२२ अङ्गावबद्धाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम् ॥२२॥

अधिकरणार्थः

उद्गीथाद्यङ्गाश्रयाणां उपासनानां उद्गीथादिवत् सर्वशाखास्थक्रतुष्वप्यन्वयः

४०७. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३–३–५३ ॥

विचारणीयविषयोपस्थापनम्

ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) लोकेषु पञ्चविधं सामोपासीत (छा.२.२.१) उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी (ऐतरेय आ.२.१.२) अयं वाव लोक एषोऽग्निचितः (अग्निरहस्यं) इत्येवमाद्याः क्रत्वङ्गाश्रयाः उपासनाः भवन्ति ।

विचारौपयिकः संशयः

ताः किं यासु शाखासु श्रूयन्ते, तास्वेव नियताः, उत सर्वासु शाखासूद्गीथादिषु सम्बध्यन्त इति विचारः।

अधिकरणारम्भाक्षेपशङ्कानिरासः

सर्ववेदान्तप्रत्ययत्वे स्थितेऽपि प्रतिवेदं स्वरभेदादुद्गीथादयो भिद्यन्त इति तत्र तत्र व्यवतिष्ठेरन्निति युक्ता शङ्का ।

सयुक्तिकः पूर्वपक्षः

किं युक्तम्? व्यवतिष्ठेरन्निति । कुतः? उद्गीथमुपासीत (छां.१.१.१) इति सामान्येनोद्गीथसम्बन्धितया श्रुतायास्तस्यामेव शाखायां स्वरविशेषयुक्तस्य उद्गीथविशेषस्य सन्निधानात्तस्मिन्नेव विशेषे पर्यवसानं युक्तमिति । एवमाद्यास्तास्वेव शाखासु व्यवतिष्ठेरन्निति॥

सिद्धान्तार्थः सूत्रार्थविवृत्या

एवं प्राप्ते प्रचक्ष्महे – अङ्गावबद्धास्तु – इति। तु शब्दः पक्षं व्यावर्तयति; नह्युद्गीथाद्यङ्गावबद्धा उपासनास्तास्वेव शाखासु व्यवतिष्ठेरन्, अपि तु प्रतिवेदं सम्बध्येरन्; सर्वासु शाखास्वित्यर्थः । हि शब्दो हेतौ। यस्माच्छ्रुत्यैवोद्गीथाद्यङ्गमात्रावबद्धाः, तस्माद्यत्रोद्गीथादयः, तत्र सर्वत्र सम्बध्येरन्।

स्वरभेदायत्तोद्गीथभेदतो व्यवस्थाया निरासः

यद्यपि स्वरभेदेनोद्गीथव्यक्तयो भिद्यन्ते; तथापि सामान्येनोद्गीथश्रुत्या सर्वा व्यक्तयस्सन्निहिता इति न क्वचिद्व्यवस्थायां प्रमाणमस्ति । सर्वशाखाप्रत्ययन्यायेन च सर्वासु शाखासु क्रतुरेकः। अतस्सर्वासु शाखास्वेकस्य क्रतोस्सन्निधानात् क्रत्वङ्गभूतोद्गीथादयोऽपि सन्निहिता इति नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था ॥ ५३॥

मन्त्रादिदृष्टान्तेन शास्त्रान्तरीयक्रत्वङ्गोद्गीथादिष्वप्युपासनान्वयः

४०८. मन्त्रादिवद्वाऽविरोधः ॥ ३–३–५४ ॥

वाशब्दश्चार्थे; आदिशब्देन जातिगुणसङ्ख्यासादृश्यक्रमद्रव्यकर्माणि गृह्यन्ते; यथा मन्त्रादीनामेकैकशाखास्वाम्नातानामपि शेषिणः क्रतोस्सर्वशाखास्वेकत्वेन यथायथं श्रुत्यादिभिस्सर्वासु शाखासु विनियोगो न विरुध्यते; तद्वदिहाप्यविरोधः ॥५४॥

इति श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम्॥२२॥