०७ सर्वान्नानुमत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम् ॥७॥

४४६. सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३–४–२८ ॥

विचारणीयविषयोपस्थापनम्

वाजिनां छन्दोगानां च प्राणविद्यायां न ह वा अस्यानन्नं दग्धं भवति नानन्नं परिगृहीतं भवति (बृ.८.१.१४) न ह वा एवंविदि किञ्चनानन्नं भवति (छा.५.२.१) इति प्राणविदः सर्वान्नानुमतिः सङ्कीर्त्यते ॥

विचारणोपयोगी संशयः

किमियं प्राणविद्यानिष्ठस्य सर्वान्नानुमतिः सर्वदा, उत प्राणात्ययापत्ताविति विशये,

पूर्वपक्षः

विशेषानुपादानात्सर्वदा – इति प्राप्ते

सिद्धान्तार्थः

उच्यते – प्राणात्यये इति। च शब्दोऽवधारणे; प्राणात्ययापत्तावेवेत्यर्थः। कुतः? तद्दर्शनात् – दृश्यते ह्यन्यत्र ब्रह्मविदामपि प्राणात्ययापत्तावेव सर्वान्नाभ्यनुज्ञा; किं पुनः प्राणविदः। उषस्तिः किल चाक्रायणो ब्रह्मविदग्रेसरो मटचीहतेषु कुरुषु दुर्भिक्षदूषितेष्विभ्यग्रामे वसन्ननशनेन प्राणसंशयमापन्नो ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्क्षमाणः इभ्यं कुल्माषान् खादन्तं भिक्षमाणस्तेन च उच्छिष्टेभ्योऽन्ये न विद्यन्त इति प्रत्युक्तः पुनरपि एतेषां मे देहि (छा.१.१०.३) इत्युक्त्वा तेन चेभ्येनोच्छिष्टेभ्य आदाय दत्तान् कुल्माषान् प्रतिगृह्यानुपानप्रतिग्रहमिभ्येनार्थितः उच्छिष्टं वै मे पीतं स्यात् (छा.१.१०.४१) इति वदंश्चाक्रायणः किमेते कुल्माषा अनुच्छिष्टा इति इभ्येन पर्यनुयुक्तः न वा अजीविष्यमिमानखादन्कामो मे उदपानम् (छा.१.१०.४) इति कुल्माषाखादने स्वस्य प्राणसंशयापत्तेस्तावन्मात्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यात् इत्युक्त्वा स्वखादितशेषं जायायै दत्वा तया च रक्षितानपरेद्युर्याजनेनार्जिजीषया जिगमिषुः पुनरपि प्राणसंशयमापन्नस्तानेवेभ्योच्छिष्टान् स्वोच्छिष्टभूतान् पर्युषितांश्चखाद ।

अधिकरणार्थोपसंहारः

अतो ब्रह्मविदामपि प्राणसंशय एव सर्वान्नानुमतिदर्शनात् अत्राविशेषेण कीर्तितमपि प्राणविदस्सर्वान्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ॥२८॥

उक्तार्थस्य आहारशुद्धिविधिविषयकल्पकत्वम्

४४७. अबाधाच्च ॥३–४–२९॥

आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः (छा.७.२६.२) इति ब्रह्मविद्योत्पत्तौ आहारशुद्धिविधानाबाधादपि ब्रह्मविदां सर्वान्नीनत्वमापद्विषयमवगम्यते। एवं ब्रह्मविदामतिशयितशक्तीनामपि सर्वान्नीनत्वस्यापद्विषयत्वात्प्राणविदोऽल्पशक्तेः सर्वान्नानुमतिः आपद्विषयैव॥२९॥

उक्तेऽर्थे स्मृत्यानुगुण्यम्

४४८. अपि स्मर्यते ॥३–४–३०॥

अपि च आपद्विषयमेव सर्वान्नीनत्वं ब्रह्मविदामन्येषां च स्मर्यते प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा इति ॥३०॥

सर्वेषामपि स्वच्छन्दप्रवृत्तिप्रतिषेधकं शास्त्रम्

४४९. शब्दश्चातोऽकामकारे ॥ ३–४–३१ ॥

यतो ब्रह्मविदामन्येषां च सर्वान्नीनत्वमापद्विषयमेव; अत एव सर्वेषामकामकारे शब्दः – कामकारस्य प्रतिषेधकः शब्दो वर्तते । अस्ति हि कठानां संहितायां कामकारस्य प्रतिषेधकः शब्दः तस्माद्ब्राह्मणस्सुरां न पिबति पाप्मना नोत्सृजा इति इति । पाप्मना संस्पृष्टो न भवानीति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ॥३१॥

इति श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम्॥ ७॥