१७ तन्निर्धारणानियमाधिकरणम्

श्री शारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम्॥१७॥

अधिकरणार्थः

कर्माङ्गाश्रितोद्गीथोपासनादेः क्रतुषु उपादेयतानियमाभावः

३९५. तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ३–३–४१ ॥

एतदधिकरणीयः संशयगर्भः पूर्वः पक्षः

ओमित्येतदक्षरमुद्गीथमुपासीत (छां.१.१.१) इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्गभूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानि इत्युद्गीथाद्युपासन-सम्बन्धिनो यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति वर्तमाननिर्देशस्य पर्णतादिसम्बन्धपापश्लोकश्रवणवत्पृथक्फलत्वकल्पनायोगात् क्रतुषु नियमेनोपसंहार्याणीति ॥

सूत्रारार्थतः सिद्धान्तप्रदर्शनम्

एवं प्राप्ते प्रचक्ष्महे – तन्निर्धारणानियमः – इति । निर्धारणं निश्चयेन मनसोऽवस्थापनम्, ध्यानमित्यर्थः; तन्निर्धारणानियमः – कर्मसूद्गीथाद्युपासनानामनियमः; कुतः? तद्दृष्टेः उपलभ्यते ह्युपासनानुष्ठानानियमः – तेनोभौ कुरुतो यश्चैतदेवं वेद, यश्च न वेद (छा.१.१.१०) इत्यविदुषोऽप्यनुष्ठानवचनात्। न चाङ्गत्वे सत्युपासनस्यानुष्ठानानियम उपपद्यते ।

उद्गीथोपासनस्य फलपार्थक्यम्

एवमुपासनस्यानङ्गत्वे निश्चिते सत्युपासनविधेः फलाकांक्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वं कर्मफलात्पृथग्भूतं फलमित्यवगम्यते।

किमिदं वीर्यवत्तरत्वम्? कर्मफलस्यैवाप्रतिबन्धः। प्रतिबध्यते हि कर्मफलं प्रबलकर्मान्तरफलेन तावन्तं कालम्; तदभावोऽप्रतिबन्धः। स ह्यप्रतिबन्धः कर्मफलात्स्वर्गादिलक्षणात्पृथग्भूतमेव फलम् । तदिदमुच्यते पृथग्घ्यप्रतिबन्धः फलमिति ।

अतः कर्माङ्गाश्रयाणामपि पृथक्फलत्वाद्गोदोहनादिवत् कर्मसु उद्गीथाद्युपासनानां अनियमेनोपसंहारः॥४१॥

इति श्रीशारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम् ॥१७॥