श्रीशारीरकमीमांसाभाष्ये आसृत्युपक्रमाधिकरणम्
अधिकरणार्थः
देहादुत्क्रमं प्राप्नुवतोर्विद्वदविदुषोः द्वयोरपि गतिः, नाडीप्रवेशपर्यन्तं समानैव
४९५. समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ४–२–७ ॥
विचारणीयः संशयः
इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना, उताविदुष एवेति चिन्तायाम्,
पूर्वः पक्षः
अविदुष एवेति प्राप्तम्। कुतः? विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात्। विदुषो ह्यत्रैवामृतत्वं श्राव्यते – यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते (कठ.२.६.१४) इति॥
सूत्रतः सिद्धान्तः
एवं प्राप्तेऽभिधीयते- समानाचाऽसृत्युपक्रमात् – इति। विदुषोऽप्यासृत्युपक्रमात् उत्क्रान्तिस्समाना। आसृत्युपक्रमात् – आगत्युपक्रमात्, नाडीप्रवेशात्प्रागित्यर्थः। विदुषोऽपि हि नाडीविशेषेणोत्क्रम्य गतिः श्रूयते – शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति (कठ.२.६.१६) इति। एवं नाडीविशेषेण गतिश्रवणाद्विदुषोऽप्युत्क्रान्तिरवर्जनीया । सा च नाडीप्रवेशात्प्राग्विशेषाश्रवणात्समाना। तत्प्रवेशदशायां च विशेषः श्रूयते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषी वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य (बृ.६.४.२) इति शतं चैका च हृदयस्य (कठ.२.६.१६) इत्यनया श्रुत्यैकार्थ्यान्मूर्ध्नो निष्क्रमणं विद्वद्विषयम्; इतरदविद्वद्विषयम् ।
अत्र ब्रह्म समश्नुते इति श्रुत्याशयः
यदुक्तं – विदुषोऽत्रैवामृतत्वं श्राव्यते – इति;
तत्रोच्यते – अमृतत्वं चानुपोष्य – इति। चशब्दोऽवधारणे। अनुपोष्य – शरीरेन्द्रियादिसम्बन्धमदग्ध्वैव, यदमृतत्वम् – उत्तरपूर्वाघयोरश्लेषविनाशरूपं प्राप्यते; तदुच्यते यदा सर्वे प्रमुच्यन्ते (कठ.२.६.१४) इत्यादिकया श्रुत्येत्यर्थः। अत्र ब्रह्म समश्नुते (कठ.२.३.१४) इति च उपासनवेलायां यो ब्रह्मानुभवः; तद्विषयमित्यभिप्रायः॥७॥
४९६. तदापीतेस्संसारव्यपदेशात् ॥४–२–८॥
संसारस्य ब्रह्मप्राप्तिपर्यन्तता
अवश्यं च तत् – अमृतत्वमदग्धदेहसम्बन्धस्यैवेति विज्ञेयम्।
कुतः? आपीतेः संसारव्यपदेशात् – अपीतिः – अप्ययः – ब्रह्मप्राप्तिः। सा चार्चिरादिना मार्गेण देशविशेषं गत्वेति वक्ष्यते। आतदवस्थाप्राप्तेः संसारः – देहसम्बन्धलक्षणो हि व्यपदिश्यते – तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा.६.१४.२) इति अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि इति च॥ ८॥
विदुषोऽपि आब्रह्मप्राप्ति बन्धानुवृत्तिः
४९७. सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ४–२–९ ॥
इतश्च विदुषोऽपि बन्धो नात्र दग्धः; यतस्सूक्ष्मं शरीरमनुवर्तते । कुत इदमवगम्यते; प्रमाणतस्तथोपलब्धेः – उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः तं प्रतिब्रूयात् (कौ.१.२) सत्यं ब्रूयात् इति चन्द्रमसा संवादवचनेन शरीरसद्भावः । अतस्सूक्ष्मशरीरमनुवर्तते। अतश्च बन्धो न दग्धः ॥९॥
अत्र ब्रह्मेति श्रुतेः सर्वबन्धविनिर्मोक्षतात्पर्यकत्वाभावः
४९८. नोपमर्देनातः ॥ ४–२–१० ॥
अतः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते (कठ.२.६.१४) इति वचनं न बन्धोपमर्देनामृतत्वं वदति ॥१०॥
विदुषोऽपि उत्क्रमतः शरीरे ऊष्मोपलब्धेः सूक्ष्मशरीरानुवृत्तिज्ञापकता
४९९. अस्यैव चोपपत्तेरूष्मा ॥ ४–२–११ ॥
अस्य – सूक्ष्मशरीरस्य क्वचिद्विद्यमानत्वोपपत्तेर्विदुषः प्रक्रान्तमरणस्य मरणात्प्रागूष्मा, स्थूले शरीरे क्वाचित्क उपलभ्यते । न च स्थूलस्यैव शरीरस्यायमूष्मा, अन्यत्रानुपलब्धेः। ततश्चोष्मणः क्वचिदुपलब्धिर्विदुषस्सूक्ष्मशरीरस्योत्क्रान्तिनिबन्धनेति गम्यते। तस्माद्विदुषोऽपि आसृत्युपक्रमात्समानोत्क्रान्तिरिति सुष्ठूक्तम् ॥११॥
पुनरपि विदुष उत्क्रान्तिर्न सम्भवतीत्याशङ्क्य परिह्रियते –
५००. प्रतिषेधादिति चेन्न शारीरात्स्पष्टो ह्येकेषाम् ॥ ४–२–१२ ॥
विदुषो देहादुत्क्रान्ते, श्रुतिनिषिद्धत्वशङ्का
यदुक्तं विदुषोऽप्युत्क्रांन्तिस्समानेति, तन्नोपपद्यते, विदुष उत्क्रान्तिप्रतिषेधात् ।
तथाहि स एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्वपक्रामति (बृ.६-४-१) इत्युपक्रम्य तेन प्रद्योतेनैष आत्मा निष्क्रामति तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृह.६-४-१) इत्यविदुष उत्क्रान्तिप्रकारमभिधाय अन्यन्नवतरं कल्याणतरं रूपं कुरुते (बृ.६-४-४) इति देहान्तरपरिग्रहं चाभिधाय प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इति तु कामयमानः (बृ.६.४.६) इत्यविद्वद्विषयं परिसमाप्य अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति (बृ.६.४.६) इति विदुष उत्क्रान्तिः प्रतिषिध्यते। तथा पूर्वत्र आर्तभागप्रश्नेऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते अप पुनर्मृत्युं जयति (बृ.५.२.१०) इति विद्वांसं प्रस्तुत्य याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते उदस्मात्प्राणाः क्रामन्त्याहो न इति पृष्टः नेति होवाच याज्ञवल्क्योऽत्रैव समवलीयन्ते स उच्छ्वयत्याध्मातो मृतः शेते (बृह.५.२.१०) इति। अतो विद्वानिहैवामृतत्वं प्राप्नोतीति चेत् –
विदुषः उत्क्रान्तिनिषेधशङ्कायाः निरासः
तन्न, शारीरात् – प्रत्यगात्मनः प्राणानामुत्क्रान्तिर्ह्यत्र प्रतिषिध्यते; न शरीरात् न तस्य प्राणाः उत्क्रामन्ति (बृह.६.४.६) इत्यत्र तच्छब्देन अथाकामयमानः (बृह.६.४.६) इति प्रकृतश्शारीर एव परामृश्यते; नाश्रुतं शरीरम्। तस्य (बृ.६.४.६) इति षष्ठ्या प्राणानां सम्बन्धित्वेन शारीरो निर्दिष्टः; नतूत्त्क्रान्त्यपादानत्वेन; उत्क्रान्त्यपादानं तु शरीरमेवेति चेत् – न, अपादानापेक्षायामश्रुताच्छरीरात्सम्बन्धितया श्रुतस्यात्मन एव सन्निहितत्वेनापादानतयापि ग्राह्यत्वात् । किञ्च प्राणानां जीवसम्बन्धितयैव प्रज्ञातानां तत्सम्बन्धकथने प्रयोजनाभावात्सम्बन्धमात्रवाचिन्या षष्ठ्या अपादानमेव विशेष इति निश्चीयते । यथा नटस्य शृणोति इति।
उक्तार्थे विवादानवकाशप्रकाशनम्
न चात्र विवदितव्यं – स्पष्टो ह्येकेषां – माध्यन्दिनानामाम्नाये शारीरो जीव एवापादानमिति योऽकामो निष्काम आप्तकामो आत्मकाम न तस्मात्प्राणा उत्क्रामन्ति (बृ.६.४.६) इति।
उत्क्रान्तिनिषेधाप्रसक्तिशङ्का – परिहारौ
शारीरात्प्राणानामुत्क्रान्तिप्रसङ्गाभावात्तन्निषेधो नोपपद्यत इति चेत् – न, तस्य तावदेव चिरम् (छा.६.१४.२) इति विदुषश्शरीरवियोगकाले ब्रह्मसम्पत्तिवचनेन प्राणानामपि तस्मिन्काले शारीराद्विदुषो वियोगः प्रसज्यते; ततश्च देवयानेन पथा ब्रह्मसम्पत्तिर्नोपपद्यत इति । न तस्य प्राणा उत्क्रामन्ति (बृ.६.४.६) देवयानेन पथा ब्रह्मप्राप्तेः प्राग्जीवाद्विदुषोऽपि प्राणा न विश्लिष्यन्तीत्युच्यते।
आर्तभागप्रश्न-प्रतिवचनयोर्निर्णयः
आर्तभागप्रश्नोऽपि यदा विद्वद्विषयः; तदा अयमेव परिहारः । स त्वविद्वद्विषयः, तत्र प्रश्नप्रतिवचनयोः ब्रह्मविद्याप्रसङ्गादर्शनात्; तत्र हि ग्रहातिग्रहरूपेणेन्द्रियेन्द्रियार्थस्वभावः, अपामग्न्यन्नत्वं, म्रियमाणस्य जीवस्य प्राणापरित्यागः, मृतस्य नामवाच्यकीर्त्यनुवृत्तिः, तस्य च पुण्यपापानुगुण-गतिप्राप्तिरित्येतेऽर्थाः प्रश्नपूर्वकं प्रत्युक्ताः। तत्र च अप पुनर्मृत्युं जयति (बृह.५.२.१०) इति अपामग्न्यन्नत्वज्ञानादग्निजय एव मृत्युजय उच्यते । अतो नात्र विदुषः प्रसङ्गः। अविदुषस्तु प्राणानुत्क्रान्तिवचनं – स्थूलदेहवत्प्राणा न मुञ्चन्ति, अपि तु भूतसूक्ष्मवज्जीवं परिष्वज्य गच्छन्ति – इति प्रतिपादयतीति निरवद्यम् ॥१२॥
विदुषः उत्क्रान्तेः स्मृत्या सिद्धिः
५०१. स्मर्यते च ॥ ४–२–१३ ॥
स्मर्यते च विदुषोऽपि मूर्धन्यनाड्योत्क्रान्तिः ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम्। ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् (याज्ञ.स्मृ.३.१६७) इति ॥१३॥
इति श्रीशारीरकमीमांसाभाष्ये आसृत्युपक्रमाधिकरणम्॥५॥