श्रीशारीरकमीमांसाभाष्ये अविभागाधिकरणम्॥७॥
अधिकरणार्थः
जीवस्य विदुषः उत्क्रान्तौ परमात्मनि सम्पत्तिः अविभागरूपैव, न कारणापत्तिरूपा
५०३. अविभागो वचनात् ॥ ४–२–१५ ॥
सङ्गतिगर्भः विचारौपयिकः संशयः
सेयं परमात्मनि सम्पत्तिः कि प्राकृतलयवत्कारणापत्तिरूपा, उत वाङ्मनसि (छा.६.८.६) इत्यादिवदविभागरूपेति चिन्तायां –
सयुक्तिकः पूर्वः पक्षः
परमात्मनस्सर्वेषां योनिभूतत्वात्कारणापत्तिरूपा
सूत्रतः सिद्धान्तार्थः
इति प्राप्ते उच्यते – अविभागः – इति। अपृथग्भावः पृथग्व्यवहारानर्हासंसर्ग इत्यर्थः। कुतः? वचनात् । तेजः परस्यां देवतायाम् (छा.६.८.६) इत्यत्रापि वाङ्मनसि सम्पद्यते (छां.६.८.६) इत्यतस्सम्पद्यत इति वचनस्यानुषङ्गात्, तस्य च संसर्गविशेषवाचित्वात्, अनुषक्तस्याभिधानवैरूप्ये प्रमाणाभावात्। उत्क्रान्तिवेलयां कारणापत्तिप्रयोजनाभावात् पुनस्तत्राव्यक्तादिसृष्ट्यवचनाच्च ॥१५॥
इति श्रीशारीरकमीमांसाभाष्ये अविभागाधिकरणम्॥ ७॥