२६ यथाश्रयभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम्॥२६॥

अधिकरणार्थः

उद्गीथाद्यङ्गाश्रितानामुपासनानां पृथक्फलतायाः उद्गीथाद्यनङ्गतायाश्च दर्शनात् क्रतुषूपादानानियमो दृढैव

४१३. अङ्गेषु यथाश्रयभावः ॥ ३–३–५९ ॥

विषयसंशययोः प्रदर्शनम्

उद्गीथादिक्रत्वङ्गेष्वाश्रिताः ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) इत्यादिकाः विद्याः किमुद्गीथादिवत्क्रत्वर्थतया क्रतुषु नियमेनोपादेयाः, उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति विशये –

पूर्वः पक्षः

नियमेनोपादेया इति युक्तम् ।

अधिकरणस्यास्य कृतकरत्वशङ्कापरिहारः

ननु चासां पुरषार्थत्वेनानियमः प्रतिपादितः तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् (शारी.३.३.४१) इत्यत्र । सत्यम्; तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्त्या चाक्षिप्यते । तत्र हि तेनोभौ कुरुतः (छा.१.१.१०) इत्यनियमदर्शनात् पृथक्फलत्वमुक्तम्; उपासनाश्रयभूतोद्गीथादिवत् उपासनानामप्यङ्गतयोपादाननियमे बहवो हेतव उपलभ्यन्ते; न ह्यत्र गोदोहनेन पशुकामस्य प्रणयेत् इत्यादिवदुपासनाविधिवाक्ये फलसम्बन्धः श्रूयते; उद्गीथमुपासीत (छा.१.१.१) इत्युद्गीथादिसम्बन्धितयैवोपासनं प्रतीयते।

स्ववाक्ये फलसम्बन्धाश्रवणस्पष्टीकरणम्

यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम् (छा.१.१.१०) इति वर्तमानोपदेशरूपवाक्यान्तराद्धि फलसम्बन्धो ज्ञायते; स्ववाक्येनैवाव्यभिचरित-क्रतुसम्बन्धि उद्गीथादिसम्बन्धेन निर्ज्ञातक्रत्वङ्गभावस्य वाक्यान्तरस्थवर्तमानफलसम्बन्धनिर्देशः अर्थवादमात्रं स्यात्, अपापश्लोकश्रवणादिवत्।

अतो यथोद्गीथादय उपासनाश्रयाः क्रत्वङ्गतया प्रयोगविधिना नियमेनोपादीयन्ते; तथा तदाश्रिताश्चोपासनास्तन्मुखेन क्रत्वङ्गभूता इति नियमेनोपादेया एव॥५९॥

उक्तार्थे श्रौतस्य विधानस्य नियामकत्वम्

४१४. शिष्टेश्च ॥ ३–३–६० ॥

शिष्टिः – शासनम्, विधानमित्यर्थः। उद्गीथमुपासीत (छां.१.१.१) इत्युद्गीथाङ्गतयोपासन-विधानाच्चोपादाननियमः। गोदोहनेन पशुकामस्य प्रणयेत् इत्यादिवद्विधिवाक्ये अधिकारान्तराश्रवणात् उद्गीथाङ्गभाव एव हि विधेय इति गम्यते ॥६०॥

श्रौतस्य दुरुद्गीथसमाधानवचनस्य नियमज्ञापकत्वम्

४१५. समाहारात् ॥ ३–३–६१ ॥

होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति (छां.१.५.५) इत्युपासनस्य समाहारनियमो दृश्यते। दुरुद्गीथं वेदनविहीनमुद्गीथम् । वेदनहानावन्येन समाधानं ब्रुवत्तस्य नियमेनोपादानं दर्शयति ॥६१॥

सोपासनप्रणवानुवृत्तेः उपासनानुवृत्तिज्ञापकत्वम्

४१६. गुणसाधारण्यश्रुतेश्च ॥ ३–३–६२ ॥

उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासनस्य तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति (छा.१-१-९) इति साधारण्यश्रुतेश्च उपासनसमाहारो गम्यते । तेन (छा.१.१.९) इति प्रकृतपरामर्शात्सोपासन एव प्रणवस्सर्वत्र सञ्चरति । अत उपासनस्य प्रणवसहभावनियमदर्शनाच्च उद्गीथाद्युपासनानां उद्गीथादिवत् नियमेनोपादानम्॥

सिद्धान्तसूत्रारम्भः

इति प्राप्त उच्यते –

४१७. न वा तत्सहभावाश्रुतेः ॥ ३–३–६३ ॥

न चैतदस्ति – यदुद्गीथाद्युपासनानां क्रतुषूद्गीथादिवदुपादाननियमः – इति। कुतः? तत्सहभावाश्रुतेः – उद्गीथाङ्गभावाश्रुतेरित्यर्थः। अङ्गभावे हि सहभावनियमो भवति ।

अङ्गत्वविरोध्यंशोपपादनम्

यद्यपि उद्गीथमुपासीत (छा.१.१.१) इत्यस्मिन् पदसमुदायेऽधिकारान्तरं न प्रतीयते; तथापि तदनन्तरमेव यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति विद्यायाः क्रतुवीर्यवत्तरत्वं प्रति साधनभावः प्रतिपाद्यते । तेन क्रतुफलात्पृथग्भूतफलसाधनभूता विद्या उद्गीथमुपासीत (छा.१.१.१) इति कर्तव्यतया विधीयते। क्रतुफलात्पृथग्भूतफलसाधनतया अवगतस्योपासनस्य क्रत्वङ्गभूतोद्गीथाङ्गतया विनियोगो नोपपद्यते।

उपासनं प्रत्युद्गीथस्य आश्रयतामात्रम्

अथ उपासनस्याश्रयापेक्षायां सन्निहितः उद्गीथः आश्रयमात्रं भवति। उद्गीथश्च क्रत्वङ्गभूत इति क्रतुप्रयुक्तोद्गीथाद्याश्रये उपासने क्रत्वधिकारिण एव क्रतोर्वीर्यवत्तरत्वेच्छा-निमित्तमिदमधिकारान्तरमिति न क्रतुषु तदुपादाननियमः। वीर्यवत्तरत्वं च क्रतुफलस्य प्रबलकर्मान्तरफलेनाप्रतिबन्ध इत्युक्तम्। क्रतोरविलम्बितफलत्वमित्यर्थः।

पर्णताविधिवैलक्षण्यस्य श्रुत्या स्पष्टीकरणम्

पर्णतादीनां तु यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति (छां.१.२.१०) इति विद्यायाः फलसाधनत्ववदपापश्लोकश्रवणादिफलं प्रति साक्षात्साधनभावो न श्रुत इति क्रत्वङ्गभूतजुह्वाद्यङ्गतया विनियोगाविरोधात्तदङ्गभूतानां फलान्तरसाधनभावकल्पनानुपपत्तेस्तत्र फलश्रुतिरर्थवादमात्रं स्यात् ॥६३॥

उपासनोपादानानियमस्य श्रुत्या स्पष्टीकरणम्

४१८. दर्शनाच्च॥ ३–३–६४ ॥

दर्शयति च श्रुतिरुपासनोपादानानियमम्, एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्त्विजोऽभिरक्षति (छा.४.१७.१०) इति ब्रह्मणो वेदनेन सर्वेषां रक्षणं ब्रुवती । उद्गातृप्रभृतीनां वेदनस्यानियमे सत्येतदुपपद्यते। अनेन लिङ्गेन पूर्वोक्तानां समाहारादिलिङ्गानां प्रायिकत्वमवगम्यते। अतोऽनियम एवेति स्थितम् ॥६४॥

इति श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम् ॥२६॥

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये तृतीयस्याध्यायस्य तृतीयः पादः॥३॥