श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम्॥२०॥
अधिकरणार्थः
अग्निरहस्यब्राह्मणोक्तानां मनश्चिदादीनां विद्यामयक्रत्वनुप्रविष्टता
३९८. पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ३–३–४४ ॥
विचारणीयविषयोपस्थापनम्
वाजसनेयके अग्निरहस्ये मनश्चितादयोऽग्नयः श्रूयन्ते – मनश्चितो वाक्चितः प्राणचितः चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः (अग्निरहस्यं) इति ।
विचारौपयिकस्संशयः
तत्र संशयः – किमेते मनश्चितादयस्साम्पादिकत्वेन विद्यारूपा अग्नयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपाः, आहोस्विद्विद्यामयक्रत्वनुप्रवेशेन विद्यारूपा एव – इति विशये
पूर्वः पक्षः सूत्रत एव
क्रियारूपत्वं तावदाह – पूर्वविकल्पः – इत्यादिना। चित्याग्नित्वेन सम्पादितानामेषां मनश्चितादीनां क्रत्वनुप्रवेशसाकांक्षाणां स्वदेशे क्रतुविध्यभावात्पूर्वत्र असद्वा इदमग्र आसीत् (अग्निरहस्यं) इत्यादिनेष्टकचितस्याग्नेः प्रकृतत्वात् तस्य च क्रियामयक्रत्वव्यभिचारित्वेन तत्र क्रतुसन्निधानात्तत्प्रकरणगृहीता मनश्चितादयस्तेनेष्टकचितेनाग्निना विकल्प्यमानाः क्रियारूपा एव स्युः। विद्यारूपाणामपि क्रियामयक्रत्वनुप्रवेशेन क्रियारूपत्वं मानसग्रहवदुपपद्यते। यथा द्वादशाहे अविवाक्ये दशमेऽहनि मानसग्रहस्य मनोनिष्पाद्यग्रहणासादनस्तोत्र-शस्त्रप्रत्याहरणभक्षणत्वेन विद्यारूपस्यापि क्रियामयक्रत्वङ्गतया क्रियारूपत्वम्; तथेहापि ॥ ४४॥
उक्तार्थदृढीकरणम्
३९९. अतिदेशाच्च ॥ ३–३–४५ ॥
इतश्चेष्टकचितेनाग्निना मनश्चितादीनां विकल्पः क्रियारूपत्वं चावगम्यते; तेषामेकैक एव तावान् यावानसौ पूर्वः (अग्निरहस्यम्) इति पूर्वस्येष्टकचितस्याग्नेर्वीर्यं मनश्चितादिष्वतिदिश्यते; तेन तुल्यकार्यत्वाद्विकल्पः। ततश्चेष्टकचितवत्तत्क्रतुनिर्वर्तनेन तदङ्गभूताः मनश्चितादयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति ॥ ४५॥
सिद्धान्तसूत्राणि
एवं प्राप्ते प्रचक्ष्महे –
४००. विद्यैव तु निर्धारणाद्दर्शनाच्च ॥ ३–३–४६ ॥
तुशब्दः पक्षं व्यावर्तयति; यदुक्तं मनश्चितादयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति; नैतदस्ति; विद्यारूपा एवैते- विद्यारूपक्रत्वन्वयिन इत्यर्थः। कुतः? निर्धारणाद्दर्शनाच्च; निर्धारणं तावत् ते हैते विद्याचित एव विद्यया हैवैत एवंविदश्चिता भवन्ति (अग्निरहस्यम् १०.५.३) इति; वाङ्मनश्चक्षुरादिव्यापाराणामिष्टकादिवच्चयनानुपपत्तेर्मनसा सम्पादिताग्नित्वेन विद्यारूपत्वे सिद्धेऽपि विद्याचित एव, विद्यया हैवैते (अग्निरहस्यम् १०.५.३) इति चावधारणं विद्यामयक्रत्वन्वयेन विद्यारूपत्वज्ञापनार्थमिति निश्चीयते ।
दर्शनाच्चेति सौत्रभागव्याख्यानम्
दृश्यते चात्रैवैषां शेषी विद्यारूपः क्रतुः ते मनसैवाधीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसा स्तुवन्त मनसा शंसन् यत्किञ्च यज्ञे कर्म क्रियते, यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सु मनोमयमक्रियत (अग्निरहस्यम् १०.५.३.३) इति। इष्टकचितेष्वग्निषु यत्क्रियामयं यज्ञीयं कर्म क्रियते; तन्मनोनिर्वर्त्येषु मनश्चिताद्यग्निषु मनोमयमेवाक्रियतेति वचनात् क्रतुरपि विद्यामयोऽत्र प्रतीयते ॥४६॥
विद्यारूपत्वस्य बाधशङ्कातत्परिहारौ
नन्वत्र विधिपदाश्रवणात् फलसम्बन्धाप्रतीतेश्चेष्टकचिताग्न्युपस्थापितक्रियामयक्रतु-प्रकरणाद्विद्यामयक्रत्वन्वयेन विद्यारूपतैषां बाध्यते, नेत्याह –
४०१. श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ३–३–४७ ॥
श्रुतिलिङ्गवाक्यानां प्रकरणाद्वलीयस्त्वेन श्रुत्याद्यवगतः क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते; श्रुतिस्तावत् – ते हैते विद्याचित एव (अग्निरहस्यं) इति। तां विवृणोति विद्यया हैवैत एवंविदश्चिता भवन्ति (अग्निरहस्यं) इति। विद्यया विद्यामयेन क्रतुना सम्बद्धा मनश्चितादयश्चिता भवन्तीत्यर्थः । तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते (अग्निरहस्यं) इति लिङ्गम्। वाक्यं च एवंविदे चिन्वन्ति (अग्निरहस्यं) इति । समभिव्याहारो वाक्यम् । एवंविदे विद्यामयक्रतुमते सर्वदा सर्वाणि भूतानि चिन्वन्तीत्यर्थः । सर्वभूतकर्तृकं सर्वकालव्यापि चयनं मनसा सम्पादितं परिमितकर्तृकालक्रियामयेष्टकचितकार्यद्वारेण क्रत्वनुप्रवेशसम्भवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ॥४७॥
पूर्वोक्तपूर्वपक्षहेत्वनुवादपूर्वकं सूत्रतो निरासः
यच्चेदमुक्तं – विधिप्रत्ययाश्रवणात्फलसम्बन्धाप्रतीतेश्च क्रियामयात्क्रतोरन्योऽत्र विद्यामयः क्रतुर्न सम्भवति – इति, तत्राह –
४०२. अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ३–३–४८ ॥
इष्टकचितान्वयिनः क्रियामयात्क्रतोर्विद्यामयोऽयं क्रतुः पृथक्त्वेन अनुबन्धादिभ्यः पृथक्त्वहेतुभ्योऽवगम्यते। अनुबन्धाः यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादयः मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन् (अग्निरहस्यं) इत्यादिना प्रतिपादिताः। आदिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते। श्रुत्यादिभिस्सानुबन्धैर्विद्यामयक्रतुः पृथगवगम्यत इत्यर्थः। प्रज्ञान्तरपृथक्त्ववत् – यथा प्रज्ञान्तरं दहरविद्यादि क्रियामयात्क्रतोः पृथग्भूतं श्रुत्यादिभिरवगम्यते, एवमयमपि । एवं चानुबन्धादिभिः पृथग्भूते विद्यामये यज्ञेऽवगते सति विधिः परिकल्प्यते । दृष्टश्चानुवादसरूपेषु कल्प्यमानो विधिः । तदुक्तं – वचनानि त्वपूर्वत्वात् (जै.सू.३.५.२१) इति । फलं च तेषामेकैक एव तावान् यावानसौ पूर्वः (अग्निरहस्यं) इत्यतिदेशात् स्वक्रतुद्वारेणेष्टकचितस्याग्नेः यत्फलम्, तदेव मनश्चितादीनामपि स्वक्रतुद्वारेण फलमित्यवगम्यते ॥४८॥
अतिदेशस्य पूर्वपक्षोपष्टम्भकतानिरासः
यत्पुनरतिदेशेन तुल्यकार्यत्वावगमात्क्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम्, तत्राह –
४०३. न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ३–३–४९ ॥
नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम्, येन क्रियामयक्रत्वनुप्रवेश एषां स्यात्, यस्मात्कस्माच्चित्सामान्यमात्रादतिदेशोपलब्धेः; उपलभ्यते हि स एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः (अग्निरहस्यं – ३०-५-२) इत्यादिषु संहर्तृत्वादिसामान्यमात्रादतिदेशः; न हि तत्र मण्डलपुरुषस्य मृत्युवत् तल्लोकापत्तिः – तद्देशप्राप्तिरपि भवति; एवमिहापि मनश्चितादीनामिष्टकचिताग्निवद्भावातिदेशमात्रेणेष्टकचिताग्निदेशरूपक्रियामयक्रत्वनुप्रवेशेनापि न भवितव्यम्। अत इष्टकचिताग्नेः स्वक्रतुद्वारेण यत्फलम् तदेव मनश्चितादीनामपि विद्यामयकतुद्वारेण फलमित्यति-देशादवगम्यते ॥४९ ॥
अनन्तरश्रुतस्य ब्राह्मणस्य सिद्धान्तोपष्टम्भकत्वोपपादनम्
४०४. परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ३–३–५० ॥
परेण च ब्राह्मणेनास्यापि मनश्चिताद्यभिधायिनः शब्दस्य ताद्विध्यं – तद्विधत्वम्, विद्यामयप्रतिपादित्वमवगम्यते; परेण हि ब्राह्मणेन अयं वाव लोक एषोऽग्निचितस्तस्याप एव परिश्रिताः (अग्निरहस्यं) इत्यादिना स यो हैतदेवं वेद लोकं पृणानामेनं भूतमेतत्सर्वमभिसम्पद्यते (अग्निरहस्यं) इति पृथक्फला विद्यैव विधीयते, तथा वैश्वानरविद्यादौ च विद्यैव विधीयते। अतोऽग्निरहस्यस्य क्रियैकविषयत्वं नास्ति । एवं तर्हि विद्यामयाः मनश्चितादयो बृहदारण्यकेऽनुबद्धव्याः किमर्थमिहानुबध्यन्ते, तत्रोच्यते – भूयस्त्वात्त्वनुबन्धः – इति। मनश्चितादिषु सम्पादनीयानामग्न्यङ्गानां भूयस्त्वात् सन्निधाविहानुबन्धः कृतः॥ ५०॥
इति श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम्॥२०॥