

प्रजापतेस्सभां वेश्मेतीयं प्रत्यभिसन्धिवाक् ।
हिरण्यगर्भे कार्ये न, धूत्वेत्यादिश्रुतौ स्फुटम् ॥ 245 ॥

अभिसंभाव्यलोकस्याकृतकत्वाभिधानतः ।
यशोहमिति सर्वात्मत्वाभिसन्धानतोऽस्य च ॥ 246 ॥

तस्मात् ब्रह्मोपासितारमेव प्रापयति ध्रुवम् ।
अर्चिरादिर्गण इति जैमिन्याख्यमुनेर्मतम् ॥ 247 ॥

अत्र स्वसिद्धान्तमाह भगवान् बादरायणः ।
(सि.सू) ॥ अप्रतीकालम्बनान्नयतीति बादरायणः,

उभयथाच दोषात् तत्क्रतुश्च ॥ ( 4.3.14 )

प्रतीकालम्बनेभ्योऽन्यान् नयत्यर्चिर्मुखो गणः ॥ 248 ॥

इत्येवं भगवानार्यो मन्यते बादरायणः ।
ब्रह्मदृष्ट्याऽथवा तत्तद्रूपेणोपासतेऽखिलम् ॥ 249 ॥

चिदचिद्वस्तुजातं ये प्रतीकालम्बना इमे ।
ध्यायन्ति ये परं ब्रह्म येचात्मानमुपासते ॥ 250 ॥

ब्रह्मात्मकं विनिर्मुक्तं प्रकृत्या द्विविधा इमे ।
अप्रतीकालम्बनाख्याः इमानुभयधा स्थितान् ॥ 251 ॥

नयत्यर्चिर्मुखस्तान्न प्रतीकालम्बनान् क्वचित् ।
कार्यपक्षे परं ज्योतिरित्यादिश्रुत्यसङ्गतिः ॥ 252 ॥

परमेवेति नियमे तद्य इत्थमिति श्रुतिः ।
कुप्येत् पक्षद्वये दोषो नयति द्विविधान् ततः ॥ 253 ॥

अत्रायमर्थस्सिद्धस्स्यात् तत्क्रतुन्यायतोऽपि च ।
उपास्तौ यादृशं रूपं प्राप्यं तादृशमेव हि ॥ 254 ॥

पञ्चाग्निविद्यानिष्ठास्ते स्वरूपं शुद्धमात्मनः ।
य आत्मनीत्यवगतब्रह्मात्मकमुपासते ॥ 255 ॥

यतस्तेषामर्चिरादिगमनं श्रूयते श्रुतौ ।
गतस्य तेन ब्रह्माप्तिरनावृत्तिश्च कथ्यते ॥ 256 ॥

प्रतीकालम्बनानां तु द्विविधोपास्त्यभावतः ।
अचिन्मिश्रोपासनाच्च तत्क्रतुन्यायतो नहि ॥ 257 ॥

अर्चिरादिगतिर्ब्रह्मसंप्राप्तिरत एव च ।
उक्तन्यायादेव तेषामवर्ज्या पुनरागतिः ॥ 258 ॥

पञ्चाग्न्युपासने जीवो विशेष्यो यत एव हि ।
तन्निष्ठानां मार्गमध्ये कैवल्यप्राप्तिरिष्यते ॥ 259 ॥

यथाकालं च तत्स्थानात् ऊर्ध्वमर्चिर्मुखा गतिः ।
ब्रह्मप्राप्तिरनावृत्तिस्सिध्यत्येषा प्रमाणतः ॥ 260 ॥

(सि.सू) ॥ विशेषं च दर्शयति ॥ ( 4-3-15 )

यावन्नाम्नो गतमिति श्रुतिर्दर्शयति स्फुटम् ।
प्रतीकध्यायिना तेषामर्चिराद्यनपेक्षणम् ॥ 261 ॥

स्वल्पं फलविशेषं च, तस्मादुक्तार्थसङ्गतिः ।
ब्रह्मणा सह ते सर्व इत्युक्तिः पुण्यकर्मणा ॥ 262 ॥

हिरण्यगर्भं तदुपर्यपिनीतितः ।
तत्रैवाभ्यस्तविद्यानां ब्रह्मसंप्राप्तिसूचिका ॥ 263 ॥

तदप्रतीकध्यातॄन् वै प्रागुक्तान् द्विविधानपि ।
नयत्यर्चिर्मुखगणः इति सर्वं समञ्जसम् ॥ 264 ॥

॥ इति कार्याधिकरणम् ॥

॥ इति चतुर्थाध्याये तृतीयः पादः ॥

॥ चतुर्थाध्याये चतुर्थः पादः ॥

॥ संपद्याविर्भावाधिकरणम् ॥ ( 4.4.1 )

(सि.सू) ॥ संपद्याविर्भावः स्वेनशब्दात् ॥ ( 4-4-1 )

पूर्वपादे, प्रस्थितस्य विदुषोऽर्चिर्मुखाध्वना ।
सूरिणाऽमानवाख्येन ब्रह्मप्रापणमीरितम् ॥ 265 ॥

चतुर्थपादेनैतेन मुक्तैश्वर्यं निरूप्यते ।
एवमेवैष इत्यादिवाक्यं यत् सामनि श्रुतम् ॥ 266 ॥

किमनेन स्वरूपाविर्भावो जीवस्य कथ्यते ।
उत ब्रह्मोपसंपत्त्या साध्याकारपरिग्रहः ॥ 267 ॥

(पू) इति प्राप्ते स्वरूपस्य निरानन्दत्वदर्शनात् ।
सुषुप्त्यादौ, तस्य नित्यमाविर्भूतत्वतोपि च ॥ 268 ॥

सुखैकान्तापूर्वरूपसंबन्धोऽनेन कथ्यते ।
अभिनिष्पद्यत इति वचोऽतस्सङ्गतं भवेत् ॥ 269 ॥

रसं ह्येवायमित्यस्य सुखानन्त्यमतश्श्रुतम् ।
(सि) इति चेन्न परं ज्योतिस्संपद्यैतस्य कथ्यते ॥ 270 ॥

स्वरूपाविर्भाव एव स्वेनेत्यत्र विशेषणात् ।
आगन्तुकाकारयोगे व्यर्थं तद्धि विशेषणम् ॥ 271 ॥

तदभावेऽपि तस्यात्र स्वीयरूपत्वसिद्धितः ।
(अव) यदुक्तं स्वस्वरूपस्य नित्यप्राप्तत्वतो वचः ॥ 272 ॥

अभिनिष्पद्यत इति व्यर्थमित्यत्र कथ्यते ।
(सि.सू) ॥ मुक्तः प्रतिज्ञानात् ॥ ( 4.4.2 )

कर्मतत्कृतदेहादिमुक्तः स्वाभाविकाकृतिः ॥ 273 ॥

अभिनिष्पद्यत इति श्रुत्याऽत्र प्रतिपाद्यते ।
अतो नित्यं स्वरूपस्य प्राप्तस्यापि ह्यविद्यया ॥ 274 ॥

तिरोहितस्य तन्मुक्तिरभिनिष्पत्तिरुच्यते ।
तस्या एव प्रतिज्ञानात् प्रतिपाद्यतया श्रुतौ ॥ 275 ॥

त्यक्तकर्मजदेहस्य त्यक्तावस्थात्रयस्य च ।
अत्र जीवस्वरूपस्य वक्तव्यत्वेन चासकृत् ॥ 276 ॥

एतं त्वेवेत्यादिवाक्ये प्रतिज्ञा ह्यत्र दृश्यते ।
(अव) स्वरूपमात्राविर्भावः पुरुषार्थः कथं भवेत् ॥ 277 ॥

(सि.सू) ॥ आत्मा प्रकरणात् ॥ ( 4-4-34 )

स्वरूपेणैवायमात्मा गुणाष्टकविभूषितः ।
इति प्रकरणादेव ज्ञायते प्रागुदीरितम् ॥ 278 ॥

य आत्मेति प्रकरणं जीवस्येति हि निश्चयः ।
अतस्स्वाभाविक तस्य जीवस्येदं गुणाष्टकम् ॥ 279 ॥

पूर्वं तिरोहितं ब्रह्मसंपत्त्याविर्भवत्यथ ।
नोत्पद्यते, तथा प्राह शौनको भगवानृषिः ॥ 280 ॥

यथा न क्रियते ज्योत्स्नेत्यादिग्रन्थेन हि स्फुटम् ।
अतो युक्तो विकासाख्याविर्भावो बन्धसंक्षये ॥ 291 ॥

॥ इति संपद्याविर्भावाधिकरणम् ॥

॥ अविभागेन दृष्टत्वाधिकरणम् ॥ ( 4.4.2 )

(सि.सू) ॥ अविभागेन दृष्टत्वात् ॥ ( 4.4.4 )

अविर्भूतस्वरूपस्य जीवस्य स्थान उत्तमे ।
परिपूर्णेशानुभवप्रकारोऽत्र विचिन्त्यते ॥ 282 ॥

किं मुक्तः स्वं पृथग्भूतं ब्रह्मणोऽनुभवत्युत ।
तत्प्रकारत्वेन तदविभक्तमिति संशये ॥ 283 ॥

(पू) सोऽश्नुतेऽथ यदा पश्य इत्याद्युपनिषत्सु च ।
स्मृतौ चेदं ज्ञानमिति मुक्तस्य परमात्मना ॥ 284 ॥

साहित्य-साम्य-साधर्म्य-व्यपदेशात्तदीशितुः ।
वंस्पृथग्भूतमेवानुभवतीति वचो न सत् ॥ 285 ॥

(सि) स्वात्मानमविभागेन ब्रह्मणोऽनुभवत्यसौ ।
याथातथ्येन दृष्टत्वात् मुक्तोपाधेर्निजात्मनः ॥ 286 ॥

तत्त्वमस्ययमात्माऽथ चैतदात्म्यमिदं तथा ।
य आत्मनीत्यादिवाक्यैः परमात्मात्मकं सदा ॥ 287 ॥

तच्छरीरतया तस्य प्रकारः प्रत्यगात्मनः ।
स्वरूपमिति पूर्वत्र बहुशः प्रतिपादितम् ॥ 288 ॥

अतस्सदाऽहं ब्रह्मास्मीत्येवानुभवतीश्वरम् ।
साम्यसाधर्म्यवचनं मुक्तस्य प्रत्यगात्मनः ॥ 289 ॥

स्वरूपं ब्रह्मसममित्येव वक्ति तथैव च ।
सहश्रुतिश्च मुक्तस्य प्रकारिब्रह्मणा सह ॥ 290 ॥

तद्गुणानुभवं वक्तीत्यत्र बाधो न कश्चन ।
अतो ब्रह्मापृथक्सिद्धं स्वं मुक्तोऽनुभवत्यसौ ॥ 291 ॥

॥ इत्यविभागेन दृष्टत्वाधिकरणम् ॥

॥ ब्राह्माधिकरणम् ॥ ( 4.4.3 )

(पू.सू) ॥ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ( 4.4.5 )

(अव) स्वरूपाविर्भाव उक्तः तत्स्वरूपं विचार्यते ।
जीवात्मनः स्वरूप किं गुणाष्टकयुतं किमु ॥ 292 ॥

चैतन्यमात्रमथवोभयं तदिति संशये ।
(पू) ब्रह्मसंबन्ध्यपहतपाम्मत्वादियुतं तथा ॥ 293 ॥

आविर्भवत्युपन्यासादिभ्य, इत्याह जैमिनिः ।
दह्रवाक्ये गुणा ये हि ब्रह्मयोगितया श्रुताः ॥ 294 ॥

उपन्यस्यन्त एतेऽस्मिन् जीवे वाक्ये प्रजापतेः ।
आदिनात्र स तत्रेति जक्षणाद्युक्तिरुच्यते ॥ 295 ॥

तस्मात् ज्ञानस्वरूपत्वं न जीवस्येति तन्मतम् ।
(पू.सू) ॥ चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ( 4.4.6 )

चैतन्यमेवास्य रूपं तेनैवाविर्भवत्यसौ ॥ 296 ॥

तावन्मात्रात्मकत्वादित्यौडुलोमिश्च मन्यते ।
स यथा सैन्धवेत्यादिबृहदारण्यकश्रुतौ ॥ 297 ॥

विज्ञानघन एवेति कथितादवधारणात् ।
विज्ञानमात्रमेतस्य स्वरूपमवगम्यते ॥ 298 ॥

हतपाप्मत्वादिशब्दा विकाराभावतत्पराः ।
(अव) स्वसिद्धान्तं वदत्यत्र भगवान् बादरायणः ॥ 299 ॥

(सि.सू) ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ( 4.4.7 )

चैतन्यरूपत्वेप्यस्य गुणाष्टकवचोबलात् ।
गुणाष्टकस्य सद्भावावश्यकत्वात्तयोर्मिथः ॥ 300 ॥

बाधो न धीस्वरूपत्वगुणाष्टकयुतत्वयोः ।
तुल्यप्रमाणकानां हि मिथो बाधो न युज्यते ॥ 301 ॥

विज्ञानघन एवेति श्रुतौ तत्रावधारणम् ।
कृत्स्नोप्यात्मा जडान्नित्यं व्यावृत्तः स्वप्रकाशकः ॥ 302 ॥

अन्यायत्तप्रकाशोऽस्य स्वल्पदेशोऽपि नेत्यमुम् ।
अर्थं वक्त्यत्र दृष्टान्तवाक्यादेवं प्रतीयते ॥

ज्ञाते लवणखण्डे हि जिह्वयैकरसेऽपि न ।
चक्षुरादिज्ञातरूपकाठिन्यादि विरुध्यते ॥ 304 ॥

यथा च रसभेदेऽपि फलादौ स्थलभेदतः ।
तस्मिंस्तु सैन्धवघने सर्वत्रैकरसाढ्यता ॥ 305 ॥

तथाऽऽत्मनोऽपि सर्वत्र ज्ञानमात्रस्वरूपता ॥

तस्मादुभयरूपेणैवाविर्भाव इति स्थितम् ॥ 306 ॥

॥ इति ब्राह्माधिकरणम् ॥

॥ सङ्कल्पाधिकरणम् ॥ ( 4.4.4 )

(सि.सू) ॥ सङ्कल्पादेव तच्छØतेः ॥ ( 4.4.8 )

गुणाष्टकाविर्भावः प्राक् मुक्तस्योक्तोऽत्र चान्तिमम् ।
सत्यसङ्कल्पत्वगुणमधिकृत्याऽत्र चिन्त्यते ॥ 307 ॥

स तत्र पर्येतीत्यादि मुक्तमुद्दिश्य पठ्यते ।
तत्र ज्ञात्याद्याप्तिरुक्ता किं प्रयत्नान्तरान्विता ॥ 308 ॥

उत संङ्कल्पमात्रेण परस्येवेति संशये ।
(पू) राज्ञामपीष्टसंप्राप्तौ सत्येच्छत्वप्रथाजुषाम् ॥ 309 ॥

प्रयत्नदर्शनाल्लोके मुक्तस्यापि तथेति चेत् ।
(सि) मैवमेतस्य तत्प्राप्तिः सङ्कल्पादेव सिद्ध्यति ॥ 310 ॥

स यदीत्यत्र सङ्कल्पादेवास्येत्यादिवाक्यतः ।
अत्रावधारणान्नान्यापेक्षत्वं खलु सिद्ध्यति ॥ 311 ॥

यत्नसापेक्षत्ववादिश्रुतिर्ह्यत्र न दृश्यते ।
ययाऽत्राप्येवकारस्य व्यवस्थोच्येत पूर्ववत् ॥ 312 ॥

(सि.सू) ॥ अत एव चानन्याधिपतिः ॥ ( 4.4.9 )

अमोघेच्छो यतो मुक्तोऽन्याधिपतिरप्यतः ।
अनन्याधिपतित्वं च भवेत् कर्मानधीनता ॥ 313 ॥

तत एवास्य मुक्तस्य स स्वराङ्भवतीति च ।
अकर्मवश्यतारूपस्वराट्त्वमपि पठ्यते ॥ 314 ॥

॥ इति सङ्कल्पाधिकरणम् ॥

॥ अभावाधिकरणम् ॥ ( 4.4.5 )

(पू.सू) ॥ अभावं बादरिराह ह्येवम् ॥ ( 4.4.10 )

सङ्कल्पादेव पित्रादिसृष्टिर्मुक्तस्य भाषिता ।
तस्य तस्मिंश्च सङ्कल्पे विशेषेऽत्र निरूप्यते ॥ 315 ॥

मुक्तस्य देहेन्द्रियादि किमस्त्युत तत् किमु ।
यथेच्छमस्ति तन्नास्ति चेति प्राप्तेऽत्र संशये ॥ 316 ॥

देहाद्यभावं मुक्तस्य मन्यते बादरिर्गुरुः ।
नह वै सशरीरस्य सत इत्यादिका श्रुतिः ॥ 317 ॥

शरीरयोगे दुःखस्यावर्ज्यतामभिधाय च ।
अस्माच्छरीरादिति च मुक्तस्याह ह्यदेहताम् ॥ 318 ॥

(पू.सू) ॥ भावं जैमिनिर्विकल्पामननात् ॥ ( 4.4.11 )

शरीरेन्द्रियसद्भावं मन्यते जैमिनिर्गुरुः ।
विकल्पामननादेतस्यैकधा भवति त्रिधा ॥ 319 ॥

पञ्चधा सप्तधेत्यादिवैविध्यं श्रूयते खलु ।
नाऽच्छेद्यात्मस्वरूपस्याऽनेकधात्वं हि संभवेत् ॥ 320 ॥

तस्मादनेकधात्वं तद्देहस्थमिति निश्चयः ।
अदेहत्ववचः कर्म शरीराभावतत्परम् ॥ 321 ॥

(सि.सू) ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ( 4.4.12 )

सङ्कल्पादेव मुक्तं तं सदेहं चाशरीरिणम् ।
मन्यते द्वादशाहाख्यक्रतुवत् बादरायणः ॥ 322 ॥

स यथोपैति-यजति-चोदनाभ्यां द्विधा भवेत् ।
सङ्कल्पभिदया सत्रमहीनं च, तथाऽत्र च ॥ 323 ॥

(अव) यदा देहादिसामग्री तदा सृष्टाऽऽत्मनैव सा ।
इत्येवं नियमो नास्तीत्युत्तरे सूत्र उच्यते ॥ 324 ॥

(सि.सू) ॥ तन्वभावे सन्ध्यवदुपपत्तेः ॥ ( 4.4.13 )

स्वेनैव सृष्टदेहादेरभावे परमात्मना ।
सृष्टेन तेन भोगोपपत्तेर्न सृजति स्वयम् ॥ 325 ॥

सत्यसङ्कल्पोपि, यथा स्वप्ने च परमात्मना ।
सृष्टैः अथ रथानित्याद्युक्तैस्तैर्भोगसाधनैः ॥ 326 ॥

बद्धो भुङ्क्ते तथा मुक्तोपीशसृष्टैः स्वलीलया ।
पितृलोकादिभिस्तैस्तैः भुङक्ते लीलारसं स्वयम् ॥ 327 ॥

(सि.सू) ॥ भावे जाग्रद्वत् ॥ ( 4.4.14 )

सद्भावे निजसङ्कल्पसृष्टतन्वादिवस्तुनः ।
जाग्रत्पुंभोगवन्मुक्तो भुङ्क्ते लीलारसं स्वयम् ॥ 328 ॥

यथेश्वरः स्वयं भुङ्क्ते सृष्ट्वा दशरथादिकम् ।
तद्वत् सृजति मुक्तानां पित्रादीन् लीलया क्वचित् ॥ 329 ॥

मुक्ता एव कदाचित्ते सत्येच्छत्वात् स्वयं प्रभोः ।
लीलान्तर्भूतात्मपितृलोकादींश्च सृजन्ति हि ॥ 330 ॥

(अव) अथमात्माभिमानोऽणुजीवस्यानेकवर्ष्मसु ।
(सि.सू) ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ 4.4.15 ॥

यथा प्रदीपस्यैकत्र स्थितस्य स्वप्रभागुणात् ॥ 331 ॥

अनेकदेशावेशः स्यात् तथैकत्र स्थितात्मनः ।
स्वप्रभा भूत(रूप)चैतन्यादावेशः सर्ववर्ष्मसु ॥ 332 ॥

यथा चैकशरीरेऽपि हृद्देशस्थस्य चात्मनः ।
ज्ञानव्याप्त्याऽऽत्माभिमानः सर्वाङ्गेष्वपि दृश्यते ॥ 333 ॥

तथैव दर्शयत्येषा वालाग्रेत्यादिका श्रुतिः ।
(अव) श्रुतिः प्राज्ञेनात्मनेति बाह्यान्तर्ज्ञानशून्यताम् ॥ 334 ॥

मुक्तस्याऽऽहास्य सार्वज्ञ्यं कथमित्यत्र कथ्यते ।
(सि.सू) ॥ स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ ( 4.4.16 )

सुषुप्तिमृत्योरन्यतरापेक्षं तद्वचनं, न तु ॥ 335 ॥

मुक्तात्मविषयं श्रुत्यैवाविष्कृतमिदं खलु ।
नाह खल्वथ चैतेभ्यो भूतेभ्य इति च श्रुती ॥ 336 ॥

सुप्तिमृत्योरस्य निस्संवोधत्वं वदतः क्रमात् ।
सर्वं ह पश्य इत्यादिः मोक्षे सार्वज्ञ्यमाह हि ॥ 337 ॥

अतः प्राज्ञेनेतिवाक्यं न मुक्तविषयं भवेत् ।
तस्मान्मुक्तस्सदेहस्स्याददेहोपि कदाचन ॥ 338 ॥

॥ इत्यभावाधिकरणम् ॥

॥ जगद्व्यापारवर्जाधिकरणम् ॥ ( 4.4.6 )

(सि.सू) ॥ जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ ( 4.4.17 )

परब्रह्मानुभूत्यन्तर्गतदेहादिसर्जनम् ।
सङ्कल्पादेव मुक्तस्य कथितं पूर्वमत्र तु ॥ 339 ॥

सत्येच्छत्वेऽप्यस्य जगत्स्रष्टृत्वं नेति कथ्यते ।
सर्वेश्वरत्वमप्यत्र मुक्तैश्वर्यं किमुच्यते ॥ 340 ॥

अथवा परमात्मानुभव एवेति संशये ।
(पू) श्रुतौ परमसाम्योक्तेर्मुक्तस्य परमात्मना ॥ 341 ॥

सत्यसङ्कल्पतोक्तेश्च जगदीश्वरतापि च ।
मुक्तैश्वर्यं न चेदेवं श्रुत्यर्थो नोपपद्यते ॥ 342 ॥

(सि) मैवं मुक्तैश्वर्यमेतत् जगद्व्यापारवर्जितम् ।
परं प्रकृत्यैव जगत्सृष्ट्यादेरभिधानतः ॥ 343 ॥

जीवस्याप्रस्तुतत्वाच्च सृष्ट्याद्युकिं्तस्थलेऽखिले ।
यतो भूतानि जायन्ते, सदेव, ब्रह्म वा इदम् ॥ 344 ॥

एको नारायण इति बह्वीषु श्रुतिषु स्फुटम् ।
ब्रह्म प्रकृत्यैव खलु जगच्छासनमुच्यते ॥ 345 ॥

सर्वत्र तत्प्रकरणे न मुक्तस्यास्ति सन्निधिः ।
अतो जगत्कार्यवर्जं मुक्तैश्वर्यमिति स्थितम् ॥ 346 ॥

(सि.सू)॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ 4.4.18 ॥

स स्वराङ्भवतीत्यादिश्रुत्या तस्योपदिश्यते ।
जगद्व्यापार इति चेत् न धात्राद्यधिकारिणाम् ॥ 347 ॥

लोकेषु स्थितभोगोक्तेः शासनं नात्र हि श्रुतम् ।
आधिकारिकलोकस्थान् सर्वान् भोगान् परात्मनः ॥ 348 ॥

विभूतिभूतान् भुङ्क्तेऽसावित्यर्थः तच्छØतेः खलु ।
(अव) विकारान्तर्वर्तिभोगान् भुङ्क्तेऽसौ बद्धवत् यदि ॥ 349 ॥

तर्ह्यल्पमन्तवच्च स्यात् भोग्यमित्यत्र कथ्यते ।
(सि.सू) ॥ विकारावर्ति च तथाहि स्थितिमाह ॥ 4-4-19 ॥

ध्वस्ताखिलविकारं तत् ब्रह्माखिलविभूतिकम् ॥ 350 ॥

शुभैकतानं मुक्तोऽनुभवत्येषां परात्मनः ।
विभूत्यन्तर्गतत्वेन लोकानां मुक्तभोग्यता ॥ 351 ॥

निर्विकारे परे ब्रह्मण्यस्य भोक्तृतया स्थितिम् ।
यदा ह्येवैष एतस्मिन् इत्यादिश्रुतिराह हि ॥ 352 ॥

(सि.सू) ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ( 4.4.20 )

परस्यैवाखिलजगत्सृष्टिस्थित्यादिशासनम् ।
मुक्तस्य तु परात्मानुभूतिः केवलमित्यपि ॥ 353 ॥

श्रुतिस्मृती दर्शयतो भीषास्माद्वात इत्यथ ।
एतस्य वा अक्षरस्ये त्यादिश्रुतिरथ स्मृतिः ॥ 354 ॥

विष्टभ्याहमिदं कृत्स्न मेवमादिस्तथाऽत्र च ।
मुक्तस्यानन्दहेतुस्स पर एवेति चाहतुः ॥ 355 ॥

एष ह्येवानन्दयाति, मां चेति स्फुटमेव ते ।
अतः परमसाम्यं च सत्यसंङ्कल्पतापि च ॥ 356 ॥

जगद्व्यापारवर्जं वै मुक्तात्मन इति स्थितम् ।
(सि.सू) ॥ भोगमात्रसाम्यलिङ्गाच्च ॥ ( 4-4-21 )

मुक्तस्य सोऽश्नुते सर्वान्कामानिति यजुश्श्रुतौ ॥ 357 ॥

ब्रह्मानुभूत्याख्यभोगमात्रे तत्साम्यभाषणात् ।
लिङ्गाच्च, तत्कार्यवर्जं मुक्तैश्वर्यं प्रतीयते ॥ 358 ॥

(अव) मुक्तैश्वर्यं परायत्तं यदि, तर्हि परः पुमान् ।
स्वतन्त्रः स्वेच्छया मुक्त पुनरावर्तयेदपि ॥ 359 ॥

कदाचिदिति शङ्कायास्समाधानमिहोच्यते ।
(सि.सू) ॥ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ( 4-4-22 )

मुक्तस्यापुनरावृत्तिः शब्दादेवावगम्यते ॥ 360 ॥

यथा सर्वगुणोपेतो जगज्जन्मादिकारणम् ।
परमात्माऽस्तीति शब्दप्रमाणेनावगम्यते ॥ 361 ॥

तथोपासनसंप्रीत उपासीनानपि स्वयम् ।
अविद्यां विनिवर्त्याऽथानन्दं स्वानुभवात्मकम् ॥ 362 ॥

प्रापय्य नावर्तयतीत्येवं तेनैव बोध्यते ।
स खल्वेवं वर्तयन्नित्यादिश्शब्दस्तथैव च ॥ 363 ॥

मामुपेत्य-पुनर्जन्म नेत्यादि भगवद्वचः ।
निर्गतातिशयानन्दं ब्रह्मानुभवतोऽस्य च ॥ 364 ॥

उच्छिन्नकर्मबन्धस्याऽऽवृत्तिर्न स्वेच्छया भवेत् ।
परश्च सत्यसङ्कल्पो ह्यत्यर्थप्रियमात्मनः ॥ 365 ॥

विमुक्तं ज्ञानिनं लब्ध्वा जातु नावर्तयिष्यति ।
श्रीगीतायां स च मम प्रिय इत्याह हि स्वयम् ॥ 366 ॥

तस्यात् सर्वप्रकारेण नास्याऽऽवृत्तिरिति स्थितम् ।
सूत्राभ्यासो द्योतयति शास्त्रस्य परिपूर्णताम् ॥ 367 ॥

इत्थमाचार्योपदिष्टानर्थानलिखमादरात ।
शब्दार्थदोषान् विबुधाः क्षमन्तां साहसं च मे ॥ 368 ॥

॥ इति चतुर्थाध्याये चतुर्थः पादः ॥

॥ इति चतुर्थाध्यायः ॥

॥ शास्त्रं च परिसमाप्तम् ॥

परं श्रीमानखिलजगदङ्गोऽयमनघः

हितं भक्तिर्न्यासः फलमपि च तत्प्राप्तिरिति यः ।
मतं नैजं सूत्रैर्व्यवृणुत महाभारतगिराऽप्यसौ

विष्णुर्व्यासो मम मनसि नित्यं निवसतात् ॥ 369 ॥

देवेभ्यश्चिरभोगसाधन सुधादानेन पूर्वं हरिः

योषिद्रूपमुपेत्य चेतसि समुद्भूतामतृप्तिं क्षिपन् ।
भूत्वा यद्गुरुरुत्तमाश्रममवाप्याम्नायसिन्धूद्भवां

मुक्त्यै भाष्यसुधामदात् क्षितिसुरेभ्यस्तं यतीन्द्रं भजे ॥ 370 ॥

विद्यां न्यासपदेरितां रघुयदुश्रेष्ठादृतां वैदिकीं

दैत्येन व्यथितामुदीक्ष्य कलिना तच्छ्रेष्ठयुग्माकृतिः ।
भूत्वा यत्गुरुराट् द्विपाद्रिनिलयः ग्रन्थैः शरैरद्भुतैः

जित्वा तं भुवि तां ररक्ष तमहं श्रुत्वन्तसूरिं श्रये ॥ 371 ॥

बहुविधदुरिताब्धिं मां दृषत्कल्पमज्ञं

पदकमलरजस्संस्पर्शदानात् दयालुः ।
विगतदुरितमग्र्यश्रेयसोर्हं वितेने

रघुपतिमपरं तं राघवार्यं भजेऽहम् ॥ 372 ॥

गतर्तुबाणखशरे कलौ मन्मथहायने ।
कृतैषा श्रीवासकृतिः जीयादाचन्द्रतारकम् ॥ 373 ॥

॥ इति श्रीशारीरककारिकावली समाप्ता ॥

श्रीमते राघवार्यमहादेशिकाय नमः ॥

श्रीमते श्रीवेदान्तरामानुजमहादेशिकाय नमः ॥

श्रीरङ्गरामानुज महादेशिकाय नमः ॥

अस्मद्गुरुपरम्परायै नमः ॥

श्री महादेवी-नायिकासमेत-श्रीदेवाधिराजपरब्रह्मणे नमः ॥

॥ श्रीरस्तु ॥

अनारब्धकार्याधिकरणम् ॥ (4-1-9)

(सि - सू) अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ (4-1-15)

विद्योत्पत्तेः पूर्वकृतपुण्यदुष्कृतकर्मणोः ।
प्रङ् नाशः कथितस्तत्र विशेषाश्रवणाछØतौ ॥ 68 ॥

सर्वेषां कर्मणां नाशः इति वादोऽत्र वार्यते ।
निःशेषतो विनाशः किं पूर्वपुण्याघयोरथ ॥ 69 ॥

फलदानायाप्रवृत्तकर्मणोरिति संशये ।
सर्वे प्रदृयन्त इति विशेषाश्रवणात् श्रुतौ ॥ 70 ॥

निःशेषेण विनाशस्तत्कर्मणोरिति चेन्न तत् ।
फलदानायाप्रवृत्ते कर्मणी एव नश्यतः ॥ 71॥

न कर्म तत्प्रवृत्तं तु तस्य ताव दिति श्रुतौ ।
शरीरमोक्षपर्यन्तविलम्बश्रवणात्तथा ॥ 72 ॥

सर्वकर्मविनाशे च शरीरस्थित्यसंभवात् ।
अतो विनाशोऽप्रवृत्तफलपुण्याघयोर्भवेत् ॥ 73 ॥

॥ इत्यनारब्धकार्याधिकरणम् ॥ ॥ अग्निहोत्राद्यधिकरणम् ॥ (4-1-10)

(सि - सू) अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ (4-1-16)

प्राग्विद्योत्तरपुण्यानामश्लेषः कथितस्ततः ।
पुण्यकर्मफलेच्छाया अभावे नित्यकर्मणाम् ॥ 74 ॥

अननुष्ठेयताशङ्का वार्यतेऽधिकृताविह ।
पुण्यत्वसाम्येनैवाग्निहोत्राद्याश्रमकर्मणाम् ॥ 75 ।
कार्याश्लेषादकार्याणि तानीत्येतन्न युज्यते ।
अग्निहोत्रादिकर्मैतत् नित्यनैमित्तिकात्मकम् ॥ 76 ॥

विद्योत्पत्त्याख्यकार्यार्थमैवानुष्ठेयमन्वहम् ।
तमेतं वेदे ति तस्य तत्कार्यार्थत्वदर्शनात् ॥ 77 ॥

विद्योत्पत्तिर्न सिद्ध्येद्धि तत्त्यागे दूषितात्मनः ।
विद्या साऽऽवर्तनीया हि यावज्जीव दिने दिने ॥ 78 ॥

अर्थोऽयं च स खल्वेवं वर्तय न्निति कथ्यते ।
अतो विद्योत्पत्तये वै कार्यमाश्रमकर्म तत् ॥ 79 ॥

(अव) अग्निहोत्रादि कृत्यास्ताः विद्योत्पत्तिफला यदि ।
प्राचीनं सुकृतं चापि विनष्टमुपभोगतः ॥ 80 ॥

भुक्तशिष्टं तदारब्धफलं वाक्यस्य को भवेत् ।
विषयः सुहृदस्साधुकृत्या मित्यत्र कथ्यते ॥ 81 ॥

(सि - सू) अतोऽन्यापि ह्येकेषामुभयोः ॥ (4-1-17)

अग्निहोत्राद्याश्रमीयसाधुकृत्येतरापि हि ।
विद्याप्तेः प्रागुत्तरयोरुभयोः पुण्यकर्मणोः ॥ 82 ॥

बलिष्ठकर्मसंरुद्धफला कामनया कृता ।
अनन्ता संभवेत् साधुकृत्या तद्विषयं वचः ॥ 83 ॥

तस्य पुत्रा दाय मिति केषाञ्चिच्छाखिनां तथा ।
विद्ययाऽश्लेषनाशोक्तिरपि तद्विषयैव हि ॥ 84 ॥

अव कर्मणोऽनुष्ठितस्यापि फलसंरोधसंभवात् ।
स्मारयत्यत्र पूर्वोक्तं यदेवे त्यादिसूत्रतः ॥ 85 ॥

(सि - सू ) यदेव विद्ययेति हि (4 - 1 - 18)

यदेव विद्यये त्युक्तसुद्गीथोपासनस्य हि ।
फलं क्रतुफलोत्पत्तिशैघ्र्यभङ्गनिवर्तनम् ॥ 86 ॥

अतस्संरुद्धफलकपुण्यस्यैवाप्तंसक्रमः ।
तस्मादाश्रमधर्मास्ते कर्तव्या विदुषाऽऽदरात् ॥87 ॥

॥ इत्यग्निहोत्राद्यधिकरणम् ॥

इतरक्षपणाधिकरणम् ॥ (4 - 1 - 11)

(सि - सू) भोगेन त्वितरे क्षपयित्वाथ संपद्यते ॥ (4 - 1 - 15)

प्राक् पुण्यपापयोर्नाशः उक्तोऽनारब्धकार्ययोः ।
आरब्धकार्येयोर्नाशे विशेषोऽत्र प्रदर्श्यते ॥ 88 ॥

फलदानप्रवृत्ते किं पुण्यपापे विनश्यतः ।
विद्यायोनिशरीरावसानेऽत्रानियमोऽथवा ॥ 89 ॥

तद्देहान्तेऽन्यदेहान्ते वेति प्राप्तेऽत्र संशये ।
(पू) तस्य ताव दिति श्रुत्यां ब्रह्मप्राप्तवुपासितुः ॥ 90 ॥

तद्देहपातावधिकविलम्बस्यैव संश्रुतेः ।
तच्छरीरावसाने वै तन्नाश इति चेन्न तत् ॥91 ॥

सि फलदानप्रवृत्ते भोगेनैव विनाश्य च ।
अथ संपद्यते ब्रह्म नाशासंभवतस्तयोः ॥ 92 ॥

फलभोगं विनारब्धफलयोरेकदेहतः ।
फलानुभव इत्यत्रनियमात् येन वर्ष्मणा ॥ 93 ॥

फलभोगसमाप्तिः स्यात् तदन्ते नाश एतयोः ।
तस्य ताव च्छØतिरभिप्रैति कर्मविमोक्षणम् ॥ 94 ॥

अतश्चानियमो नाशे प्रारब्धफलयोस्तयोः ।
एवं चानारब्धफलमभुक्तं प्रागनुष्ठितम् ॥ 95 ॥

अनन्तं चानादिकालसञ्चितं द्विविधं च तत् ।
विद्यामहिमतो नश्यत्यनन्तरकृतं च तत् ॥ 96 ॥

प्रामादिकं दुष्कृतं तु न श्लिष्यति विदुष्यथ ।
नष्टं तदीयपुण्यं च पापं मित्रारिसङ्गतम् ॥ 97 ॥

फलमस्मै न दास्यामि पुण्यदुष्कृतकर्मणोः ।
एवं परस्य सङ्कल्पस्तयोर्नाश इतीर्यते ॥ 98 ॥

मित्रारिसंक्रमश्चापि सुहृदे विदुषोऽस्य च ।
दास्ये पुण्यफलं पापफलं चास्यैव शत्रवे ॥ 99 ॥

एवं परात्मसङ्कल्पः. देहे तिष्ठति योगिनः ।
विद्यामाहात्म्यसंभूतं फलं पादेऽत्र चिन्तितम् ॥ 100 ॥

इति इतरक्षपणाधिकरणम् ॥

॥ इति चतुर्थाऽध्याये प्रथमः पादः ॥

॥ चतुर्थाध्याये द्वितीयः पादः ॥

वागाधिकरणम् ॥ (4 -2 - 1)

(सि - सू) वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ( 4-2-1)

अनुष्ठितोपासनस्य विदुषः पुण्यपापयोः ।
नाशरूपं पूर्वपादे विद्याफलमुदीरितम् ॥ 101 ॥

मुमूर्षोर्विदुषो मुक्तिलोकाध्वोपक्रमात्मकः ।
नाडीप्रवेशोऽत्र पादे विद्याफलमुदीर्यते ॥ 102 ॥

आदौ शरीरादुत्क्रन्तिप्रकारः प्रतिपाद्यते ।
आम्नायते वाङ्मनसि संपद्यत इतीह किम् ॥ 103 ॥

संपद्यते वाक्स्वरूपं मनसीति निगद्यते ।
अथवा वाग्वृत्तिरेवेत्येबं प्राप्तेऽत्र्त्र संशये ॥ 104 ॥

(पू) वागिन्द्रियस्य मनसि लयो न प्रतिपाद्यते ।
इन्द्रियस्यैतस्य मनःकार्यत्वाभावतोऽपि तु ॥ 105 ॥

वाग्व्यापारस्य मनसि लयः प्रोच्यत इत्यसत् ।
(सि) वागिन्द्रियं वै मनसि संयुज्यत इतीर्यते ॥ 106 ॥

वागिन्द्रियेऽस्सिन् शान्तेऽपि मनोव्यापारदर्शनात् ।
शब्दश्च वाक्स्वरूपस्य संपत्तावेव दृश्यते ॥ 107 ॥

अकारणे लयैभावात् संपत्तिपदमत्र हि ।
संयोगरूपार्थमाह न लयार्थमसंभवात् ॥ 108 ॥

(सि - सु) अत एव सर्वाण्यनु ॥ (4-2-2)

यतो मनसि संयोगमात्रं वाचो लयो नतु ।
अत एव तदा वाचमनु सर्वेन्द्रियाणि च ॥ 109 ॥

हृदि संपद्यन्त इति तस्मादित्येवमादिका ।
श्रुतिर्युक्ता न हि हृदि सर्वेन्द्रियलयो भवेत् ॥ 110 ॥

॥ इति वागधिकरणम् ॥

मनोधिकरणम् ॥ (4-2-2)

(सि - सू) तन्मनः प्राण उत्तरात् ॥ (4-2-3)

मनस्सर्वेन्द्रियैर्युक्तं भवेत् प्राणेन संयुतम् ।
उत्तराच्च मनः प्राण इति सामनि वाक्यतः ॥ 111. ॥

(पू )मनसोऽन्नमयं सोम्य मनः इत्यादिवाक्यतः ।
पृथ्वीप्रकृतिकान्नोपादानकारणकत्वतः ॥ 112 ॥

प्राणस्याऽऽपोमय इति श्रुत्याऽप्प्रकृतिकत्वतः ।
मनसः पृथिवीद्वारा प्राणोपादानवारिषु ॥ 113 ॥

(सि) लयः स्यादित्यत्र शङ्का, तस्या एव समाहितिः ।
मनोऽन्नाप्यायितमबाप्यायितः प्राण ईरितः ॥ 114 ॥

आप्यायनं चात्र कार्यक्षमतापादनात्मकम् ।
न मनःप्राणयोरन्नाब्विकृतित्वमिहोच्यते ॥ 115 ॥

मनः प्राणौ ह्यहङ्काराकाशयोर्विकृती इति ।
तस्मात्प्राणेन मनसः संयोगः श्रुतिसंमतः ॥ 116 ॥

इति मनोधिकरणम् ॥

अध्यक्षाधिकरणम् ॥ (4-2-3)

(अव) प्राणः संयुज्यते तेजस्युत जीवेऽत्र संशये ।
(पू ) श्रुतेः प्राणस्तेजसी ति तेजस्येवेति चेन्न तत् ॥ 117 ॥

(सि) प्राणस्य करणाध्यक्षे जीवात्मन्येव युज्यते ।
उत्क्रान्तौ तस्य जीवोपगमादीनां श्रुतेरिह ॥ 118 ॥

एवमेवेत्युपगमः प्राणोऽनूत्क्रामतीति च ।
उक्तोत्क्रान्तिः प्रतिष्ठा च कस्मिन्नुत्क्रान्त इत्यपि ॥ 119 ॥

जीवे संयुज्याऽथ तद्युक्प्राणस्तेजसि युज्यते ।
इति प्राणस्तेजसीति श्रुतिराह यथैव च ॥ 120 ॥

यमुनाया गङ्गया संयुज्याऽब्धिगमनेऽपि च ।
यमुनाऽब्धिं गच्छतीति वचस्साधु तथाऽत्र च ॥ 121 ॥

इत्यध्यक्षाधिकरणम् ॥

॥ भूताधिकरणम् ॥ (4-2-4)

(सि-सू) भूतेषु तच्छØतेः (4-2-5)

(अव) प्राणस्य जीवयुक्तस्य संपत्तिस्तेजसीरिता ।
तेजोमात्रेऽथ मिलितभूतेष्वेवेति संशये ॥ 122 ॥

(पू ) तेजोमात्रश्रुतेस्तेजस्येवेति वचनं न सत् ।
(सि) पृथिवीमय इत्यादिश्रुतेर्भूतेषु युज्यते ॥ 123 ॥

सर्वभूतमयत्वं हि गन्तुर्जीवस्य कथ्यते ।
(अव) एकैकस्मिन् तेजआदौ संपत्तावपि च क्रमात् ॥ 124 ॥

उदाहृतश्रुतिर्युक्ता भवेदित्यत्र कथ्यते ॥ 125 ॥

(सि - सू) नैकस्मिन् दर्शयतो हि ॥ (4-2-6)

कार्याक्षमत्वादेकैकभूतस्यैकत्र तेजसि ॥

नैव संयुज्यते कार्याक्षमत्वं च श्रुतिस्मृती ।
स्पष्टं दर्शयत स्तासां त्रवृतं त्रिवृतं श्रुतिः ॥ 126 ॥

समेत्यान्योन्यसंयोग मिति स्मृतिरतो भवेत् ।
तेजस्त्रिवृत्कृतं तस्माद्भूतेष्वेव स युजयते ॥ 127 ॥

इति भूताधिकरणम् ॥

आसुत्युपक्रमाधिकरणम् ॥ (4-2-5)

(सि - सू) समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ (4-2-7)

(अव) विद्वत्तदन्ययोश्चेयमुत्क्रान्तिः किं समा भवेत् ।
(पू ) उताविदुष एवेति विशये विदुषोऽत्र वै ॥ 128 ॥

यदा सर्वे प्रमुच्यन्ते इत्यत्रामृतताश्रुतेः ।
(सि) उत्क्रान्त्यभावादन्यस्याऽविदुषस्सेति चेन्न तत् ॥ 129 ॥

आगत्वुपक्रमात्तुल्या सोत्क्रान्तिर्विदुषोऽपि च ।
नाड्योत्क्रम्य गतिर्ह्यस्य शतं चैके ति कथ्यते ॥ 130 ॥

यदा सर्वे प्रमुच्यन्त इत्यादि श्रुतिवाक्यतः ।
शरीरेन्द्रियसम्बन्धमदग्ध्वैव यदाप्यते ॥ 131 ॥

अधाश्लेषविनाशाख्यामृतत्वं वै तदुच्यते ।
अत्र ब्रह्माप्तिवचनं ध्यानकालिकतत्परम् ॥ 132 ॥

(सि - सू) तदापीतेस्संसारव्यपदेशात् ॥ (4-2-8)

(सि) तच्चामृतत्वं पूर्वोक्तरूपमेवोपपद्यते ।
आब्रह्माप्तिदशाप्राप्तेः संसारव्यपदेशतः ॥ 133 ॥

अर्चिर्मुखेन मार्गेण गत्वा देशं विलक्षणम् ।
यावत् ब्रह्माप्यते तावत् देहयोगाख्यसंसृतिः ॥ 134 ॥

तावदेव चिरं यावन्ने त्याद्यैर्ह्युपदिश्यते ॥ 135 ॥

(सि - सू) सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ (4-2-9)

अनुयाति यतस्सूक्ष्मं शरीरं विदुषोऽस्य च ॥

अतो बन्धो नात्र दग्धः तथा मानेन गृह्यते ।
कच्छतो देवयानेन संवादवचसेन्दुना ॥ 136 ॥

तं प्रती त्यादिना सूक्ष्मदेहवत्तोपलंभनात् ।
स चानुवर्तते तस्मात् बन्धो दग्धोऽत्र नैव हि ॥ 137 ॥

(सि - सू ) नोपमर्देनात् ॥ (4-2-10)

अतः सर्वे प्रमुच्यन्ते कामा योऽस्या दिका श्रुतिः ।
नास्य बन्धोपमर्देनामृतत्वं प्रब्रवीति हि ॥ 138 ॥

(सि - सू ) अस्यैव चोपपत्तेरूष्मा ॥ (4-2-11)

विद्यमानत्वोपपत्तेस्सूक्ष्मदेहस्य कुत्रचित् ।
मृतेः प्राग्विदुषः स्थूले क्वचिदूष्मोपलभ्यते ॥ 139 ॥

न चायं स्थूलदेहीयोऽन्यत्रास्यानुपलंभनात् ।
तत ऊष्मोपलब्धिस्सा तस्योत्क्रान्तिनिबन्धना ॥ 140 ॥

विदुषोपि समोत्क्रान्तिरागतिप्रक्रमादतः ।
(सि - सू ) प्रतिषेधादिति चेन्न शरीरात् स्पष्टो ह्येकेषाम् ॥ (4-2-12)

(पू ) विदुषश्च समोत्क्रान्तिरित्युक्तिर्नोपपद्यते ॥

श्रुतौ न तस्य प्राणा इत्युत्क्रान्तिप्रतिषेधतः ।
सि नैवं जीवादविश्लेषः प्रणानामत्र कथ्यते ॥ 142 ॥

न शरीरस्य देहादुत्क्रान्तिरत्र निषिध्यते ।
तस्याऽकामयमानस्य प्राणाः स्वस्मादुपासितुः ॥ 143 ॥

नोत्क्रामन्त्यर्चिराद्यध्वगत्यर्थं सह सन्ति हि ।
उत्क्रान्त्यपादानमग्र जीव एवेति च श्रुतौ ॥ 144 ॥

माध्यन्दिनानां स्पष्टो बि न तस्मादि ति वाक्यतः

न विश्लिष्यन्त्यतः प्राणाः आब्रह्मप्राप्त्युपासितुः ॥ 145 ॥

(सि - सू ) स्मर्यते च ॥ (4-2-13)

मूर्धन्यनाड्योत्क्रमणं स्मर्यते विदुषोऽपि च ।
ऊर्ध्वमेकः स्थितस्तेषां यो भित्वे त्यादिना स्फुदम् ॥ 146 ॥

इत्यासृत्युपक्रमाधिकरणम् ॥

परसम्पत्त्यधिकरणम् ॥ (4-2-6)

(सि - सू ) तानि परे तथा ह्याह ॥ (4-2-14)

भूतसूक्ष्माणीन्द्रियौघप्राणजीबयुतानि किम् ।
यथाकर्म यथाविद्यं स्वकार्याय प्रयन्त्यथ ॥ 147 ॥

परमात्मनि युज्यन्त इति प्राप्तेऽत्र संशये ।
(पू )- मध्ये सुखादिभोगस्यादर्शनात्परमात्मनि ॥ 148 ॥

असंयुज्यैव गच्छन्ति यथाकर्मेति चेन्न तत् ।
तादृंशि भूतसूक्ष्माणि संपद्यन्ते परात्मनि ॥ 149 ॥

तेजः परस्या मिति हि श्रुतिराह यथाश्रुति ।
कार्य कल्प्यं सुषुप्त्यादौ ब्रह्मयोगेन विश्रमः ॥ 150 ॥

यथा तद्वदिहापि स्यात् विश्रमस्थानमीश्वरः ।
भूतसूक्ष्माण्यतो हार्दे संपद्यन्त इति स्थितम् ॥ 151 ॥

इति परसंपत्त्यधिकरणम् ॥

अविभागाधिकरणम् ॥ (4-2-7)

(सि - सू ) अविभागो वचनात् ॥ (4-2-15)

सा किं हार्देऽत्र संपत्तिरुपादाने लयात्मिका ।
(पू ) उताविभागरूपेति चिन्तायां परमात्मनः ॥ 152 ॥

कारणत्वाच्च संपत्तिवचनाच्च परात्मनि ।
सि कारणापत्तिरेवेति चेन्न वाङ्मनसी त्यतः ॥ 153 ॥

संपत्तिवचनस्यैव सर्वत्राप्यनुषङ्गतः ।
अनुक्तस्याभिधानवैरूप्यासंभवादपि ॥ 154 ॥

अत्राप्यविश्लेष एव युक्तोऽर्थोऽतस्तदा भृशम् ।
श्रान्तस्य विश्रमायैव हार्दसंपत्तिरुच्यते ॥ 155 ॥

॥ इत्यविभागाधिकरणम् ॥

॥ तदोकोधिकरणम् ॥ (4-2-8)

(सि-सू) तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया ॥ (4-2-16)

विदुषोऽविदुषश्चैवं तुल्योत्क्रान्तिर्निरूपिता ।
विद्याधीनो विशेषोऽत्र तस्यां विदुष उच्यते ॥ 156 ॥

शत चैकाचे तिवाक्यश्रुता मूर्धःयया तदा ।
नाडीशतादधिकया नाड्यैव विदुषो गतिः ॥ 157 ॥

अन्यामिरेवाविदुषः इत्ययं नियमोऽत्र किम् ।
(पू) युक्तो न वेति विशये नियमस्स न युज्यते ॥ 158 ॥

नाडीनामतिसूक्ष्मत्वात् दुर्विवेचतया भृशम् ।
उपादातुमशक्यत्वात् पुंसा भूयस्त्वतोऽपि च ॥ 159 ॥

शतं चैकेति वाक्यं तूत्क्रान्तिं यादृच्छिकीं तथा ।
(सि) अनुवक्तीति चेन्नैवं हार्देशाऽऽराधनात्मकात् ॥ 160 ॥

विद्यासामर्थ्यतश्चैतदङ्गगत्यनुचिन्तनात् ।
प्रीतेनानुगृहीतोऽसौ हार्देन भवति क्षणात् ॥ 161 ॥

ततोऽस्या स्थानभूतं हृत् भवत्यग्रे प्रकाशवत् ।
एवं प्रकाशितद्वारो हार्देन परमात्मना ॥ 162 ॥

शतादधिकया नाड्या विद्वान्निष्क्रामति स्वयम् ।
नारायणो हार्द इति तैत्तिरीयादिषु स्फुटम् ॥ 163 ॥

॥ इति तदोकोधिकरणम् ॥

॥ नश्म्यनुसाराधिकरणम् ॥ (4-2-9)

(सि - सू) रश्म्यनुसारी ॥ (4-2-17)

अथैतैरेवेति वाक्य आदित्यकिरणानसौ ।
अनुसृत्यैवोर्ध्वदेशं याति विद्वानितीर्यते ॥ 164 ॥

युज्यते नियमोऽयं किमव नेत्यत्र सम्शये ।
(पू) रात्रौ मृतस्य विदुषो रश्मिसम्प्राप्त्यसम्भवात् ॥ 165 ॥

न युक्तो नियमस्तत्तु पक्षप्राप्तपरं वचः ।
(सि) नैवं रश्म्यनुसार्येव यात्यूर्ध्वं ब्रह्मवित्तदा ॥ 166 ॥

एतैरेवे त्यवधृतेः पाक्षिकत्वेऽवधारणम् ।
व्यर्थं रात्रावपि रवेः किणानुसृतिर्भवेत् ॥ 167 ॥

ग्रीष्मे निश्यप्यूष्मलब्ध्या रस्मिसत्ता हि दृश्यते ।
हेमन्ते हिमबाहुल्यादूष्मा सम्यङ्न गृह्यते ॥ 168 ॥

नाडीनां किरणानां च श्रूयते हि सदाऽन्वयः ।
अतोऽनुसृत्यैव रश्मीनाप्नोति ब्रह्मवित् परम् ॥ 169 ॥

॥ इति रश्म्यनुसाराधिकरणम् ॥

॥ निशाधिकरणम् ॥ (4-2-10)

(सि-सू) निशि नेति चेन्न संबन्धस्य यावद्देहभावित्वात् दर्शयति च (4-2-18)

रात्रौ मृतस्य विदुषो ब्रह्मसंप्राप्तिरस्ति किम् ।
(पू) उत नेत्यत्र चिन्तायां दिवाचे त्यादिना स्मृतौ ॥ 170 ॥

निशामृतेर्गार्हितत्वात् हेतुत्वाच्चाप्यधोगतेः ।
रात्रौ मृतस्यास्य नैव ब्रह्माप्तिरिति चेन्न तत् ॥ 171 ॥

(सि) कर्मसंबन्धस्य यावद्देहभावित्वतोऽस्य च ।
सिद्धैव ब्रह्मसंपत्तिः, विद्यापूर्वककर्मणाम् ॥ 172 ॥

विद्यारंभेण नष्टत्वात् अश्लेषादुत्तरैनसाम् ।
अन्त्यदेहावधित्वाच्चारब्धकार्यस्य कर्मणः ॥ 173 ॥

बन्धहेतोरभावेन ब्रह्मप्राप्तौ न संशयः ।
तावदेव चिरं यावन्न विमोक्ष्य इति श्रुतिः ॥ 174 ॥

दर्शयत्यमुमर्थं हि दिवा चे त्यादिकं वचः ।
अविद्वत्परमेवेति सर्वमत्र सुसङ्गतम् ॥ 175 ॥

॥ इति निशाधिकरणम् ॥

दक्षिणायनाधिकरणम् ॥ (4-2-11)

(सि-सू) अतश्चायनेऽपि दक्षिणे ॥ (4-2-19)

दक्षिणायन उत्क्रान्तविदुषः प्राप्तिरीशितुः ।
(पू) अस्ति नेति विचारेऽथ यो दक्षिण इति श्रुतौ ॥

परेऽयेन मृतस्यास्य चन्द्रसायुज्यभाषणात् ।
तत्प्राप्तस्यैतमेवेति पुनरावृत्तिद्रशनात् ॥ 177 ॥

भीष्मादीनामुदङ्मासप्रतीक्षादर्शनादपि ।
परेऽयने सृतस्यास्य ब्रह्माप्तिर्नेति चेन्न तत् ॥ 178 ॥

(सि) यतो हेतोर्निशि मृतस्या प्युक्ता प्राप्तिरीशितुः ।
तत एवैतस्य बन्धहेत्वभावात्परेऽयने ॥ 189 ॥

मृतस्यापि परब्रह्मप्राप्तिर्भवति तत्क्षणात् ।
चन्द्रसायुज्योक्तिरस्य विश्रमस्थानतत्परा ॥

उक्तमावृत्तिवचनमविद्वद्विषयं भवेत् ।
ब्रह्मणो महिमाप्तिश्च वाक्यशेषेऽस्य कथ्यते ॥ 181 ॥

भीष्मादीनासुदङ्मासप्रतीक्षा योगभूमतः ।
स्वेच्छामृतीनां तत्कालप्राशस्त्योद्बोधनाय वै ॥ 182 ॥

धर्मप्रवर्तनार्थं च तस्मादुक्तार्थसङ्गतिः ।
(अव) यत्र काले त्वनावृत्तिमावृत्तिमिति च स्मृतौ ॥ 183 ॥

मुमूर्षून् प्रति वै कालविशेषः प्रतिपाद्यते ।
अतश्चोक्तार्थसाङ्गत्यं कथमित्यत्र कथ्यते ॥ 184 ॥

(सि-सू) योगिनः प्रति स्मर्येते स्मार्ते चैते ॥ (4-2-20)

देवयानगतिर्या च पितृयाणगतिश्च या ।
योगाङ्गत्वेनाऽनुदिनं स्मर्तव्ये ते उभे गती ॥ 185 ॥

उद्दिश्य योगनिष्ठान् वै स्मर्येते न मृतेरिह ।
मुमूर्षोः स्मर्यते कालविशेषोऽधो हि शङ्कितः ॥ 186 ॥

नैते सृती पार्थ ? जानन् इति ह्यत्रोपसंहृतिः ।
कालाभिमानिभूयस्त्वात् यत्र काल इतीर्यते ॥ 187 ॥

अतश्च दक्षिणे निश्यप्युत्क्रान्तो ब्रह्मरन्ध्रतः ।
गृहीतार्ककरो विद्वान् गत्वोर्ध्वं ब्रह्म गच्छति ॥ 188 ॥

॥ इति दक्षिणायनाधिकरणम् ॥

॥ इति चतुर्थाध्याये द्वितीयः पादः ॥

———– ———- ———- ———

]