श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम्॥५॥
अधिकरणार्थः
मोक्षार्थोपासनरूपं ध्यानं सापाश्रये आसीनस्यैव पुरुषस्य
४७६. आसीनस्सम्भवात् ॥ ४–१–७ ॥
अवान्तरसङ्गतिप्रदर्शनम्
मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूपमित्युक्तम्।
संसयगर्भितः पूर्वपक्षः
तदनुतिष्ठन्नासीनश्शयानस्तिष्ठन् गच्छंश्च विशेषाभावात् अनियमेनानुतिष्ठेत् –
सिद्धान्तार्थः सूत्रतः
इति प्राप्ते उच्यते – आसीनः इति । आसीन उपासनमनुतिष्ठते; कुतः? सम्भवात् – आसीनस्यैव ह्येकाग्रचित्ततासम्भवः; स्थितिगत्योः प्रयत्नसापेक्षत्वात्, शयने च निद्रासम्भवात्। पश्चार्धधारणप्रयत्ननिवृत्तये सापाश्रये आसीनः कुर्यात्॥ ७॥
ध्यानकाले ऐकाग्र्यस्यावश्यकता
४७७. ध्यानाच्च ॥ ४–१–८ ॥
निदिध्यासितव्यः (बृ.६.५.६) इति ध्यानरूपत्वादुपासनस्य, एकाग्रचित्तता अवश्यंभाविनी । ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ॥८॥
ध्याने ऐकाग्र्यस्य आवश्यकत्वदृढीकरणम्
४७८. अचलत्वं चापेक्ष्य ॥ ४–१–९ ॥
निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्षादिषु ध्यानवाचोयुक्तिर्दृश्यते ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौः**, ध्यायन्तीवापो, ध्यायन्तीव पर्वताः** (छा.७.६.२) इति। अतः पृथिवीपर्वतादिवदेकाग्रचित्ततया निश्चलत्वमुपासकस्यासीनस्यैव सम्भवेत् ॥९॥
आसीनतायाः गीतास्मृतिसिद्धता
४७९. स्मरन्ति च ॥ ४–१–१० ॥
स्मरन्ति चासीनस्यैव ध्यानं – शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपिवश्याऽसने युञ्ज्याद्योगमात्मविशुद्धये इति (भ.गी.६.११.१२) ॥१०॥
उपासनयोग्यदेशकालविधेः ऐकाग्र्यमेव लक्ष्यम्
४८०. यत्रैकाग्रता तत्राविशेषात् ॥ ४–१–११ ॥
एकाग्रतातिरक्तदेशकालविशेषाश्रवणादेकाग्रतानुकूलो यो देशः कालश्च, स एवोपासनस्य देशः कालश्च । समे शुचौ शर्करावह्निवालुकाविवर्जिते इति वचनमेकाग्रतैकान्तदेशमाह; न तु देशं नियच्छति, मनोऽनुकूले इति वाक्यशेषात्॥११॥
इति श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम्॥ ५॥