१२ सहकार्यन्तरविध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम्॥१२॥

अधिकरणार्थः

अथ मुनिः इति मौनरूपस्य विद्यासहकार्यन्तरस्य विधानमेव, नानुवादः

४६४. सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ३–४–४६ ॥

विचारणीयविषयसंशययोः प्रदर्शनम्

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः (बृ.५.५.१) इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते, उतानूद्यत इति विषये –

युक्तितः पूर्वः पक्षः

मौनपाण्डित्यशब्दयोः ज्ञानार्थत्वात्, पाण्डित्यं निर्विद्य (बृ.५.५.१) इति विहितमेव ज्ञानम् अथ मुनिः (बृ.५.५.१) इत्यनूद्यते; विधिशब्दो नह्यत्र श्रूयत इति ॥

सूत्रतः सिद्धान्तार्थदर्शनम्

एवं प्राप्ते ब्रूमः – सहकार्यन्तरविधिः – इति। तद्वतः – विद्यावतः; विध्यादिवत् – विधीयते इति यज्ञादिस्सर्वाश्रमधर्मः शमदमादिश्च विधिशब्देनोच्यते; आदिशब्देन श्रवणमनने गृह्येते; सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधिः; सहकार्यन्तरं विधिश्चेति सहकार्यन्तरिविधिः;

सनिदर्शनं विधित्वविशदीकरणम्, सूत्रवाक्यार्थश्च

एतदुक्तं भवति – यथा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन (बृ.६.४.२२) इत्यादिना शान्तो दान्तः (बृ.६.४.२३) इत्यादिना च सहकारी यज्ञादिश्शमदमादिश्च विधीयते; यथा च श्रोतव्यो मन्तव्यः (बृ.४.४.५) इति श्रवणमनने चार्थप्राप्ते विद्यासहकारित्वेन गृह्येते; तथा तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य (बृ.५.५.१) इत्यादिना पाण्डित्यं, बाल्यं, मौनमिति त्रितयं विद्यायास्सहकार्यन्तरं विधीयते – इति।

मौनं पाण्डित्यादितरत्

मौनं च पाण्डित्यादर्थान्तरमित्याह – पक्षेणेति। मुनिशब्दस्य पक्षेण प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शनात् मौनं पाण्डित्यबाल्योर्द्वयोस्तृतीयम्।

विधिप्रत्ययाश्रवणेऽपि मौनस्याप्राप्तत्वाद्विधित्वम्

यद्यपि अथ मुनिः (बृ.५.५.१) इत्यत्र विधिप्रत्ययो न श्रूयते; तथापि मौनस्याप्राप्तत्वात् विधेयत्वं अङ्गीकरणीयम् – अथ मुनिस्स्यात् – इति इदं च मौनं श्रवणप्रतिष्ठार्थान्मननात् अर्थान्तरभूतमुपासनालम्बनस्य पुनः पुनस्संशीलनं तद्भावनारूपम् ।

वाक्यार्थनिगमनम्

तदेवं वाक्यार्थः – ब्राह्मणः – विद्यावान् पाण्डित्यं निर्विद्य – उपास्यं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णं च विदित्वा श्रवणमननाभ्यामप्राप्तं वेदनं प्रतिलभ्येत्यर्थ;; तच्च भगवद्भक्तिकृतसत्त्वविवृद्धिकृतम्; यथोक्तं नाहं वेदैः (भ.गी.११.५३) इत्यारभ्य भक्त्या त्वनन्यया शक्यःज्ञातुम् (भ.गी.११.५४) इति। श्रुतिश्च यस्य देवे परा भक्तिः (श्वे.६.२३) नायमात्मा प्रवचनेन (कठ.२.२३) इत्यादिका। बाल्येन तिष्ठासेत्; बाल्यस्वरूपं चानन्तरमेव वक्ष्यते; बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिस्स्यात् – बाल्यपाण्डित्ये यथावदुपादाय परिशुद्धे परिपूर्णे ब्रह्मणि मननशीलो भवेत्, निदिध्यासनरूपविद्यावाप्तये । एवमेव त्रितयोपादानेन लब्धविद्यो भवतीत्याह अमौनं च मौनं च निर्विद्याथ ब्राह्मणः (बृ.५.५.१) इति । अमौनं – मौनेतरसहकारिकलापः; तं च मौनं च यथावदुपाददानो विद्याकाष्टां तदेकनिष्पाद्यां लभेतेत्यर्थः। स ब्राह्मणः केन स्यात् (बृ.५.५.१) इति उक्तादुपायात्किमन्योऽप्युपायोऽस्तीति पृष्टे येन स्यात्तेनेदृश एव (बृ.५-५-१) इति येन मौनपर्यन्तेन ब्राह्मणस्स्यादित्युक्तम्, तेनैवेदृशस्स्यात्; न केनाप्यन्येनोपायेनेति परिहृतम्। अतस्सर्वेष्वाश्रमेषु स्थितस्य विदुषो यज्ञादिस्वाश्रमधर्मवत्पाण्डित्यादिकं मौनतृतीयं विद्यायास्सहकार्यन्तरं विधीयते ॥४६॥

विद्यायाः सार्वाश्रमिकत्वात् गृहिणोपसंहारौचित्यम्

अथ स्यात् – यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौनतृतीयसचिवा विद्या ब्रह्मप्राप्तिसाधनमुच्यते; कथं तर्हि छान्दोग्ये अभिसमावृत्य कुटुम्बे शुचौ देशे (छा.८.१५.१) इत्यारभ्य स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते (छां.८.१५.२) इति यावदायुषं गार्हास्थ्यधर्मेण स्थितिदर्शनुमपपद्यते; अत आह –

४६५. कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ३–४–४७ ॥

तुशब्दश्चोद्यं व्यावर्तयति; कृत्स्नभावात् – कृत्स्नेषु भावात्, कृत्स्नेष्वाश्रमेषु विद्यायास्सद्भावात् गृहिणोऽप्यस्तीति तेनोपसंसारः; तस्मात्सर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः ॥४७॥

सर्वाश्रमिधर्माणां विद्याङ्गताप्रदर्शनम्

तथैतस्मिन्नपि वाक्ये ब्राह्मणः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरति (बृह.५.५.१) इति पारिव्राज्यैकान्तधर्मं प्रतिपाद्य तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य (बृ.५.५.१) इत्यादिना पारिव्राज्यधर्मस्थितिहेतुकमौनतृतीयसहकारिविधानं प्रदर्शनार्थमित्याह –

४६६. मौनवदितरेषामप्युपदेशात् ॥ ३–४–४८ ॥

सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनोपदेशः सर्वेषामाश्रमधर्माणां प्रदर्शनार्थः; कुतः? एवं विधमौनोपदेशवदितरेषामाश्रमिणामपि त्रयो धर्मस्कन्धाः (छां.२.२३.१) इत्यारभ्य ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१) इति ब्रह्मप्राप्त्युपदेशात्। उपपादितश्च पूर्वमेव ब्रह्मसंस्थशब्दः सर्वाश्रमिसाधारण इति। अतस्सुष्ठूक्तं – यज्ञादिसर्वाश्रमधर्मवन्मौनतृतीयः पाण्डित्यादिर्विद्या-सहकारित्वेन विधीयते – इति॥४८॥

इति श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम्॥१२॥