०२ अविभागेनदृष्टत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम्

अधिकरणार्थः

मुक्तस्य मोक्षदशायां स्वानुभवः,
स्वात्म-भूत-परमात्मापृथग्-भावेनेति निरूपणम्

५२७. अविभागेन दृष्टत्वात् ॥ ४–४–४ ॥

विचारोपयोगी विषयगर्भः संशयः

किम् अयं परं ज्योतिर् उपसम्पन्नः
सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा
स्वात्मानं परमात्मनः पृथग्-भूतम् अनुभवति,
उत तत्-प्रकारतया तद्-अ-विभक्तम् – इति विशये

पूर्वः पक्षः

सोऽश्नुते सर्वान् कामान्
सह ब्रह्मणा विपिश्चता
(तै.आन.१.२)

यदा पश्यः पश्यते रुक्म-वर्णं
कर्तारम् ईशं पुरुषं ब्रह्म-योनिम्।
तदा विद्वान् पुण्यपापे विधूय
निरञ्जनः परमं साम्यम् उपैति
(मु.३.१.३)

इदं ज्ञानम् उपाश्रित्य
मम साधर्म्यम् आगताः।
सर्गेऽपि नोपजायन्ते
प्रलये न व्यथन्ति च
(भ.गी.१४.२)

इत्य्-आदि-श्रुति-स्मृतिभ्यां
मुक्तस्य परेण साहित्य-साम्य-साधर्म्यावगमात्
पृथग्-भूतम् अनुभवति-

सूत्रतः सिद्धान्तार्थः

इति प्राप्त उच्यते – अविभागेन – इति ।
परस्माद् ब्रह्मणः स्वात्मानम् अविभागेनानुभवति मुक्तः।
कुतः?
दृष्टत्वात् – पर-ब्रह्मोपसम्पत्त्या निवृत्ताविद्या-तिरोधानस्य
याथातथ्येन स्वात्मनो दृष्टत्वात् ।
स्वात्मनः स्वरूपं हि

तत्त्वमसि (छा.६.८.७)
अयमात्मा ब्रह्म (बृ.उ.६.४.५)
ऐतदात्म्यमिदं सर्वं (छां.६.८.७)
सर्वं खल्विदं ब्रह्म (छा.३-१४-१)

इत्यादि-सामानाधिकरण्य-निर्देशैः

य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो
यम् आत्मा न वेद
यस्याऽत्मा शरीरं
य आत्मानम् अन्तरो यमयति
स त आत्मा ऽन्तर्याम्य् अमृतः
(बृ.५.७.२२)

अन्तः प्रविष्टश् शास्ता जनानां सर्वात्मा (तै.आ.१.३.२१)

इत्यादिभिश् च परमात्मात्मकं तच्-छरीरतया तत्-प्रकार-भूतम् इति प्रतिपादितम्;

अवस्थितेर् इति काशकृत्स्नः (शारी.१.४.२२)

इत्यत्र।

अतोऽविभागेन अहं ब्रह्मास्मि इत्य् एवानुभवति।

साम्यादिशब्दतात्पर्यम्

साम्य-साधर्म्य-व्यपदेशो
ब्रह्म-प्रकार-भूतस्यैव प्रत्यग्-आत्मनः स्वरूपं
तत् समम् इति देवादि-प्राकृत-रूप-प्रहाणेन
ब्रह्म-समान-शुद्धिं प्रतिपादयति।
“सह”-श्रुतिस् त्व् एवंभूतस्य प्रत्यगात्मनः
प्रकारिणा ब्रह्मणा सह तद्-गुणानुभवं प्रतिपादयतीति न कश्चिद्विरोधः।

ब्रह्म-प्रकारतया तद्-अ-विभागोक्तेर् हि सङ्कल्पाद् एव तच्-छ्रुतेः (शारी.४.४.८) इत्यादि न विरुध्यते, अधिकन्तु भेदनिर्देशात् (शारी.२.१.२२) अधिकोपदेशात् (शारी.३.४.८) इत्यादि च ॥४॥

इति श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम्॥२॥