श्रीशारीरकमीमांसाभाष्ये अभावाधिकरणम्॥५॥
अधिकरणार्थः
मुक्तस्यात्मनः सशरीरत्वाशरीरत्वयोर्द्वयोरपि न्याय्यतास्थापनम्
५३३. अभावं बादिरराह ह्येवम् ॥४–४–१०॥
विचारार्थः संशयः
किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उत सन्ति, अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये –
तत्र बादरेर्मतम्, सप्रमाणम्
शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यते; कुतः? आह ह्येवं – न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः (छां.८.१२.१) इति शरीरसम्बन्धे दुःखस्यावर्जनीयत्वमभिधाय अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति मुक्तस्याशरीरत्वं ह्याह श्रुतिः ॥१०॥
मुक्तात्मविषये जैमिनिमतम्
५३४. भावं जैमिनिर्विकल्पामननात् ॥ ४–४–११ ॥
मुक्तस्य शरीरेन्द्रियभावं जैमिनिराचार्यो मन्यते, कुतः? विकल्पामननात् – विविधः कल्पो विकल्पः; वैविध्यमित्यर्थः, स एकधा भवति त्रिधा भवति, पञ्चधा, सप्तधा (छा.७.२६.२) इत्यादिश्रुतेः। आत्मन एकस्यानेकधाभावासम्भवात् त्रिधाभावादयः शरीरनिबन्धना इत्यवगम्यते। अशरीरत्ववचनं तु कर्मनिमित्तशरीराभावपरम्; तदेव हि शरीरं प्रियाप्रियहेतुः॥११॥
बादरायणाशयः सिद्धान्तरूपः
भगवांस्तु बादरायणः स्वमतेन सिद्धान्तमाह –
५३५. द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ४–४–१२ ॥
सङ्कल्पादेव इत्येतदतश्शब्देन परामृश्यते; अत एव सङ्कल्पात्, उभयविधं सशरीरमशरीरं च मुक्तं भगवान् बादरायणो मन्यते; एवञ्चोभयी श्रुतिरुपपद्यते; द्वादशाहवत् – यथा द्वादशाहमृद्धिकामा उपेयुः (आप.श्रौत.सू.सोमप्रकरणे) द्वादशाहेन प्रजाकामं याजयेत् इत्युपैतियजतिचोदनाभ्यां सङ्कल्पभेदेन सत्रमहीनं च भवति॥१२॥
मुक्तौ जीवस्य भगवत्सृष्टोपकरणैपरि भोगसिद्धिः
यदा शरीराद्युपकरणवत्त्वम्; तदा तानि शरीराद्युपकरणानि स्वेनैव सृष्टानीति नास्ति नियम इत्याह –
५३६. तन्वभावे सन्ध्यवदुपपत्तेः ॥ ४–४–१३ ॥
स्वेनैव सृष्टतनुप्रभृत्युपकरणाभावे परमपुरुषसृष्टैरुपकरणैर्भोगोपपत्तेः सत्यसङ्कल्पोऽपि स्वयं न सृजति । यथा स्वप्ने अथ रथान् रथयोगान् पथस्सृजते इत्यारभ्य अथ वेशान्तान् पुष्किरण्यः स्रवन्त्यः सृजते स हि कर्ता (बृ.६.३.१०) इति य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तस्मिन्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन (कठ.२.५.८) इति ईश्वरसृष्टैः रथाद्युपकरणैर्जीवो भुङ्क्ते; तथा मुक्तोऽपि लीलाप्रवृत्तेनेश्वरेण सृष्टैः पितृलोकादिभिर्लीलारसं भुङ्क्ते॥१३॥
मुक्तौ जीवस्य स्वसृष्टैरप्युपकरणैः भोगसम्पत्तिः
५३७. भावे जाग्रद्वत् ॥ ४–४–१४ ॥
स्वसङ्कल्पादेव सृष्टतनुप्रभृतिपितृलोकाद्युपकरणभावे जाग्रत्पुरुषभोगवन्मुक्तोऽपि लीलारसं भुङ्क्ते; परमपुरुषोऽपि लीलार्थं दशरथवसुदेवादिपितृलोकादिकमात्मनः सृष्ट्वा तैर्मनुष्यधर्मलीलारसं यथा भुङ्क्ते; तथा मुक्तानामपि स्वलीलायै पितृलोकादिकं स्वयमेव सृजति कदाचित्; कदाचिच्च मुक्ताः सत्यसङ्कल्पत्वात्परमपुरुषलीलान्तर्गतस्वपितृलोकादिकं स्वयमेव सृजन्तीति सर्वमुपपन्नम् ॥१४॥
अणोरप्यात्मनः अनेकशरीराभिमानोपपादनम्
नन्वात्माऽणुपरिमाण इत्युक्तम्; कथमनेकशरीरेष्वेकस्याणोरात्माभिमानसम्भव इत्यत्राह –
५३८. प्रदीपवदावेशस्तथाहि दर्शयति ॥ ४–४–१५ ॥ (पू)
यथा प्रदीपस्यैकस्यैकस्मिन्देशे वर्तमानस्य स्वप्रभया देशान्तरावेशः तथाऽऽयत्मनोऽप्येकदेह-स्थितस्यैव स्वप्रभारूपेण चैतन्येन सर्वशरीरावेशो नानुपपन्नः; यथा चैकस्मिन्नपि देहे हृदयाद्येकप्रदेशवर्तिनोऽपि चैतन्यव्याप्त्या सर्वस्मिन् देहे आत्माभिमानः, तद्वत्। इयान्विशेषः – अमुक्तस्य कर्मणा सङ्कुचितज्ञानस्य देहान्तरेषु आत्माभिमानानुगुणा व्याप्तिर्न सम्भवति; मुक्तस्य त्वसङ्कुचितज्ञानस्य यथासङ्कल्पं आत्माभिमानानुगुणा व्याप्तिः इदम् इति ग्रहणानुगुणा च नानुपपन्ना । तथाहि दर्शयति वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयस्स चानन्त्याय कल्पते (श्वे.५.अ.९) इति। अमुक्तस्य कर्म नियामकम्; मुक्तस्य तु स्वेच्छेति विशेषः॥
ब्रह्मप्राप्तवतो ज्ञानाभावश्रुतिः, सुषुप्त्यादिदशाविषयिणी
ननु परं ब्रह्म प्राप्तस्यान्तरबाह्यज्ञानलोपं दर्शयति श्रुतिः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् (बृ.६.३.२१) इति; तत्कथं मुक्तस्य सार्वज्ञ्यमुच्यते? तत्रोत्तरं –
५३९. स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ ४–४–१६ ॥ (सि)
नेदं वचनं मुक्तिविषयम्; अपि तु स्वाप्ययसम्पत्त्योरन्यतरापेक्षम् । स्वाप्ययः – सुषुप्तिः; सम्पत्तिश्च – मरणम्, वाङ्मनसि सम्पद्यते (छां.६.८.६) इत्यारभ्य तेजः परस्यां देवतायाम् (छा.६.८.६) इति वचनात्। तयोश्चावस्थयोः प्राज्ञप्राप्तिर्निस्सम्बोधत्वं च विद्येते । अतस्तयोरन्यतरापेक्षमिदं वचनम् । सुषुप्तिमरणयोर्निस्सम्बोधत्वं, मुक्तस्य च सर्वज्ञत्वमाविष्कृतं हि श्रुत्या नाह खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि (छा.८.११.२) इति सुषुप्तिवेलायां निस्सम्बोधत्वमुक्त्वा तस्मिन्नेव वाक्ये मुक्तमधिकृत्य स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके (छा.८.१२.५) इति सर्वज्ञत्वमुच्यते । तथा सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः (छा.७.२६.२) इति च स्पष्टमेव सर्वज्ञत्वमुच्यते। तथा मरणे च निस्सम्बोधत्वम् एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति (बृ.४.४.१२) इत्युक्तम् । विनश्यति न पश्यतीत्यर्थः । अतः प्राज्ञेनाऽत्मना (बृ.६.३.२१) इति वचनं स्वाप्ययसम्पत्त्योरन्यतरापेक्षम् ॥१६॥
इति श्रीशारीरकमीमांसाभाष्ये अभावाधिकरणम् ॥५॥