श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम्॥२४॥
अधिकरणार्थः
ब्रह्मप्राप्त्येकफलानामपि वेदान्तोदितानां विद्यानां शब्दादिभेदतः स्वरूपभेदः
४१०. नाना शब्दादिभेदात् ॥ ३–३–५६ ॥
विचारणीयार्थोपस्थापनम्
इह ब्रह्मविद्यास्सर्वाः ब्रह्मप्राप्तिरूपमोक्षैकफलाः सद्विद्याभूमविद्यादहरविद्योपकोसल-विद्याशाण्डिल्यविद्यावैश्वानरविद्यानन्दमयविद्याक्षरविद्यादिका एकशाखागताश्शाखान्तरगताश्च उदाहरणम्; अन्याः प्राणाद्येकविषयफलाश्च ।
विचारौपयिकः संशयः
किमत्र विद्यैक्यम्, उत विद्याभेद इति संशय्यते।
कर्मकाण्डोक्तन्यायतः पौनरुक्त्यशङ्काया निरासः
अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायास्सर्ववेदान्तप्रत्ययन्यायः।
पूर्वः पक्षः सयुक्तिकः
किं युक्तम्? विद्यैक्यमिति। कुतः? वेद्यस्य ब्रह्मण एकत्वात्; वेद्यं हि विद्याया रूपम्; अतो रूपैक्याद्विद्यैक्यमिति॥
सूत्रार्थविवरणतः सिद्धान्तः
एवं प्राप्तेऽभिधीयते नाना – इति। नानाभूता विद्याः; कुतः? शब्दादिभेदात् – आदिशब्देनाभ्याससङ्ख्यागुणप्रक्रियानामधेयानि गृह्यन्ते; शब्दान्तरादिभिरत्र विधेयभेदहेतवः अनुबन्धभेदाः दृश्यन्ते ।
सर्वेषामुपासनानां प्रत्ययैस्वरूपत्वेऽपि विद्यानां भेदोपपत्तिः
यद्यपि वेदोपासीतेत्यादयः शब्दाः प्रत्ययावृत्त्यभिधायिनः; प्रत्ययाश्च ब्रह्मैकविषयाः; तथाऽपि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादि-विशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्य-वबोधिनः प्रत्ययावृत्तिरूपाः विद्याः भिन्दन्ति। ब्रह्मप्राप्तिरूपफलसम्बन्ध्युपासन-विशेषाभिधायीनि च निराकांक्षाणि वाक्यानि प्रतिप्रकरणं विलक्षणविद्याभिधायीनीति निश्चीयते।
पूर्वकाण्डतोऽवगतस्य पुनरभिधानौचित्यम्
अस्मिन्नर्थे शब्दान्तरे कर्मभेदः (जै.सू.१-१-२) इत्यादिभिः पूर्वकाण्डोदितैस्सूत्रैस्सिद्धेऽपि पुनरिह प्रतिपादनं वेदान्तवाक्यानि अवधेयज्ञानपराणीति कुदृष्टिनिरसनाय। अतो विद्याभेद इति स्थितम् ॥ ५६ ॥
इति श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम् ॥२४॥