०६ परसम्पत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम् ॥६॥

अधिकरणार्थः

विदुषि जीवे परिष्वक्तानि भूतसूक्ष्माणि परमात्मन्येव सम्पद्यन्ते

५०२. तानि परे तथाह्याह ॥ ४–२–१४ ॥

अवान्तरसङ्गतिः

सकरणग्रामः सप्राणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्तिवेलायां तेजः प्रभृतिभूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्; सैषा सम्पत्तिर्विदुषो न विद्यत इत्याशङ्क्य परिहृतम् ॥

विचारौपयिकः संशयः

तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति, उत परमात्मनि सम्पद्यन्त इति विशये –

पूर्वः पक्षः

मध्ये परमात्मसम्पत्तौ सुखदुःखोपभोगरूपकार्यदर्शनात्, तदुपभोगानुगुण्येन यथाकर्म यथाविद्यं च गच्छन्ति ।

सूत्रतः सिद्धान्तः

इति प्राप्ते उच्यते – तानि परे – इति । तानि परस्मिन्नात्मनि सम्पद्यन्ते; कुतः? तथाह्याह श्रुतिः – तेजः परस्यां देवतायाम् (छा.६-८-६) इति । यथाह – श्रुतिस्तदनुगुणं कार्यं कल्प्यमित्यर्थः । सुषुप्तिप्रलययोर्यथा परमात्मसम्पत्त्या सुखदुःखोपभोगायासविश्रमः; तद्वदिहापि॥१४॥

इति श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम्॥६॥