श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥
अधिकरणार्थः
अर्चिरादिपथगतस्य वरुणस्य विदुषोऽनन्तरमेव
५११. तटितोऽधि वरुणस्सम्बन्धात् ॥ ४–३–३ ॥
पूर्वोक्तार्थदृढीकरणपूर्वकं निरूपणीयांशोपस्थापनम्
कौषीतकिनां, स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् (कौषी.१.३) इत्यत्राग्निलोकशब्दस्यार्चिः पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्ध्वं निवेश उक्तः । आदित्यस्याप्यत्र प्राप्तपाठक्रमबाधेन देवलोकादादित्यमादित्याद्वैद्युतम् (बृ.८.२.१५) इति वाजसनेयकोक्तश्रुतिक्रमाद्देवलोक-शब्दाभिहिताद्वायोरुपरि निवेशस्सिद्धः। इदानीं वरुणेन्द्रादिषु चिन्ता।
विचारौपयिकः संशयः
किमेते वरुणादयो यथापाठं वायोरूर्ध्वं निवेशयितव्याः, आहोस्विद्वैद्युतोऽधीति विशये,
युक्त्या पूर्वः पक्षः
अर्चिः प्रभृतिषु सर्वेषु अर्चिषोऽहः (छा.४.१५.५) इत्यादिश्रुतिक्रमोपरोधाद्विद्युतः परस्ताच्च तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति (छा.४.१५.५) इति विद्युत्पुरुषस्य ब्रह्मगमियतृत्व-श्रवणाच्च सर्वत्रावकाशाभावेनाप्राप्तौ च उपदेशावैयर्थ्यायावश्यं कस्यचिद्बाध्यत्वे पाठक्रमानुरोधेन वायोरनन्तरं वरुणो निवेशयितव्यः। वाय्वादित्ययोः क्रमस्य बाधितत्वेनेन्द्रप्रजापती अपि ह्यत्रैव निवेशयितव्यौ –
सूत्रार्थतः सिद्धान्तः
इति प्राप्त उच्यते – तटितोऽधि वरुणः इति । वरुणस्तावद्विद्युत उपरिष्टान्निवेशयितव्यः। कुतः? सम्बन्धात् – मेघोदरवर्तित्वाद्विद्युतो वरुणेन सम्बन्धो लोकवेदयोः प्रसिद्धः। एतदुक्तं भवति – वरुणादीनामुपदेशावैयर्थ्याय क्वचिन्निवेशयितव्यत्वे सति पाठक्रमादर्थक्रमस्य बलीयस्त्वाद्विद्युतोऽधि वरुणो निवेशयितव्यः; ततश्चामानवस्य गमयितृत्वं व्यवधानसहमित्यवगम्यते। तस्य च व्यवघानसहत्वादिन्द्रादेश्चोपदिष्टस्यावश्यनिवेशयितव्यस्य वरुणादुपर्युपदिष्टत्वादागन्तूनामन्ते निवेशयितव्यत्वाच्च वरुणादुपरीन्द्रादिः निवेशयितव्य इति ॥३॥
इति श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥