श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम् ॥९॥
अधिकरणार्थः
विदुषाणां जीवानां सूर्यरश्म्यनुसारेणैव ब्रह्मप्राप्तिः
५०५. रश्म्यनुसारी ॥ ४–२–१७ ॥
विचारणीयविषयोपस्थापनम्
विदुषो हृदयात् शताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्यमण्डलगतिः श्रूयते – अथ यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते (छा.८.६.५) इति।
विचारार्थः संशयः
तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमस्सम्भवति, नेति चिन्तायां –
पूर्वपक्षः युक्त्या
निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियमः । वचनन्तु पक्षप्राप्तविषयम् –
सिद्धान्तार्थः सूत्रतः
इति प्राप्ते उच्यते – रश्म्यनुसारी – इति। रश्म्यनुसार्येव विद्वानूर्ध्वं गच्छति; कुतः? अथैतैरेव रश्मिभिः (छां.८.६.५) इत्यवधारणात्; पाक्षिकत्वे ह्येवकारोऽनर्थकस्स्यात् ।
पूर्वपक्षयुक्तेर्निरासः
यदुक्तं निशि मृतस्य रश्म्यसम्भवाद्रश्मीननुसृत्य गमनं नोपपद्यत इति; तन्न, निश्यपि सूर्यरश्म्यनुसारस्सम्भवति; लक्ष्यते हि निश्यपि निदाघसमये ऊष्मोपलब्ध्या रश्मिसद्भावः; हेमन्तादौ तु हिमाभिभवाद्दुर्दिन इवोष्मानुपलम्भः; श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वयः – तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च, एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च । अमुष्मादादित्यात्प्रतायन्ते ताः आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः इति । तस्मान्निश्यपि रश्मिसम्भवान्निशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव॥१७॥
इति श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम्॥९॥