०६ जगद्व्यापारवर्जाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम् ॥६॥

अधिकरणार्थः

मुक्तात्मनां ब्रह्मणा परमसाम्यं भगवदसाधारणान् धर्मान्विहायैव

५४०. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ ४–४–१७ ॥

विचारोपयोगी संशयः

किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशयः।

युक्त्या पूर्वः पक्षः

किं युक्तम् ? जगदीश्वरत्वमपीति। कुतः? निरञ्जनः परमं साम्यमुपैति (मु.३.१.३) इति परमपुरुषेण परमसाम्यापत्तिश्रुतेः सत्यसङ्कल्पत्वश्रुतेश्च।

मुक्तैश्वर्यस्य जगन्नियमनाविनाभावशङ्का

न हि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्येते । अतस्सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥

सिद्धान्तः सूत्रार्थतः

एवं प्राप्ते प्रचक्ष्महे – जगद्व्यापारवर्जम् इति । जगद्व्यापारः – निखिलचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनम् । तद्वर्जं निरस्तनिखिलतिरोधानस्य निर्व्याजब्रह्मानुभवरूपं मुक्तस्यैश्वर्यम् । कुतः? प्रकरणात् – निखिलजगन्नियमनं हि परं ब्रह्म प्रकृत्याऽम्नायते – यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म (तै.भृगु.१) इति। यद्येतन्निखिलजगन्नियमनं मुक्तानामपि साधारणं स्यात्, ततश्चेदं जगदीश्वरत्वरूपं ब्रह्मलक्षणं न सङ्गच्छते; असाधारणस्य हि लक्षणत्वम् । तथा सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.१) ब्रह्म वा इदमेकमेवाग्र आसीत् तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति (बृ.३.४.११) आत्मा वा इदमेकएवाग्र आसीत् नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत (ऐत.१.१) एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी, क्षत्राणि नापो नाग्निर्न सोमो न सूर्यः स एकाकी न रमेत तस्य ध्यानान्तस्थस्यैका कन्या दशेन्द्रियाणि (महोपनिषत्.१.१) इत्यदिषु । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः (बृ.५.७.३) इत्यारभ्य य आत्मनि तिष्ठन् (शतपथ.१४.५.३०) इत्यादिषु च निखिलजगन्नियमनं परमपुरुषं प्रकृत्यैव श्रूयते । असन्निहितत्वाच्च – नचैतेषु निखिलजगन्नियमनप्रसङ्गेषु मुक्तस्य सन्निधानमस्ति; येन जगद्व्यापारस्तस्यापि स्यात् ॥

मुक्ते जगद्व्यापारस्य श्रीतत्वशङ्कापरिहारौ

५४१. प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ ४–४–१८ ॥

स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) इमान् लोकान् कामान्नी कामरूप्यनुसंचरन् (तै.भृगु,१०.५) इति प्रत्यक्षेण – श्रुत्या मुक्तस्य जगद्व्यापार उपदिश्यते; अतो न जगद्व्यापारवर्जमिति चेत् तन्न, आधिकारिकमण्डलस्थोक्तेः; आधिकारिकाः अधिकारेषु नियुक्ता हिरण्यगर्भादयः; मण्डलानि तेषां लोकाः; तत्स्थाः भोगाः मुक्तस्याकर्मवश्यस्य भवन्तीत्ययमर्थः तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) इत्यादिनोच्यते । अकर्मप्रतिहतज्ञानो मुक्तो विकारलोकान् ब्रह्मविभूतिभूताननुभूय यथाकामं तृप्यतीत्यर्थः । तदेवं विकारान्तर्वर्तिनः आधिकारिकमण्डलस्थान् सर्वान् भोगान् ब्रह्मविभूतिभूताननुभवतीत्यनेन वाक्येनोच्यते; न जगद्व्यापारः ॥१८॥

मुक्तभोगस्य अन्तवत्त्वशङ्कायाः परिहारः

यदि संसारिवन्मुक्तोऽपि विकारान्तर्वर्तिनो भोगान् भुङ्क्ते, तर्हि बद्धस्येव मुक्तस्याप्यन्तवदेव भोग्यजातमल्पं च स्यात्; तत्राह –

५४२. विकारावर्ति च तथा हि स्थितिमाह ॥ ४–४–१९ ॥

विकारे – जन्मादिके न वर्तत इति विकारावर्ति; निर्धूतनिखलविकारं निखिलहेयप्रत्यनीक-कल्याणैकतानं, निरतिशयानन्दं, परं ब्रह्म सविभूतिकं, सकलकल्याणगुणमनुभवति मुक्तः । तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकनामपि मुक्तभोग्यत्वम् । तथाहि परस्मिन् ब्रह्मणि निर्विकारेऽनवधिकातिशयानन्दे मुक्तस्यानुभवितृत्वेन स्थितिमाह श्रुतिः – यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति (तै.अन.७.२.१) रसो वै सः रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति (तै.आन.७-२,१) इत्यादिका । तद्विभूतिभूतं च जगत्तत्रैव वर्तते तस्मिन्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इति श्रुतेः।

कामचारश्रुतेः जगद्व्यापारपरत्वाभावः

अतस्सविभूतिकं ब्रह्मानुभवन्विकारान्तर्वर्तिनः आधिकारिकमण्डलस्थानपि भोगान् भुङ्क्त इति सर्वेषु लोकेषु कामचारः (छा.७.२५.२) इत्यादिनोच्यते; न मुक्तस्य जगद्व्यापारः॥१९॥

श्रुति-स्मृतिभ्यां जगन्नियमनस्य परमात्मासाधारणता

५४३. दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ४–४–२० ॥

अस्य प्रत्यगात्मनो मुक्तस्य नियाम्यभूतस्य नियन्तृभूतपरमपुरुषासाधारणं जगद्व्यापाररूपं नियमनं न सम्भवतीत्युक्तम्; निखिलजगन्नियमनरूपो व्यापारः परमपुरुषासाधारण इति दर्शयतः श्रुतिस्मृती – भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः (तै.आन.८.१) इति, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ.५.८.९) इत्यादि; तथा एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय (बृ.६.४.२२) इति च श्रुतिः। स्मृतिरपि मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते (भ.गी.९.१०) इति, विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२) इति च । तथा मुक्तस्य सत्यसङ्कल्पत्वादिपूर्वकस्याप्यानन्दस्य परमपुरुष एव हेतुरिति श्रुतिस्मृती दर्शयतः । एष ह्येवानन्दयाति (तै.आन.७-२१) मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते। ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च (भ.गी.१४.२६,२७) इति ।

अन्याधीनत्व-नित्यत्वयोर्विरोधशङ्का-परिहारौ

यद्यप्यपहतपाप्मत्वादिः सत्यसङ्कल्पत्वपर्यन्तो गुणगणः प्रत्यगात्मनः स्वाभाविक एवाविर्भूतः – तथाऽपि तस्य तथाविधत्वमेव परमपुरुषायत्तम्; तस्य नित्यस्थितिश्च तदायत्ता; परमपुरुषस्यैतन्नित्यतायाः नित्येष्टत्वान्नित्यतया वर्तत इति न कश्चिद्विरोधः । एवमेव परमपुरुषभोगोपकरणस्य लीलोपकरणस्य च नित्यतया शास्त्रावगतस्य परमपुरुषस्य नित्येष्टत्वादेव तथाऽवस्थानमस्तीति शास्त्रादवगम्यते । अतो मुक्तस्य सत्यसङ्कल्पत्वं परमपुरुषसाम्यं च जगद्व्यापारवर्जम्॥२०॥

मुक्तैश्वर्यस्य जगद्व्यापारवर्जत्वे भोगसाम्यश्रुतिः

५४४. भोगमात्रसाम्यलिङ्गाच्च ॥ ४–४–२१ ॥

ब्रह्मयाथात्म्यानुभवरूपभोगमात्रे मुक्तस्य ब्रह्मसाम्यप्रतिपादनाच्च लिङ्गाज्जगद्व्यापारवर्जं इत्यवगम्यते सोऽश्नुते सर्वान् कामान् सह ब्रह्मण विपश्चिता (तै.आन.१.२) इति । अतो मुक्तस्य परमपुरुषसाम्यं सत्यसङ्कल्पत्वं च परमपुरुषासाधारणनिखिलजगन्नियमनश्रुत्यानुगुण्येन वर्णनीयमिति जगद्व्यापारवर्जमेव मुक्तैश्वर्यम्॥२१॥

मुक्तैश्वर्यस्य परमपुरुषायत्तत्वेऽपि न जीवस्य पुनरावृत्तिशङ्का

यदि परमपुरुषायत्तं मुक्तैश्वर्यम्, तर्हि तस्य स्वतन्त्रत्वेन तत्सङ्कल्पान्मुक्तस्य पुनरावृत्तिसम्भवा शङ्केत्यत्राह –

५४५. अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ४–४–२२ ॥

यथा निखिलहेयप्रत्यनीककल्याणैकतानो जगज्जन्मादिकारणं समस्तवस्तुविलक्षणः सर्वज्ञः सत्यसङ्कल्प; आश्रितवात्सल्यैकजलधिः, परमकारुणिकः, निरस्तसमाभ्यधिकसम्भावनः, परब्रह्माभिधानः, परमपुरुषोऽस्तीति शब्दादवगम्यते; एवमहरहरनुष्ठीयमानवर्णाश्रमधर्मानुगृहीत-तदुपासनरूपतत्समाराधनप्रीतः, उपासीनाननादिकालप्रवृत्तानन्तदुस्तरकर्मसञ्चयरूपाविद्यां विनिवर्त्य स्वयाथात्म्यानुभवरूपानवधिकातिशयानन्दं प्रापय्य पुनर्नावर्तयतीत्यपि शब्दादेवावगम्यते । शब्दश्च स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते (छा.८.१५.१) इत्यादिकः । तथा च भगवता स्वयमेवोक्तं मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गताः। आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते (भ.गी.८.१५,१६) इति ।

पुनरावृत्तिसम्भवशङ्कानिरासः

न चोच्छिन्नकर्मबन्धस्यासङ्कुचितज्ञानस्य परब्रह्मानुभवैकस्वभावस्य तदेकप्रियस्य अनवधिकातिशयानन्दं ब्रह्मानुभवतोऽन्यापेक्षा तदर्थारम्भाद्यसम्भवात्पुनरावृत्तिशङ्का ।

भगवत्सङ्कल्पस्य पुनरावृत्त्पादकत्वनिरासः

न च परमपुरुषस्सत्यासङ्कल्पोऽत्यर्थप्रियं ज्ञानिनं लब्ध्वा कदाचिदावर्तयिष्यति, य एवमाह प्रियो हि ज्ञाननोऽत्यर्थमहं स च मम प्रियः। उदारास्सर्व एवैते ज्ञानीत्वात्मैव मे मतम्॥ आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम्। बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते॥ वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः (भ.गी.७.१७,१८,१९) इति। सूत्राभ्यासश्शास्त्रपरिसमाप्तिं द्योतयति इति सर्वं समञ्जसम् ॥२२॥

इति श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम्॥६॥

————–

इति श्रीभगद्रामानुजिवरिचते शारीरकमीमांसाभाष्ये चतुर्थस्य फलाध्यायस्यचतुर्थः मुक्तिपादः, समाप्तश्चाध्यायः ॥४॥

शास्त्रं च परिसमाप्तम्॥

—————