श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥
अधिकरणार्थः
मुक्तौ आत्मस्वरूपाविर्भावः, विज्ञानस्वरूपेण अपहतपाप्मत्वादिना चेति
५२८. ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४–४–५ ॥
भावान्तरसङ्गतिप्रदर्शनम्
प्रत्यगात्मनः परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् ।
विचारणीयो विषयः, प्रकृतः संशयश्च
तत्र येन स्वरूपेणायमाविर्भवति; तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते। किमपहतपाप्मत्वादिकमेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोरविरोध इत्युभयरूपेणेति ।
जैमिनेर्मतानुवादः
किं तावत्प्राप्तम्? ब्राह्मेणेति जैमिनिराचार्यो मन्यते । ब्राह्मेण – अपहतपाप्मत्वादिनेत्यर्थः। अपहतपाप्मत्वादयो हि दहरवाक्ये ब्रह्मसम्बन्धितया श्रुताः । ब्राह्मेणेति कुतोऽवगम्यते? उपन्यासादिभ्यः; उपन्यस्यन्ते हि ब्रह्मगुणाः अपहतपाप्मत्वादयः प्रत्यगात्मनोऽपि प्रजापतिवाक्ये य आत्माऽपहतपाप्मा (छा.८.७.१) इत्यादिना सत्यसङ्कल्पः (छां.८.७.२) इत्यन्तेन। आदिशब्देन सत्यसङ्कल्पत्वादिगुणायत्ता जक्षणादयः जक्षत्क्रीडन्रममाणः (छा.८.१२.३) इत्यादिवाक्यावगता व्यवहारा गृह्यन्ते । अत एभ्य उपन्यासादिभ्यः प्रत्यगात्मनो विज्ञानमात्रस्वरूपत्वं न सम्भवतीति जैमिनेर्मतम् ॥५॥
औडुलोमिमतप्रदर्शनम्
५२९. चिति तन्मात्रेण तदात्मकत्वादित्यौडुलौमिः ॥ ४–४–६ ॥
चैतन्यमात्रमेवास्य स्वरूपमिति तेन रूपेणाविर्भवतीत्यौडुलोमिराचार्यो मन्यते । कुतः? तदात्मकत्वात् – तावन्मात्रात्मकत्वादस्य प्रत्यगात्मनः । स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव (बृ.६.५.१३) विज्ञानघन एव (बृ.४.४.१२) इत्यवधारणात् विज्ञानमात्रमेवास्य स्वरूपमित्यवगम्यते। अतोऽस्य गुणान्तराभावात् अपहतपाप्मा (छा.८.७.२) इत्यादयः शब्दाः विकारसुखदुःखाद्यविद्यात्मकधर्म-व्यावृत्तिपरा इति चिति तन्मात्ररूपेणाविर्भाव इत्यौडुलोमेर्मतम् ॥६॥
बादारयणस्य स्वस्य मतेन सिद्धान्तः
सम्प्रति भगवान् बादरायणः स्वमतेन सिद्धान्तमाह –
५३०. एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ४–४–७ ॥
एवमपि – विज्ञानमात्रस्वरूपत्वप्रतिपादने सत्यपि, सत्यकामत्वादीनां पूर्वोक्तानां गुणानामविरोधं बादरायण आचार्यो मन्यते । कुतः? उपन्यासात्पूर्वभावात् – औपनिषदात् य आत्माऽपहतपाप्मा (छा.८.७.१) इत्याद्युपन्यासात्प्रमाणात् पूर्वेषाम् – अपहतपाप्मत्व-सत्यकामत्वादीनां अपि भावात् विद्यमानत्वात्। तुल्यप्रमाणकानामितरेतरबाधो न युज्यत इत्यर्थः।
उक्तार्थे वस्तुविरोधपरिहारः
न च वस्तुविरोधादपहतपाप्मत्वादीनां अविद्यापरिकल्पितत्वं न्याय्यम्, विशेषाभावात् विपरीतं कस्मान्न भवति इति न्यायात् । तुल्यबलत्वे ह्यशक्यस्या-वधारणस्यान्यपरत्वमेव न्याय्यम् ॥
विज्ञानघन एवेत्यस्य तात्पर्यान्तरम्
एवमप्यविरोध इत्यभ्युपगम्य वदन् ज्ञानमात्रमेवास्य स्वरूपं नान्यत्किञ्चिदस्तीत्ययमर्थः विज्ञानघन एव (बृ.४.४.१२) इत्यादिभिर्न प्रतिपाद्यत इति मन्यते । कस्तर्हि विज्ञानघन एव (बृ.४.४.१२) इत्यवधारणस्यार्थः? कृत्स्नोऽप्यात्मा जडव्यावृत्तस्वप्रकाशः नान्यायत्तप्रकाशः स्वल्पोऽपि प्रदेशोऽस्तीत्ययमर्थो वाक्यादेव सुव्यक्तः । स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव (बृ.६.५.१३) इति ।
अविरोधस्य विशदीकरणम्
न चैवं प्रत्यगात्मनो धर्मिस्वरूपस्य कृत्स्नस्य विज्ञानघनत्वेऽप्यपहतपाप्मत्व-सत्यसङ्कल्पत्वादिधर्मसम्बन्धो वाक्यान्तरावगतो विरुध्यते; यथा सैन्धवघनस्य कृत्स्नस्य रसघनत्वे रसनेन्द्रियावगते चक्षुराद्यवगताः रूपकाठिन्यादयो न विरुध्यन्ते । इदमत्र वाक्यतात्पर्यं – यथा रसवत्स्वाम्रफलादिषु त्वगादिप्रदेशभेदेन रसभेदे सत्यपि सैन्धवघनस्य सर्वत्रैकरसत्वम्; तथाऽऽत्मनोऽपि सर्वत्र विज्ञानस्वरूपत्वम्; स्वप्रकाश-स्वरूपत्वमित्यर्थः॥७॥
इति श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥