पुरुषार्थाधिकरणम्॥१॥
अधिकरणानि – 1 – 15 सूत्राणि – 1 – 51
अधिकरणार्थः
कर्माङ्गकादुपासनादेव परमपुरुषार्थावाप्तिः, न तु वेदनाङ्गकात् कर्मणः
४१९. पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥ ३–४–१ ॥
ईशावास्यविद्याविचारः 3-4-33
अस्याधिकरणस्य पूर्वपादेन सह सङ्गतिः विचारणीयोंशश्च
गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इदानीं विद्यातः पुरुषार्थः, उत विद्याङ्गकात्कर्मण इति चिन्त्यते।
सिद्धान्त्यभिमतोऽर्थः
किं युक्तम्? अतः – विद्यातः पुरुषार्थ इति भगवान् बादरायणो मन्यते; कुतः? शब्दात् – दृश्यते ह्यौपिनषदश्शब्दो विद्यातः पुरुषार्थं ब्रुवन् ब्रह्म विदाप्नोति परम् (तै.आ.१.अनु) वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्। तमेवं विद्वानमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय (पु.सू.) यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् (मु.३.२८) इत्यादि॥१॥
पूर्वपक्षपरं सूत्रम् – विद्यातः फलश्रुतेरर्थवादतापरम्
अत्र पूर्वपक्षी प्रत्यवतिष्ठते –
४२०. शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ ३–४–२ ॥
नैतदेवम् – यद्विद्यातः पुरुषार्थावाप्तिश्शब्दादवगम्यते – इति। न ह्येषः ब्रह्मविदाप्नोति परम् (तै.आ.१) इत्यादिशब्दो वेदनात्पुरुषार्थावाप्तिमवगमयति, कर्मसु कर्तृभूतस्याऽत्मनो याथात्म्यवेदनप्रतिपादनपरत्वात्। अतः कर्तुस्संस्कारद्वारेण विद्यायाः क्रतुशेषत्वात्तत्र फलश्रुतिरर्थवादमात्रम्; यथाऽन्येषु द्रव्यादिषु – इति जैमिनिराचार्यो मन्यते। तदुक्तं द्रव्यगुणसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादस्स्यात् (जै.मी.सू.४.३.१) इति।
पूर्वपक्षोक्तस्य वेदान्तशब्दानां जीवयाथात्म्यपरत्वस्य आक्षेपः सिद्धान्तिनः
ननु च कर्मसु कर्तुर्जीवादन्यो मुमुक्षुभिः प्राप्यतया वेदान्तेषु वेद्य उपिदश्यत इति प्रागेवोपपादितं नेतरोऽनुपपत्तेः (ब्र.सू..१.१.१७) भेदव्यपदेशाच्च (शारी.१-१-१८) अनुपपत्तेस्तु न शारीरः (ब्र.सू.१.२.३) इतरपरामर्शात्स इति चेन्नासम्भवात् (शारी.१-३-१७) इत्येवमादिभिस्सूत्रैः; तदेव ब्रह्म तत्त्वमस्यादिसामानाधिकरण्येन जीवादनतिरिक्तमित्येतदपि अधिकं तु भेदनिर्देशात् (ब्र.सू.२.१.२२) इत्येवमादिभिर्निरस्तम्; सामानाधिकरण्यनिर्देशश्च ऐतदात्म्यमिदं सर्वं (छा.६.८.७) सर्वं खल्विदं ब्रह्म (छा.३.१४.१) इति चेतनाचेतनसाधारणः; यः पृथिव्यां तिष्ठन् (बृ.५.७.३) य आत्मनि तिष्ठन् (बृ.६.३.२२) इत्यादिनाऽवगततत्तदात्मतयाऽवस्थितिनिबन्धन इति अवस्थितेरिति काशकृत्स्नः (ब्र.सू.६.४.२२) इत्यादिभिरुपपादितम्; तत्कथं कर्मसु कर्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्यायाः कर्माङ्गत्वं प्रतिपाद्यते?।
प्रसक्ताक्षेपस्य पूर्वपक्षिकृतः परिहारः
उच्यते – वेदान्तवाक्येष्वेव विद्यायाः कर्मप्राधान्यं सूचयद्भिर्लिगैः तदुपबृंहित-सामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्तजीवस्वरूपयाथात्म्योपदेशपरा इति बलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्रायः।
विद्यायाः कर्मसंस्कारद्वारा क्रत्वङ्गत्वायोगशङ्का-निरासौ
ननु च कर्तृसंस्कारमुखेन विद्यायाः क्रत्वनुप्रवेशो न शक्यते वक्तुम्, कर्तुर्लौकिकवैदिकसाधारणत्वेनाव्यभिचरितक्रतुसम्बन्धित्वाभावात्। नैवम्, लौकिकस्य कर्मणः कर्तुर्देहादव्यतिरिक्तत्वेऽप्युपपत्तेर्देहातिरक्तनित्यात्मस्वरूपस्य क्रतावेवोपयोगात् तत्स्वरूपप्रतिपादन-मुखेन क्रत्वनुप्रवेशो न विरुध्यते। अतो विद्यायाः क्रतुशेषत्वान्नातः पुरुषार्थः॥२॥
वेदान्तानां जीवस्वरूपपरत्वे लिङ्गप्रदर्शनं सूत्रतः
कानि पुनस्तानि लिङ्गानि; यदुपबृंहितसामानाधिकरण्यनिर्देशेन वेदान्तशब्दा जीवस्वरूपपरा इति निर्णीयन्ते। तत्राह –
४२१. आचारदर्शनात् ॥ ३–४–३ ॥
ब्रह्मविदां प्राधान्येन कर्मस्वेवाचारो दृश्यते अश्वपतिः केकयः किल आत्मवित्तमः तद्विज्ञानाय उपगतांस्तानृषीन् प्रत्याह – यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (छा.५.११.५) इति । तथा जनकादयो ब्रह्मविदग्रेसराः कर्मनिष्ठाः स्मृतिषु दृश्यन्ते, कर्मणैव हि संसिद्धिमास्थिता जनकादयः (भ.गी.३.२०) इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः (वि.पु.६.६.१२) इति । अतो ब्रह्मविदां कर्मप्रधानत्वदर्शनाद्विद्यायाः कर्तृस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यातः पुरुषार्थः॥३॥
उक्तार्थे लिङ्गानुग्राह्यप्रमाणप्रदर्शनम्
लिङ्गमिदम्; प्राप्तिरुच्यतामित्यत्राह –
४२२. तच्छ्रुतेः ॥ ३–४–४ ॥
श्रुतिरेव हि विद्यायाः कर्माङ्गत्वमाह – यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति। नेयं श्रुतिः प्रकरणादुद्गीथमात्रविषयेति व्यवस्थापयितुं शक्या; यतः प्रकरणाच्छुतिर्बलीयसी; यदेव विद्यया करोति (छा.१.१.१०) इति विद्यामात्रविषया हीयं श्रुतिः ॥४॥
श्रुतिदृष्टे साहित्ये विद्यायाः कर्माङ्गताज्ञापकम्
४२३. समन्वारम्भणात् ॥ ३–४–५ ॥
तं विद्याकर्मणी समन्वारभेते (बृ.६.४.२) इति विद्याकर्मणोस्साहित्यं च दृश्यते । साहित्यं चोक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति ॥
कर्मविधिषु विद्यावतः अधिकारत्वोक्तिरपि उक्तार्थज्ञापिका
४२४. तद्वतो विधानात् ॥ ३–४–६ ॥
विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमित्यवगम्यते – आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे (छा.८.१५.१) इत्यादौ । वेदमधीत्य (छा.८.१५.१) इत्यध्ययनवतः कर्माणि विदधदर्थावबोधपर्यन्ताध्ययनवत एव विदधाति । अर्थावबोधपर्यन्तं ह्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्यापि कर्मसु विनियुक्तेति न पृथक्फलायावकल्पते ॥६॥
समग्रस्यायुषः कर्मनैयत्यात् विद्याया अङ्गतैव
४२५. नियमात् ॥ ३–४–७ ॥
इतश्च न विद्यातः पुरुषार्थः। कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः (ईश.२) इत्यात्मविदः, पुरुषायुषस्य सर्वस्य कर्मसु नियमेन विनियोगात्कर्मण एव फलमित्यवगम्यते। विद्या तु कर्माङ्गमिति ॥७॥
सिद्धान्तारम्भः
एवं प्राप्ते प्रचक्ष्महे –
४२६. अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ३–४–८ ॥
तुशब्दात्पक्षो व्यावृत्तः; विद्यात एव पुरुषार्थः; कुतः? अधिकोपदेशात् – कर्मसु कर्तुर्जीवात् हेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणाकरत्वेनाधिकस्य अर्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो बादरायणस्य विद्यातः फलं इत्येवमेव मतम् । लिङ्गानि तिष्ठन्तु; वेद्यतयोपदेशस्तु तावत्कर्तुः प्रत्यगात्मनोऽधिकस्यैव। कथम्? तद्दर्शनात् – प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य निरस्तनिखिलहेयगन्धस्य स्वसङ्कल्पकृत-जगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्तेर्वाङ्मनसा अपरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नस्य प्रशासितुः परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् – अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः (छा.८.१.५) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत (छा.६.२.३) यस्सर्वज्ञस्सर्ववित् (मुण्ड.१.१.९) पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे.६.८) स एको ब्रह्मण आनन्दः (तै.आन.८.४) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति (तै.आन.४.१) एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरणः (बृ.६.४.२२) स कारणं करणाधिपाधिपो, नचास्य कश्चिज्जनिता नचाधिपः (श्वे.६-९) एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ.५.७.९) भीषास्माद्वातः पवते । भीषोदेति सूर्यः। भीषास्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः (तै.आ.८.१) इत्यादिषु। तस्माद्वेदनोपदेशशब्देषु कर्तुः प्रत्यगात्मनः खद्योतकल्पस्य अविद्यादिदेहसम्बन्धयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्यायास्तत्प्राप्तिरूपममृतत्वं तत्र तत्र श्रूयमाणं फलमिति विद्यातः पुरुषार्थ इति सुष्ठूक्तम् ॥८॥
आचारदर्शनादीनां लिङ्गानां निरासः
लिङ्गान्यपि निरस्यन्ते –
४२७. तुल्यं तु दर्शनम् ॥ ३–४–९ ॥
यदुक्तं – ब्रह्मविदां कर्मानुष्ठानदर्शनाद्विद्या कर्माङ्गम् – इति; तन्न विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्, ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थः, अननुष्ठानस्यापि दर्शनात् । दृश्यते हि ब्रह्मविदां कर्मत्यागः ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे इत्यादौ। अतो ब्रह्मविदां कर्मत्यागदर्शनान्न विद्या कर्माङ्गम् ।
ब्रह्मविदां कर्मानुष्ठानाननुष्ठानयोः विरोधाभासपरिहारः
कथमिदमुपपद्यते – ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात्तथाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते । वक्ष्यति च सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (शारी.३.४.२६) इति । फलार्थस्य तस्यैव यज्ञादेः कर्मणो मोक्षैकफलब्रह्म-विद्याविरोधित्वात् तस्याननुष्ठानदर्शनमुपपन्नतरम्। विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते ॥ ९॥
विद्यासामान्यस्य कर्माङ्गतायाः श्रौतत्वनिरासः
यदुक्तं – श्रुत्यैव विद्यायाः कर्माङ्गत्वमवगम्यते इति; तत्राह –
४२८. असार्वत्रिकी ॥ ३–४–१० ॥
न सर्वविद्याविषयेयं श्रुतिः; अपि तूद्गीथविद्याविषयैव यदेव विद्यया करोति (छा.१.१.१०) इति यच्छब्दस्यानिर्धारितविशेषस्य उद्गीथमुपासीत (छा.१.१.१) इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात्। न हि यत्करोति, तद्विद्ययेति सम्बध्यते; यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते ॥१०॥
विद्याकर्मणोः साहित्यदर्शनस्य विद्यायां कर्माङ्गत्वगमकतानिरासः
यच्चेदमुक्तं तं विद्याकर्मणी समन्वारभेते (बृ.६.४.२) इति विद्याकर्मणोस्साहित्यदर्शनात् विद्या कर्माङ्गम् – इति; तत्राह-
४२९. विभागश्शतवत् ॥ ३–४–११ ॥
तं विद्याकर्मणी समन्वारभेते (बृ.६.४.२) इत्यत्रोक्तेन न्यायेन विद्याकर्मणोर्भिन्नफलत्वात् विद्या स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्यः। शतवत् – यथा क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्ते क्षेत्रार्थं शतम्, रत्नार्थंशतमिति विभागःप्रतीयते; तथेहापि ॥
विद्यावतः कर्मविधानमिति शङ्कायाः परिहारः
४३०. अध्ययनमात्रवतः ॥ ३–४–१२ ॥
यदुक्तं विद्यावतः कर्मविधानाद्विद्या कर्माङ्गम् – इति; नैतद्युक्तम्, वेदमधीत्य (छा.८.१५.१) इत्यध्ययनमात्रवतो विधानात् । न चाध्ययनविधिरेवार्थबोधे प्रवर्तयति, आधानवदध्ययनस्याक्षरराशिग्रहणमात्रे पर्यवसानात् । गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधित्वदर्शनात्तन्निर्णयफले तदर्थविचारे पुरुषः स्वयमेव प्रवर्तते; ततः कर्मार्थी कर्मज्ञाने प्रवर्तते, मोक्षार्थी च ब्रह्मज्ञान इति न विद्या कर्माङ्गम् । यद्यप्यध्ययनविधिरेवार्थावबोधे प्रवर्तयति; तथापि न विद्या कर्माङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विद्यायाः। यथा ज्योतिष्टोमादि-कर्मस्वरूपविज्ञानात् फलसाधनभूतं कर्मानुष्ठानमर्थान्तरम्; तथाऽर्थज्ञानरूपात् ब्रह्मस्वरूपविज्ञानात् अर्थान्तरमेव ध्यानोपासनादिशब्दवाच्या पुरुषार्थसाधनभूता विद्येति न तस्याः कर्मसम्बन्धगन्धो विद्यते ॥१२॥
४३१. नाविशेषात् ॥ ३–४–१३ ॥
कुर्वन्नेवेति श्रुतेः फलसाधनभूतकर्मविषयतानिषेधः
यच्चोक्तं कुर्वन्नेवेहे कर्माणि (ईशा.२) इत्यात्मविदं ज्ञानाद्व्यावर्त्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तन्नोपपद्यते; अविशेषात् – नह्ययं नियमः फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूतकर्मविषयतयाऽप्युपपत्तेः। कर्मणैव हि संसिद्धिमास्थिता जनकादयः (भ.गी.३.२०) इति च विदुषस्त्वाप्रयाणादुपासनस्य अनुवर्तमानत्वात् ॥१३॥
कुर्वन्नेवेति श्रुत्याशयः सूत्रेण
एवमर्थस्वाभाव्येन चोद्यं परिहृत्य कुर्वन्नेवेह कर्माणि (ई.२) इत्यस्य वाक्यस्यार्थमाह –
४३२. स्तुतयेऽनुमितर्वा ॥ ३–४–१४ ॥
वाशब्दोऽवधारणार्थः; ईशावास्यिमदं सर्वम् (ईशा.१) इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम्। विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेषश्चैवमेव दर्शयति, एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे (ईशा.२) इति। अतो न कर्माङ्गं विद्या ॥ १४॥
४३३. कामकारेण चैके ॥ ३–४–१५ ॥
विरक्तस्य विदुषः स्वेच्छया गार्हस्थ्यत्यागदर्शनं विद्यायाः कर्माङ्गत्वविरोधि
अपि चैवमेके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हास्थ्यत्यागमधीयते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः (बृ.६.४.२२) इति। विदुषो विरक्तस्य कामकारेण गार्हास्थ्यकर्मत्यागं ब्रुवदिदं वचनं ब्रह्मविद्यायाः कर्मानङ्गत्वं दर्शयति । यज्ञादिकर्माङ्गत्वे हि विद्यायाः विद्यानिष्ठस्य कामकारेण गार्हास्थ्यत्यागो न सम्भवति । अतो न विद्या कर्माङ्गम् ॥ १५॥
विद्यया सर्वकर्मोपमर्दश्रवणमपि विद्यायाः कर्मानङ्गत्वज्ञापकम्
४३४. उपमर्दं च ॥ ३–४–१६ ॥
पुण्यापुण्यरूपस्य समस्तसांसारिकदुःखमूलस्य कर्मणो ब्रह्मविद्ययोपमर्दं च प्रतिवेदान्तमधीयते। भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे (मुण्ड.२.२.८) इत्यादिकम्। तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते॥१६॥
परिव्राजकेषु विद्यादर्शनं कर्मादर्शनं चेत्येतत् विद्यायाः अनङ्गताज्ञापकम्
४३५. ऊर्ध्वरेतस्सु च शब्दे हि ॥ ३–४–१७ ॥
ऊर्ध्वरेतस्स्वाश्रमेषु ब्रह्मविद्यादर्शनात्तेष्वग्निहोत्रदर्शपूर्णमासादिकर्माभावाच्च न विद्या कर्माङ्गम्। ननूर्ध्वरेतस आश्रमा न सन्त्येव यावज्जीवमग्निहोत्रं जुहोति (आप.श्रौत.३-१४-५) इत्यादिनाऽग्निहोत्रदर्शपूर्णमासादीनां यावज्जीवाधिकारश्रुतेः; श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात्। अत आह – शब्दे हि – इति । वैदिक एव हि शब्दे ते दृश्यन्ते त्रयो धर्मस्कन्धाः (छा.२.२३.१) ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) एतमेव प्रव्राजिनो लोकिमिच्छन्तः प्रव्रजन्ति (बृह.६.४.२२) इत्यादौ। यावज्जीवश्रुतिस्त्वविरक्तविषया ॥१७॥
जैमिनिमते सन्न्यासाश्रमः अवैधः
४३६. परामर्शं जैमिनिरचोदनाच्चापवदति हि ॥ ३–४–१८ ॥
यदिदं त्रयो धर्मस्कन्धाः (छा.२.२.३) इत्यादौ वैदिके शब्दे ऊर्ध्वरेतस आश्रमा दृश्यन्ते; अतस्ते सन्त्येवेति; नैतदुपपद्यते; यतः त्रयो धर्मस्कन्धाः (छा.२.२३.१) इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्शमात्रं क्रियते – अनुवादमात्रमित्यर्थः। कुत एतत्? अचोदनात् – अविधानादित्यर्थः। न ह्यत्र विधिशब्दः श्रूयते; त्रयो धर्मस्कन्धाः (छां.२.२३.१) इत्यादिना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, ब्रह्मसंस्थोऽमृतत्वमेति (छां.२.२३.१) इत्युपसंहारात् । अतोऽन्यार्थमनुवादमात्रमत्र क्रियते तेषामाश्रमाणाम् । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इति च देवयानविधिपरत्वात्तत्रापि नाश्रमान्तरविधिसम्भवः । अपि चापवदति हि श्रुतिराश्रमान्तरं वीरहा वा एष देवानां योऽग्निमुद्वासयते (यजु.१.कां.५.२) इत्यादिका । अत ऊर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ॥१८॥
४३७. अनुष्ठेयं बादरायणस्साम्यश्रुतेः॥ ३–४–१९ ॥
गार्हस्थ्येतरस्याऽप्याश्रमस्य अनुष्ठेयत्वं बादरायणमते
गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् बादरायणो मन्यते । कुतः? साम्यश्रुतेः – उपादेयतयाऽभिमतगृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते। त्रयो धर्मस्कन्धाः (छां.२.२३.१) इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया सङ्कीर्तनं गृहस्थाश्रमस्येतरेषां च समानम्; अथ गृहस्थाश्रमस्यानुवादः प्राप्तौ सत्यामेव संभवतीति तस्य प्राप्तिरवश्याभ्युपेत्येति मतम्; तदितरेषामपि समानमन्यत्राभिनिवेशात्।
यज्ञादीनां गृहस्थमात्रत्वशङ्का-तत्परिहारौ
न च गार्हास्थ्यधर्म एव यज्ञोऽध्ययनं दानं तपो ब्रह्मचर्यम् (छां.२.२३.१) इति सर्वैश्शब्दैरभिधीयते, ब्रह्मचर्यतपसोर्गृहस्थस्यैव सम्भवादिति युक्तम्, त्रयो धर्मस्कन्धाः (छा.२.२३.१) इति त्रित्वेन संगृह्य प्रथमः… द्वितीयः…. तृतीयः…. (छां.२.२३.११) इति विभागवचनानुपपत्तेः। अतः यज्ञोऽध्ययनं दानम् (छा.२.२३.१) इति गृहस्थाश्रम उच्यते। अध्ययनशब्दो वेदाभ्यासपरः। तपश्शब्देन वैखानसपारिव्राज्ययोर्ग्रहणम्, उभयोः तपः प्रधानत्वात्। तपश्शब्दो हि कायक्लेशे रूढः, स च द्वयोरपि समानः। ब्रह्मचारिधर्म एव ब्रह्मचर्यशब्देनाभिधीयते। ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१) इति परत्र श्रूयमाणो ब्रह्मसंस्थशब्दो यौगिकः सर्वाश्रमसाधारणः, सर्वेषामाश्रमिणां ब्रह्मसंस्थासम्भवात्। ब्रह्मणि संस्था – संस्थितिः ब्रह्मसंस्थत्वम्; तच्च सर्वेषां सम्भवत्येव। ब्रह्मनिष्ठाविकलाः केवलाश्रमिणः पुण्यलोकभाजः; तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति। तदेतद्विस्पष्टमुक्तं भगवता पराशरेण प्राजापत्यं ब्राह्मणानाम् (वि.पु.१.६.३४) इत्यारभ्य ब्राह्मं संन्यासिनां स्मृतम् (वि.पु.१.६.३७) इत्यन्तेन वर्णानामाश्रमाणां च केवलानां ब्रह्मलोकप्राप्त्यन्तं फलमभिधाय एकान्तिनस्सदा ब्रह्मध्यायिनो योगिनो हि ये। तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः (वि.पु.१.६.३९) इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्राप्तिमभिदधता। अतो गृहस्थाश्रमतुल्याः ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेयाः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१) इति च अरण्ये इति तपः प्रधानाश्रमप्राप्त्यपेक्षत्वाद्देवयानविधानस्य तत्रापि तत्प्राप्तिरङ्गीकरणीया ॥ १९॥
उक्तश्रुतेः सर्वाश्रमविधिपरत्वम्
परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुष्ठेयत्वमित्युपपाद्य विधिरेवायामाश्रमाणां सर्वेषां, नानुवाद इत्युपपादयितुमाह –
४३८. विधिर्वा धारणवत् ॥ ३–४–२० ॥
वा शब्दोऽवधारणार्थः । विधिरेवायमाश्रमाणाम्; धारणवत् – यथा दिष्टाग्निहोत्रे, अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वाद्विधिराश्रीयते; तदुक्तं शेषलक्षणे विधिस्तु धारणोऽपूर्वत्वात् (पू.मी.सू.३.४.१५) इति; तथाऽत्राप्यप्राप्तत्वाद्विधिरेवाश्रयणीयः ॥
अस्यार्थस्य कृत्वाचिन्तया विवरणरूपत्वम्
ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव प्रव्रजेत् (जाबा.उ.४) इति जाबालानामाश्रमविधिमसन्तमिव कृत्वा, एतेष्वन्यपरेष्वपि वाक्येष्वाश्रमप्राप्तिरवश्याश्रयणीया इत्युपपादितम् ।
विविधश्रुतीनां तात्पर्यसमीकरणम्
एवमाश्रमान्तरविधानात् ऋणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्तविषया एवेति वेदितव्याः। अन्याश्च ब्रह्मविदः कर्मणामाप्रयाणात् अवश्यकर्तव्यताविधायिन्यः श्रुतयः स्मृतयश्च स्वस्वाश्रमधर्मविषयाः ।
अत ऊर्ध्वरेतस्सु च ब्रह्मविद्याविधानाद्विद्यातः पुरुषार्थ इति सिद्धम् ॥२०॥
इति श्रीशारीरकमीमांसाभाष्ये पुरुषार्थाधिकरणम् ॥ १॥