श्रीशारीरकमीमांसाभाष्ये शमदमाद्यधिकरणम्॥६॥
अधिकरणार्थः
गृहस्थस्य यज्ञादिवत् विद्याङ्गतया शमदमादयोप्यनुष्ठेया एव
४४५. शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेः
तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् ॥ ३–४–२७ ॥
प्रकृतविचाराङ्गः संशयः, पूर्वपक्षश्च
गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि, उत नेति चिन्तायाम् – आन्तर-बाह्यकरणव्यापाररूपत्वात्कर्मानुष्ठानस्य, शमदमादीनां तद्विपरीतरूपत्वाच्चाननुष्ठेयानि –
सिद्धान्तार्थः
इति प्राप्त उच्यते ॥ यद्यपि गृहस्थः करणव्यापाररूपकर्मसु प्रवृत्तः, तथाऽपि स विद्वान् शमदमाद्युपेतस्स्यात् कुतः? तदङ्गतया तद्विधेः – विद्याङ्गतया तेषां विधेः तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत् (बृ.६.४.२३) इति । विद्योत्पत्तेश्चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वाच्छमादीनां, विद्यानिर्वृत्तये तेषां – शमादीनामप्यवश्यानुष्ठेयत्वाच्च तान्यप्यनुष्ठेयानि ।
विरोधतत्परिहारौ
न च करणव्यापारतद्विपर्ययरूपत्वेन कर्मणां शमदमादीनां च परस्परविरोधः भिन्नविषयत्वात् विहितेषु करणव्यापारः; अविहितेषु प्रयोजनशून्येषु च तदुपशम इति । न च करणव्यापाररूपकर्मसु वर्तमानस्य वासनावशाच्छमादीनामुपादेयत्वासम्भवः; विहितानां कर्मणां परमपुरुषाराधनतया तत्प्रसादद्वारेण निखिलविपरीतवासनोच्छेदहेतुत्वात् । अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेयाः॥२७॥
इति श्रीशारीरकमीमांसाभाष्ये शमदमद्यधिकरणम् ॥६॥