श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्येचतुर्थे फलाध्याये–द्वितीयः उत्क्रान्तिपादः
अधिकरणानि – 11, सूत्राणि 20
पादार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता
वागधिकरणम्॥१॥
अधिकरणार्थः
ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता
४८९. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ४–२–१ ॥
अधिकरणार्थः
प्रयतो जीवस्योक्ता वाचो मनसि सम्पत्तिः, वाक्स्वरूपसम्पत्तिरेव, न तु तद्वृत्तिमात्रस्य
इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्क्रान्तिश्चिन्त्यते। तत्रेदमाम्नायते अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् (छा.६.८.६) इति।
अधिकरणीयः संशयः
अत्र वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वाचो मनसि सम्पत्तिश्रुतिः किं वाग्वृत्तिमात्रविषया, उत वाग्विषयेति विशये –
युक्त्या पूर्वःपक्षः
वृत्तिमात्रविषयेति युक्तम्। कुतः? मनसो वाक्प्रकृतित्वाभावात्तत्र वाक्स्वरूपसम्पत्त्यसम्भवात्। वागादिवृत्तीनां मनोऽधीनत्वेन वृत्तिसम्पत्तिश्रुतिः कथंचिदुपपद्यत इति॥
सूत्रतः सिद्धान्तार्थः
एवं प्राप्तेऽभिधीयते वाङ्मनसि इति । वाक्स्वरूपमेव मनसि सम्पद्यते। कुतः? दर्शनात् – दृश्यते हि वागिन्द्रय उपरतेऽपि मनः प्रवृत्तिः। वृत्तिमात्रसम्पत्त्यापि तदुपपद्यत इति चेत् तत्राह – शब्दाच्चेति। वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वाक्स्वरूपसम्पत्तावेव हि शब्दः; न वृत्तिमात्रसम्पत्तौ । न हि तदानीं वृत्त्युपरमे वागिन्द्रियं प्रमाणान्तरेणोपलभ्यते; येन वृत्तिमात्रमेव सम्पद्यत इत्युच्येत ।
पूर्वपक्षयुक्तेः समाधानम्
यदुक्तं मनसो वाक्प्रकृतित्वाभावाद्वाचो मनसि सम्पत्तिर्नोपपद्यत इति; तत्, वाङ्मनसि सम्पद्यते (छा.६.८.६) इति वचनान्मनसा वाक्संयुज्यते; नतु तत्र लीयत इति परिहर्तव्यम् ॥१॥
उक्तेऽर्थे श्रुत्यन्तरार्थसामञ्जस्यसिद्धिः
४९०. अत एव सर्वाण्यनु ॥ ४–२–२ ॥
यतो वाचो मनसा संयोगमात्रं सम्पत्तिः; न तु लयः; अत एव वाचमनु सर्वेषामिन्द्रियाणां मनसि सम्पत्तिश्रुतिरुपपद्यते, तस्मादुपशान्ततेजा अपुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः (प्रश्न.उप.३.९) इति॥२॥
इति श्रीशारीरकमीमांसाभाष्ये वागधिकरणम्॥१॥