१० तद्भूताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तद्भूताधिकरणम् ॥१०॥

अधिकरणार्थः

आश्रमभ्रष्टानां ब्रह्मविद्यायां सर्वथा अनधिकार एव

४५८. तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥ ३–४–४०॥

प्रकृताधिकरणीयसंशय-पूर्वपक्षौ

नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति, नेति चिन्तायां- विधुरादिवदनाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकारः –

सिद्धान्तार्थः स्वस्य जैमिनेश्च सम्मतः

इति प्राप्त उच्यते – तद्भूतस्य तु नातद्भावः – इति। तुशब्दः पक्षव्यावृत्त्यर्थः; तद्भूतस्य नैष्ठिकाद्याश्रमनिष्ठस्य, नातद्भावः – अतथाभावः, अनाश्रमित्वेनावस्थानं न सम्भवति; कुतः? तद्रूपाभावेभ्यो नियमात् – तद्रूपाणि तेषां नैष्ठिकादीनां रूपाणि वेषाः, धर्मा इत्यर्थः; तेषामभावाः – तद्रूपाभावाः; तेभ्यः शास्त्रैर्नियमात् । नैष्ठिकाद्याश्रमप्रविष्टान् स्वाश्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि ब्रह्मचार्याचार्यकुलवासी तृतीयोत्यन्तमात्मानमाचार्यकुलेऽवसादयन् (छा.२.२३.१) इति, अरण्यमियात्ततो न पुनरेयात् इति, सन्न्यस्याग्निं न पुनरावर्तयेत् (यजुषि.काठके) इति च । अतो विधुरादिवत् नैष्ठिकादीनामनाश्रमित्वेनावस्थानासम्भवान्न तानधिकरोति ब्रह्मविद्या । जैमिनेरपि – इत्यविगानं दर्शयन्नुक्तं स्वाभिमतं द्रढयति॥४०॥

आश्रमप्रच्युतानां प्रायश्चित्ताद्विद्याकारशङ्का – तन्निरासौ

अथ स्यात् – नैष्ठिकादीनां ब्रह्मचर्यात्प्रच्युतानां प्रायश्चित्ताधिकारस्सम्भवति; अस्ति च प्रायश्चित्तमधिकारलक्षणे निरूपितम् अवकीर्णिपशुश्च तद्वत् (जै.मी.सू.६.८.२२) इति। अतः प्रच्युतब्रह्मचर्यस्य प्रायश्चित्तसम्भवात्कृतप्रायश्चित्तो ब्रह्मविद्यायामधिकरिष्यति – इति; तत्राह –

४५९. न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ३–४–४१ ॥

अधिकारलक्षणोक्तमपि प्रायश्चित्तं नैष्ठिकादीनां तद्भ्रष्टानां न सम्भवति; कुतः? पतनानुमानात्तदयोगात् – नैष्ठिकादीनां प्रच्युतानां पतनस्मृतेस्तस्य प्रायश्चित्तस्यासम्भवात् – आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा (आग्नेय.१६.५.२३,अत्रि.स्मृ.८.१६) इति। अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्मचारि-विषयम् ॥४१॥

नैष्ठिकात् प्रच्यवनस्य प्रायश्चित्तसम्भवपक्षः

४६०. उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ॥ ३–४–४२ ॥

नैष्ठिकादीनां ब्रह्मचर्यप्रच्यवनमुपपूर्वम् – उपपातकम्, महापातकेष्वपरिगणितत्वादिति तत्र प्रायश्चित्तस्य भावं – विद्यमानतामप्येके आचार्या मन्यन्ते; अशनवत् – यथा मध्वशनादि-निषेधस्तत्प्रायश्चित्तं चोपकुर्वाणस्य नैष्ठिकादीनां च समानम्; तदुक्तं स्मृतिकारैः उत्तरेषां चैतदविरोधि (गौत.१.३.४) इति। गुरुकुलवासिनो यदुक्तं, तत्स्वाश्रमाविरोधि उत्तरेषामप्याश्रमिणां भवतीत्यर्थः। तद्वदिहापि ब्रह्मचर्यप्रच्यवने प्रायश्चित्तसम्भवाद्ब्रह्मविद्यायोग्यताप्यस्ति ॥४२॥

उक्तानामाश्रमप्रच्युतानां ब्रह्मविद्यानुगुणप्रायश्चित्ताभावपक्षः स्वीयः

४६१. बहिस्तूभयधापि स्मृतेराचाराच्च ॥ ३–४–४३ ॥

तु शब्दो मतान्तरव्यावृत्त्यर्थः; उपपातकत्वे महापातकत्वेऽप्येते बहिर्भूता एव ब्रह्मविद्याधिकारिभ्यः; ब्रह्मविद्यायामनधिकृता इत्यर्थः । कुतः? स्मृतेः – पूर्वोक्तात् पतनस्मरणात्। यद्यपि कल्मषनिर्हारणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारो विद्यते तथापि कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवति, प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा (आग्नेय.१६५.२३, अत्रि.स्मृ.८.१६) इति स्मृतेरित्यर्थः। आचाराच्च – शिष्टा हि नैष्टिकादीन् भ्रष्टान् कृतप्रायश्चित्तानपि वर्जयन्ति, तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति; अतस्तेषां नास्ति ब्रह्मविद्यायामधिकारः ॥४३॥

इति श्रीशारीरकमीमांसाभाष्ये तद्भूताधिकरणम्॥१०॥