२१ शरीरेभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम्॥२१॥

अधिकरणार्थः

उपासककर्तृकं प्रत्यगात्मभूतस्य स्वात्मनोऽनुसन्धानम् आविर्भूयमानगुणाष्टकवत्वेन

४०५. एक आत्मनश्शरीरे भावात् ॥ ३–३–५१ ॥

विचारणीयविषयोपस्थापनम्

सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तं – त्रयाणामेव चैवमुपन्यासः प्रश्नश्च (ब्र.सू.१.४.३) इति। वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेन अनुसन्धानम् आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति ।

विचारौपयिकः संशयः

किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चारक्षमोऽनुसन्धेयः, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिस्वरूपः? ॥

सहेतुकः पूर्वः पक्षः

किं युक्तम्? ज्ञातृत्वाद्याकारमात्र इत्येके मन्यन्ते ॥

कुतः? अस्योपासकस्यात्मनः शरीरे भावात्; शरीरे वर्तमानस्य तादृशमेव रूपम्; तावतैवानुसन्धानेन तत्फलसिद्ध्युपपत्तेश्च ॥

उक्तार्थे काम्यकर्मानुष्ठातृदृष्टान्तीकरणम्

न हि कर्मस्वधिकृतानां स्वर्गादिफलार्थिनां ज्ञातृत्वाद्यतिरेकेण फलानुभवदशायां यादृशं रूपम्, तादृशं रूपं साधनानुष्ठानदशायामनुसन्धातव्यम्, तावतैव साधनानुष्ठानतत्फलयोस्सिद्धेः अतिरिक्तानुसन्धाने प्रयोजनाभावात्; तदविशेषादिहापि तथैव।

फलसिद्धेः अनुपपत्तिशङ्कापरिहारौ

ननु चात्र यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेतः प्रेत्य भवति (छां.३.१४.१) इति विशेषवचनादपहतपाप्मत्वाद्याकार एवानुसन्धातव्य इत्यवगम्यते; नैवम्, तं यथायथोपासते (मुद्गल.उप.३) इत्युपास्यविषयत्वात्तस्य॥

सिद्धान्तपरं सूत्रं तद्विवरणं च

विश्वास-प्रस्तुतिः

एवं प्राप्ते प्रचक्ष्महे -

४०६. +++(ध्येयः संसारावस्था-)+++व्यतिरेकस् तद् भाव-भावित्वान्, न तु +++(संसारावस्था)+++, +++(यथावस्थित-ब्रह्म-)+++उपलब्धिवत् ॥ ३–३–५२ ॥

मूलम्

एवं प्राप्ते प्रचक्ष्महे -

४०६. व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ३–३–५२ ॥

विश्वास-प्रस्तुतिः

न त्व् एतद् अस्ति –
यज् ज्ञातृत्वाद्य्-आकार एवानुसन्धेय इति;

मूलम्

न त्वेतदस्ति – यत् ज्ञातृत्वाद्याकार एवानुसन्धेय इति;

विश्वास-प्रस्तुतिः

अस्यात्मनस् संसार-दशायाः मोक्ष-दशायां यो व्यतिरेकः,
सोऽपहत-पाप्मत्वादिको ऽनुसन्धेयः;

मूलम्

अस्यात्मनस्संसारदशायाः मोक्षदशायां यो व्यतिरेकः, सोऽपहतपाप्मत्वादिकोऽनुसन्धेयः;

विश्वास-प्रस्तुतिः

अस्य मोक्ष-दशायां यादृशं रूपं,
तादृग्-रूप एवोपासन-वेलायाम् आत्मा ऽनुसन्धेय इत्यर्थः।

मूलम्

अस्य मोक्षदशायां यादृशं रूपं, तादृग्रूप एवोपासनवेलायामात्माऽनुसन्धेय इत्यर्थः।

विश्वास-प्रस्तुतिः

कुतः? तद्-भाव-भावित्वात् = तद्-रूपापत्तेः;

मूलम्

कुतः? तद्भावभावित्वात् तद्रूपापत्तेः;

विश्वास-प्रस्तुतिः

यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति (छा.३.१४.१)

मूलम्

यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति (छा.३.१४.१)

विश्वास-प्रस्तुतिः

तं यथा-यथोपासते तथैव भवति (मुद्गल.उप.३.१)

मूलम्

तं यथायथोपासते तथैव भवति (मुद्गल.उप.३.१)

विश्वास-प्रस्तुतिः

इति यथोपासनम् एव हि प्राप्तिः श्रूयते।

मूलम्

इति यथोपासनमेव हि प्राप्तिः श्रूयते।

विश्वास-प्रस्तुतिः

न च “पर–स्व-रूप-मात्र-विषयम् एवेदम्”
इति वक्तुं शक्यते,
प्रत्यग्-आत्मनो ऽप्य् उपास्य-भूत–पर-ब्रह्म-शरीरतयोपास्यकोटि-निक्षिप्तत्वात् ।

मूलम्

न च परस्वरूपमात्रविषयमेवेदमिति वक्तुं शक्यते, प्रत्यगात्मनोऽप्युपास्यभूतपरब्रह्मशरीरतयोपास्यकोटिनिक्षिप्तत्वात् ।

विश्वास-प्रस्तुतिः

अतः प्रजा-पति-वाक्योदित- -+अपहत-पाप्मत्वादि-गुणक- प्रत्यग्-आत्म-शरीर-परमात्मोपासनस्य
तथा-रूपम् एव प्राप्यम्
इत्य् उस्क्तं भवति।

मूलम्

अतः प्रजापतिवाक्योदित-अपहतपाप्मत्वादिगुणकप्रत्यगात्मशरीरपरमात्मोपासनस्य तथारूपमेव प्राप्यमित्युक्तं भवति।

प्राप्याकारस्यैवाऽनुसन्धेयता

विश्वास-प्रस्तुतिः

अत एव

एवं-क्रतुर् हामुं लोकं प्रेत्याभिसम्भवितास्मि (अग्निरहस्यं)

इत्य् उच्यते।

मूलम्

अत एव एवं क्रतुर्हामुं लोकं प्रेत्याभिसम्भवितास्मि (अग्निरहस्यं) इत्युच्यते।

विश्वास-प्रस्तुतिः

तस्मात् प्रत्यग्-आत्मा प्राप्याकार एवानुसन्धेयः।

मूलम्

तस्मात्प्रत्यगात्मा प्राप्याकार एवानुसन्धेयः।

विश्वास-प्रस्तुतिः

उपलब्धिवत्

यथा ब्रह्मोपलब्धिर् विहिता
यथावस्थित-ब्रह्म–स्व-रूप-विषया,
तथाऽऽत्मोपलब्धिर् अपि
यथाऽवस्थितात्म-स्वरूप-विषया

इत्य् अर्थः ।

मूलम्

उपलब्धिवत् – यथा ब्रह्मोपलब्धिर्विहिता यथावस्थितब्रह्म-स्वरूपविषया, तथाऽऽत्मोपलब्धिरपि यथावस्थितात्मस्वरूपविषयेत्यर्थः ।

काम्यानुष्ठातुः दृष्टान्तत्वस्य वैषम्यम्

कर्मस्वात्मस्वरूपानुसन्धानं कर्माङ्गम्; यजेत स्वर्गकामः (यजु.२.५.५) इति कर्मानुष्ठानमेव हि फलाय चोपद्यते। देहातिरिक्तज्ञातृत्वाद्याकारात्मावगतिः कालान्तरभाविफलसाधन-कर्माधिकारार्थेति तावन्मात्रमेव तत्रापेक्षितमिति न किञ्चिदपहीनम् ॥ ५२॥

इति श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम्॥२१॥