श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥२॥
अधिकरणार्थः
स एष रसानां इत्यादिवाक्यानां उद्गीथादौ रसतमादिदृष्टिविधिपरत्वमेव
४३९. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३–४–२१ ॥
विचारणीयो विषयः ससंशयः
इदमिदानीं चिन्त्यते स एष रसानां रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः (छा.१.१.३) इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोस्विदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानीति ।
तन्निर्धारणानियमाधिकरणस्य एतदधिकरणोपजीव्यत्वम्
अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्तः।
पूर्वः पक्षः सयुक्तिकः
किं युक्तम्? स्तुतिमात्रपराणीति ।
कुतः? उद्गीथाद्युपादानात्। क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय तेषां रसतमादित्वं प्रतिपादतम्; यथा जुह्वादीनां पृथिव्यादित्वं प्रतिपादयतो वचनस्य इयमेव जुहूः स्वर्गो लोक आहवनीयः इत्यादिकस्य तत्स्तुतिमात्रपरत्वम्, तथेहापि । तदिदमाशङ्कते – स्तुतिमात्रमुपादानादिति चेत् – इति। उद्गीथाद्युपादानात्तत्स्तुतिमात्रमेवैषां वाक्यानां विवक्षितमिति चेत्
सिद्धान्तार्थः सहेतुकः
अत्रोत्तरं – नापूर्वत्वात् – इति। न स्तुतिमात्रत्वमुपपद्यते; कुतः? अपूर्वत्वात् – अप्राप्तत्वात्। न ह्युद्गीथादयो रसतमादितया प्रमाणान्तरेण प्रतिपन्नाः; येन तत्प्राशस्त्यबुद्ध्युत्पत्त्यर्थं रसतमादित्वेनानूद्येरन्। नचोद्गीथादिविधिरत्र सन्निहितः; येन इयमेव जुहूस्स्वर्गो लोक आहवनीयः इत्यादिवत्तदेकवाक्यत्वेन यया कयाचनविधया तत्स्तुतिपरत्वमाश्रीयेत । अतः क्रतुवीर्यवत्तरत्वादिफलसिद्ध्यर्थं उद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ॥२१॥
४४०. भावशब्दाच्च ॥ ३–४–२२ ॥
उपासीत (छा.१.१.१) इत्यादिभावशब्दाच्च विधिपरत्वमेव न्याय्यम् । विधिप्रत्यययुक्तो हि क्रियाशब्दो विधेयमेव स्वार्थमवगमयति । तस्मादुपासनविधानार्था एताश्श्रुतयः ॥२२॥
इति श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम्॥२॥