१९ लिङ्गभूयस्त्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम्॥१९॥

अधिकरणार्थः

तैत्तरीयकगतस्य सहस्रशीर्षकमित्यनुवाकस्य सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणपरत्वम्, न तु दहरविद्यामात्रशेषत्वम्

३९७. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ३–३–४३ ॥

विचारणीयविषयनिर्देशः

तैत्तिरीया दहरविद्यानन्तरमधीयते सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् इत्यारभ्य सोऽक्षरः परमस्स्वराट् (तै.ना.१) इत्यन्तम्।

विचारौपयिकः संशयः

तत्र संशयः- किं पूर्वप्रकृतविद्यैकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते, उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणम् – इति।

सहेतुकः पूर्वःपक्षः

किं युक्तम्? दहरविद्योपास्यविशेषनिर्धारणमिति। कुतः? प्रकरणात्। पूर्वस्मिन्ननुवाके दहरविद्या हि प्रकृता दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्। तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् (तै.ना.१०) इति। अस्मिंश्चानुवाके पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् (तै.ना.११) इत्यादिना हृदयपुण्डरीकाभिधानमस्य नारायणानुवाकस्य दहरविद्योपास्यनिर्धारणार्थत्वमुपोद्बलयतीति॥

सूत्रार्थविवृत्या सिद्धान्तार्थः

एवं प्राप्ते प्रचक्ष्महे लिङ्गभूयस्त्वात् – इति। अस्य निखिलपरविद्योपास्यविशेष निर्धारणार्थत्वे भूयांसि लिङ्गानि दृश्यन्ते; तथा हि परविद्यास्वक्षरशिवशम्भुपरब्रह्मपरज्योतिः परतत्त्वपरमात्मादिशब्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दैरनूद्य तस्य नारायणत्वं विधीयते; भूयसीषु विद्यासु श्रुताननूद्य नारायणत्वविधानभूयस्त्वं नारायण एव सर्वविद्यासूपास्यमस्थूलत्वादिविशेषितानन्दादिगुणकं परं ब्रह्मेति विशेषनिर्णये भूयः बहुतरं लिङ्गं भवति। अत्र लिङ्गशब्दः चिह्नपर्यायः। चिह्नभूतं वाक्यं बहुतरमस्तीत्यर्थः।

लिङ्गस्य बलीयस्त्वोपपत्तिः

तद्धि प्रकरणाद्बलीयः। तदप्युक्तं प्रथमकाण्डे – श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् (जै.मी.सू.३.३.१४) इति।

दहरमात्रशेषताया निरासः

यत्तूक्तं पद्मकोशप्रतीकाशम् (तै.ना.११) इत्यादिवचनं दहरशेषत्वमस्योपोद्बलयति – इति; तन्न, बलीयसा प्रमाणेन सर्वविद्योपास्यनिर्धारणार्थत्वेऽवधृते सति दहरविद्यायामपि तस्यैव नारायणस्योपास्यत्वेन तद्वचनोपपत्तेः। न च सहस्रशीर्षम् (तै.ना.११) इत्यादि द्वितीयानिर्देशेन पूर्वानुवाकोदितोपासिना सम्बन्धश्शङ्कनीयः, तस्मिन्यदन्तस्तदुपासितव्यम् (तै.ना.१०) इत्युपासिगतेन कृत्प्रत्ययेनोपास्यस्य कर्मणोऽभिहितत्वात्तदुपास्ये द्वितीयानुपपत्तेः। विश्वमेवेदं पुरुषः (तै.ना.११.अनु) तत्त्वं नारायणःपरः (तै.ना.११) इत्यादि प्रथमानिर्देशाच्च प्रथमार्थे द्वितीया वेदितव्या । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.ना.११) तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मा स शिवस्सेन्द्रः सोऽक्षरः परमस्स्वराट् (तै.ना.११) इति निर्देशैस्सर्वस्मात्परो नारायण एव सर्वत्रोपास्य इति निर्णीयमानत्वाच्च प्रथमार्थे द्वितीयेति निश्चीयते ॥४३॥

इति श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम्॥१९॥