श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्येचतुर्थे फलाध्याये चतुर्थः मुक्तिपादः
पादार्थः – भक्त्यानुष्ठानतः निष्पन्नमोक्षोपायत्वात् अर्चिरादिना मार्गेण गतानां मुक्तानामैश्वर्यप्रकारस्य चिन्तनम्
सम्पद्याविर्भावाधिकरणम्॥१॥
अधिकरणार्थः
मुक्तात्मनां ब्रह्मोपसम्पत्या प्राप्यो दशाविशेषः स्वाभाविकस्वरूपाविर्भाव एव
५२४. सम्पद्याविर्भावस्स्वेनशब्दात् ॥ ४–४–१ ॥
पादसङ्गत्यर्थं पूर्वोत्तरार्थसङ्क्षेपः
परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता; इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते ।
प्रकृतविचारार्थः संशयः
इदमाम्नायते – एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति। किमस्माच्छरीरात्समुत्थाय परज्योतिरुपसम्पन्नस्य देवादिरूपवत्साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते, उत स्वाभाविकस्य स्वरूपस्याविर्भाव इति संशये,
युक्त्या पूर्वः पक्षः
साध्येन रूपेण सम्बन्ध इति युक्तम्। अन्यथा ह्यपुरुषार्थावबोधित्वं मोक्षशास्त्रस्य स्यात्, स्वरूपस्य स्वतोऽपुरुषार्थत्वदर्शनात्। न हि सुषुप्तौ देहेन्द्रियव्यापारेषूपरतेषु केवलस्यात्मस्वरूपस्य पुरुषार्थसम्बन्धो दृश्यते;
दुःखविगममात्रस्यापुरुषार्थता
न च दुःखनिवृत्तिमात्रं परं ज्योतिरुपसम्पन्नस्य पुरुषार्थः, येन स्वरूपाविर्भाव एव मोक्षः इत्युच्येत; स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य (तै.आन.८.४) रसं ह्येवायं लब्ध्वाऽनन्दी भवति (तै.आन.७.१) इत्यादिभ्यो मुक्तस्य सुखानन्त्यश्रवणात् ॥
स्वरूपस्य तिरोध्यसम्भवः
नचापरिच्छिन्नानन्दरूपचैतन्यमेवास्य स्वरूपम्, तच्च संसारदशायामविद्यया तिरोहितं परं ज्योतिरुपसम्पन्नस्याविर्भवतीति शक्यं वक्तुम्, ज्ञानस्वरूपस्य तिरोधानासम्भवात्। प्रकाशपर्यायस्य ज्ञानस्य तिरोधानं तद्विनाश एवेति हि पूर्वमेवोक्तम् ॥
स्वरूपस्य पुरुषार्थताप्रतिक्षेपः
न च प्रकाशमात्रस्याऽनन्दता सम्भवति; सुखस्वरूपता ह्यानन्दस्वरूपता, सुखस्वरूपत्वं चात्मनोऽनुकूलत्वम्; प्रकाशमात्रात्मवादिनः कस्य प्रकाशोऽनुकूलवेदनीयो भवेदिति प्रकाशमात्रात्मवादिनः कथंचिदप्यानन्दस्वरूपता दुरुपपादा।
स्वरूपनिष्पत्तिमात्रसाध्यतायां वचनानर्थक्यम्
स्वरूपापत्तिमात्रे च साध्ये स्वरूपस्य नित्यनिष्पन्नत्वादुपसम्पन्नस्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति वचनमनर्थकं स्यात् । अतोऽपूर्वेण साध्येन रूपेण सम्पद्यते। एवं च अभिनिष्पद्यते इति वचनं मुख्यार्थमेव भवति। स्वेन रूपेण (छा.८.१२.२) इत्यप्यानन्दैकान्तेन स्वासाधारणेनाभिनिष्पद्यत इति सङ्गच्छत इति।
सूत्रतः सिद्धान्तः
एवं प्राप्ते प्रचक्ष्महे – सम्पद्याविर्भावः इति। अयं प्रत्यगात्माऽर्चिरादिना परं ज्योतिरुपसम्पद्य यं दशाविशेषमापद्यते, स स्वरूपाविर्भावरूपः; नापूर्वाकारोत्पत्तिरूपः। कुतः? स्वेन शब्दात् स्वेन रूपेण (छा.८.१२.१) इति विशेषणोपादानादित्यर्थः। आगन्तुकविशेषपरिग्रहे हि स्वेन रूपेण (छां.८-१२-२) इति विशेषणमनर्थकं स्यात्, अविशेषणेऽपि तस्य स्वकीयरूपत्वसिद्धेः॥
पूर्वपक्षोक्तवचनानर्थक्याक्षेपनिरासः
यत्तूक्तं स्वरूपस्य नित्यप्राप्तत्वात् उपसम्पद्याभिनिष्पद्यते (छा.८.१२.१) इति वचनमनर्थकमिति – तत्रोत्तरं
५२५. मुक्तः प्रतिज्ञानात् ॥ ४–४–२ ॥
कर्मसम्बन्धतत्कृतदेहादिविनिर्मुक्तः स्वाभाविकरूपेणावस्थितोऽत्र स्वेन रूपेणाभिनिष्पद्यते (छां.८.१२.२) इत्युच्यते । अतो नित्यप्राप्तस्यापि स्वरूपस्य कर्मरूपाविद्यातिरोहितस्य तिरोधाननिवृत्तिरत्राभिनिष्पत्तिरुच्यते। कुतः? प्रतिज्ञानात् – सा हि प्रतिपाद्यतया प्रतिज्ञाता।
प्रतिज्ञानविशदीकरणम्
कुतः इदमवगम्यते? य आत्मा (छा.८.७.१) इति प्रकृतं प्रत्यगात्मानं जागरिताद्यवस्था-त्रितयविनिर्मुक्तं, प्रियाप्रियहेतुभूतकर्मारब्ध-शरीरविनिर्मुक्तं च प्रतिपादयितुम् एतं त्वेव ते भूयोऽनुव्याख्यास्यामि (छा.८.९.३) इति पुनःपुनरुक्त्वा एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इत्यभिधानात् । अतः कर्मणा सम्बद्धस्य परं ज्योतिरुपसम्पद्य बन्धनिवृत्तिरूपा मुक्तिः स्वेन रूपेणाभिनिष्पत्तिरुच्यते। स्वरूपाविर्भावेऽप्यभिनिष्पत्तिशब्दो दृश्यते, युक्त्याऽयमर्थो निष्पद्यते इत्यादिषु ॥२॥
स्वरूपाविर्भावस्य मोक्षशास्त्राविषयत्वशङ्कानिरासः
यच्चोक्तम् – आत्मस्वरूपस्य सुषुप्तावपुरुषार्थत्वदर्शनात्स्वरूपाविर्भावे मोक्षशास्त्रस्य अपुरुषार्थावबोधित्वं स्यादिति कृत्वा देवाद्यवस्थावत्सुखसम्बन्ध्यवस्थान्तरप्राप्तिरभिनिष्पत्तिः इति; तत्रोत्तरम् –
५२६. आत्मा प्रकरणात् ॥ ४–४–३ ॥
स्वरूपेणैवायमात्मा अपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणकः प्रकरणादवगम्यते; य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः (छा.८.७.१) इति हि प्रजापतिवाक्यप्रक्रमः ॥
प्रकरणस्य जीवात्मविषयता
इदं च प्रकरणं प्रत्यगात्मविषयमिति उत्तराच्चेदाविर्भूतस्वरूपस्तु (शारी.१.३.१८) इत्यत्र प्रतिपादितम्॥ अतोऽपहतपाप्मत्वादिस्वरूप एवायमात्मा संसारदशायां कर्माख्याविद्यया तिरोहितस्वरूपः परं ज्योतिरुपसम्पद्याविर्भूतस्वरूपो भवति । अतः प्रत्यगात्मनोऽपहतपाप्मत्वादयः स्वाभाविका गुणाः परं ज्योतिरुपसम्पन्नस्याविर्भवन्ति; नोत्पद्यन्ते;
उक्तेऽर्थे शौनकोक्तिसंवादः
यथोक्तं भगवता शौनकेनापि यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणात्क्रियते न जलाम्बरम्। सदेव नीयते व्यक्तिमसतस्सम्भवः कुतः। तथा हेयगुणध्वंसादवबोधादयो गुणाः। प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते (विष्णधर्मे.१०४-५५,५६,५७) इति । अतो ज्ञानानन्दादिगुणानां कर्मणा आत्मनि सङ्कुचितानां परं ज्योतिरुपसम्पद्य कर्मरूपबन्धक्षये विकासरूपाविर्भावो नानुपपन्न इति सुष्ठूक्तं सम्पद्याविर्भावः – इति॥३॥
इति श्रीशारीरकमीमांसाभाष्ये सम्पद्याविर्भावाधिकरणम्॥१॥