१५ अन्तरत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम्॥ १५ ॥

अधिकरणार्थः

उषस्त-कहोलयोः प्रश्न-प्रतिवचनाभ्याम् अवगता विद्या एकैव, न भिन्ना

३८९. अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा

भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३–३–३५ ॥

विचारणीयस्य विषयोपस्थापनम्

बृहदारण्यके उषस्तप्रश्न एवमाम्नायते यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्व (बृ.५.४.१) इति । तस्य प्रतिवचनं यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा इत्यादि । अतुष्टेन तेन पुनः पृष्ट आह न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेश्श्रोतारं शृणुयाः न मतेर्मन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तम् (बृ.५.४.२) इति । तथा तदनन्तरं कहोलप्रश्ने चैवमाम्नायते यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तन्मे व्याचक्ष्व (बृ.५.५.१) इति । प्रतिवचनं च योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एवं वै तमात्मानं विदित्वा ब्राह्मणः पुत्रेषणायाश्च वित्तैषणायाश्च (बृ.५.५.१) इत्यादि अतोऽन्यदार्तम् इत्यन्तम्।

विचारोपयोगी संशयः

तत्र संशय्यते किमनयोर्विद्याभेदोऽस्ति, नेति।

सयुक्तिकः पूर्वःपक्षः

किं युक्तम्? भेद इति; कुतः? रूपभेदात् । प्रतिवचनभेदाद्रूपं भिद्यते । प्रश्नस्यैकरूप्येऽपि प्रतिवचनप्रकारो हि भेदेनोपलभ्यते। पूर्वत्र प्राणनादीनां कर्ता सर्वान्तरात्मत्वेनोच्यते; परत्राशनायापिपासादिरहितः। अतः पूर्वत्र प्राणिता देहेन्द्रियबुद्धिमनःप्राणव्यतिरिक्तः प्रत्यगात्मोच्यते, परत्र तु तदतिरिक्तोऽशनायापिपासादिरहितः परमात्मा । अतो रूपं भिद्यते।

प्रत्यगात्मनि सर्वान्तरत्वौचित्यम्

भूतग्रामवतश्च प्रत्यगात्मनस्तस्य भूतग्रामस्य । सर्वस्यान्तरत्वेन सर्वान्तरत्वमप्युपपन्नम् । यद्यपि प्रत्यगात्मनः सर्वान्तरत्वं भूतग्राममात्रापेक्षत्वेनापेक्षिकं तथापि तदेव ग्राह्यम्, अन्यथा मुख्यान्तरात्मपरिग्रहलोभात्परमात्मस्वीकारे प्रतिवचनभेदो नोपपद्यते ।

प्रतिवचनं हि पूर्वत्र प्रत्यगात्मविषयम्, परमात्मनः प्राणितृत्वापानितृत्वाद्यसम्भवात् । परं च परमात्मविषयम्, अशनायापिपासाद्यतीतत्वात् । तदिदमाशङ्कते – अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरितिचेत् – इति । अन्तरा – सर्वान्तरत्वेन प्रथमप्रतिवचनं भूतग्रामवत्स्वात्मनः – भूतग्रामवान् तदन्तरः स्वात्मा- प्रत्यगात्मा सर्वान्तर इत्युच्यत इत्यर्थः। अन्यथा यः प्राणेन प्राणिति (बृ.५.४.१) योऽशनायापिपासाद्यतीतः – इति प्रतिवचनभेदानुपपत्तिरिति चेत् –

सूत्रान्त्यखण्डतः सिद्धान्तार्थः

अत्रोत्तरं – नेति । न विद्याभेद इत्यर्थः। उभयत्र परविषयत्वात्प्रश्नप्रतिवचनयोः । तथाहि यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः (बृ.५.४.१) इति प्रश्नस्तावत्परमात्मविषय एव, ब्रह्मशब्दस्य परमात्मासाधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनात्तव्द्यावृत्त्या परमात्मप्रतिपत्त्यर्थं यत्साक्षाद्ब्रह्म (बृ.५.४.१) इति विशेषणं क्रियते। अपरोक्षत्वमपि सर्वदेशसर्वकालसम्बन्धित्वं सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यनन्तत्वेनावगतस्य परमात्मन एवोपपद्यते। सर्वान्तरत्वमपि यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः (बृ.५.७.३) इत्यारभ्य य आत्मनि तिष्ठन्नात्मनोऽन्तरः (बृ.५.७.२२) इति सर्वान्तर्यामिणः परमात्मन एव सम्भवति । प्रतिवचनमपि तथैव परमात्मविषयम्। यः प्राणेन प्राणिति (बृ.५.४.१) इति निरुपाधिकं प्राणनस्य कर्तृत्वं परमात्मन एव, प्रत्यगात्मनस्सुषुप्तौ प्राणनम्प्रति कर्तृत्वाभावात्। एवमजानतोषस्तेन प्राणने कर्तृत्वमात्रमुक्तं मन्वानेन प्रत्यगात्मनोऽपि साधारणत्वं प्रतिवचनस्य मत्वा अतुष्टेन पुनः पृष्टस्तं प्रति प्रत्यगात्मनो व्यावृत्तं निरुपाधिकत्वेन प्राणनस्य कर्तारं परमात्मानमाह – न दृष्टेर्द्रष्टारं पश्येः (बृ.५.४.२) इत्यादिना ।

न दृष्टेर्द्रष्टारं इति श्रुतेरर्थः

इन्द्रियाधीनानां दर्शनश्रवणमननविज्ञानानां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथाः; तस्य सुषुप्तिमूर्च्छादौ प्राणनादेरकर्तृत्वात् । को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् (तै.आन.७.१) इति सर्वप्राणिप्राणनहेतुत्वं हि परमात्मन एवान्यत्र श्रुतम् ।

अतः पूर्वप्रश्नप्रतिवचने परमात्मविषये। एवमुत्तरे अपि, अशनायाद्यतीतत्वस्य परमात्मासाधारणत्वात्। उभयत्र अतोऽन्यदार्तम् (बृ.५.४.२); इत्युपसंहारश्चैकरूपः । प्रश्नप्रतिवचनावृत्तिस्तु कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणोऽशनायाद्यतीतत्वप्रतिपादनाय।

सूत्रस्थदृष्टान्तांशविवरणम्

तत्र दृष्टान्तमाह – उपदेशवदिति । यथा सद्विद्यायाम् उत तमादेशमप्राक्ष्यः (छा.६.१.३) इति प्रक्रान्ते सदुपदेशे भगवांस्त्वेव मे तद्ब्रवीत्विति (छा.६.१.७) भूय एव मा भगवान् विज्ञापयतु (छा.६.५.४) इति प्रश्नस्य एषोऽणिमा ऐतदात्म्यमिदं सर्वं तत्सत्यम् (छा.६.९.४) इति प्रतिवचनस्य च भूयोभूय आवृत्तिस्सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषप्रतिपादनाय दृश्यते; तद्वत् । अत एकस्यैव सर्वान्तरभूतस्य ब्रह्मणः कृत्स्नप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन रूपैक्याद्विद्यैक्यम् ॥३५॥

उपास्यगुणभेदकृतरूपभेदतो विद्याभेदशङ्कापरिहारौ

अथ स्यात् – यद्यप्युभे प्रश्नप्रतिवचने परब्रह्मविषये; तथापि विद्याभेदोऽवर्जनीयः, एकत्र सर्वप्राणिप्राणनहेतुत्वेनोपास्यम्, इतरत्राशनायाद्यतीतत्वेनेत्युपास्यगुणभेदेन रूपभेदात्, प्रष्टृभेदाच्च, पूर्वत्र उषस्तः प्रष्टा; उत्तरत्र कहोलः – इति; तत्राह –

३९०. व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३–३–३६ ॥

नात्र विद्याभेदः, प्रश्नप्रतिवचनाभ्यामेकरूपार्थविषयाभ्यामेकेन च विधिपदेनैकवाक्यत्वप्रतीतेः । प्रश्नद्वयं तावत्सर्वान्तरात्मत्वविशिष्टब्रह्मविषयम् । द्वितीये प्रश्ने यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः (बृ.५.५.१) इत्येवकारश्च पूर्वत्रोषस्तेन पृष्टगुणविशिष्टब्रह्मविषयत्वं कहोलप्रश्नस्यावधारयति ।

व्यतिहार्यांशविवरणम्

प्रतिवचनं चोभयत्र स त आत्मा सर्वान्तरः (बृ.५.४.१) इति सर्वान्तरात्मत्वविशिष्टब्रह्मविषयमेकरूपमेव। विधिप्रत्ययश्चोत्तरत्रैव दृश्यते, तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ.५.५.१) इति । एवं सर्वान्तरात्मत्वविशिष्टब्रह्मैकविषयत्वे द्वयोरवगते सत्येकस्मिन्नेव सर्वान्तरात्मत्वविशिष्टे ब्रह्मण्युपास्ये उषस्तकहोलयोरितरेतरबुद्धिव्यतिहारः कर्तव्यः । उषस्तस्य या सर्वान्तरात्मनो ब्रह्मणस्सर्वप्राणिप्राणनहेतुत्वविषया बुद्धिः; सा कहोलेनापि प्रष्ट्रा कार्या; या च कहोलस्य तस्यैव ब्रह्मणोऽशनायाद्यतीतत्वविषया बुद्धिः, सा उषस्तेनापि कार्या। एवं व्यतिहारे कृते उभाभ्यां सर्वान्तरस्य ब्रह्मणो जीवव्यावृत्तिरवगता भवति । एनं सर्वान्तरात्मानं प्रत्यगात्मनो व्यावृत्तमवगमयितुं सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन विशिंषन्ति हि याज्ञवल्क्यस्य प्रतिवचनानि । अतो ब्रह्मणस्सर्वान्तरात्मत्वमेवोपास्यगुणः। प्राणनहेतुत्वादयस्तु तस्योपपादकाः; नोपास्याः।

व्यतिहारेणानुसन्धाने प्रयोजनम्

ननूपास्यगुणः सर्वान्तरात्मत्वमेव चेत् – प्राणनहेतुत्वस्य अशनायाद्यतीतत्त्वस्य च प्रष्ट्रोः व्यतिहृत्यानुसन्धानं किमर्थम्?

तदुच्यते सर्वप्राणिप्राणनहेतुत्वेन सर्वान्तरात्मनि जीवाद्व्यावृत्ते ब्रह्मण्युषस्तेनावगते सति कहोलेन जीवस्य सर्वात्मना असम्भावितेन स्वभावविशेषेण सर्वान्तरात्मा व्यावृत्तोऽनुसन्धेय इति कृत्वा पुनः प्रश्नः कृतः । याज्ञवल्क्योऽपि तदभिप्रायमभिज्ञाय प्रत्यगात्मनोऽसम्भावितं अशनायादिप्रत्यनीकत्वमुक्तवान्। अतश्चोपास्यस्य व्यावृत्तिप्रतीतिसिद्ध्यर्थमुभाभ्यां परस्परबुद्धिव्यतिहारः कर्तव्यः।

सूत्रस्थदृष्टान्तांशविवरणम्

इतरवत् – यथेतरत्र सद्विद्यायां भूयोभूयः प्रश्नैः प्रतिवचनैश्च तदेव सद्ब्रह्म व्यवच्छिद्यते; न पुनः पूर्वप्रतिपन्नाद्गुणाद्गुणान्तरविशिष्टतयोपास्यं प्रतिपाद्यते; तद्वत् ॥२६॥

प्रश्नादेर्भेदेऽपि ऐक्यावगमोपपादनम्

तत्रापि प्रश्नप्रतिवचनभेदे सति कथमैक्यमवगम्यत इति चेत् तत्राह –

३९१. सैव हि सत्यादयः ॥ ३–३–३७ ॥

सैव हि – सच्छब्दाभिहिता परमकारणभूता परा देवतैव सेयं देवतैक्षत (छा.६.३.२) तेजः परस्यां देवतायाम् (छा.६.८.३) इति प्रकृता यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति (छा.६.९.१) इत्यादिषु पर्यायेषु सर्वेषूपपाद्यते। यतः ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा (छा.६.८.७) इति प्रथमपर्यायोदितास्सत्यादयस्सर्वेषु पर्यायेषूपपाद्योपसंह्रियन्ते ।

परकीयाधिकरणरचनाप्रकारः तद्दूषणं च

केचित्तु – व्यतिहारो विशिंषन्ति हीतरवत्, सैव हि सत्यादयः इति सूत्रद्वयमधिकरणद्वयं वर्णयन्ति । तत्र पूर्वेण त्वं वाऽहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहम् इति वाक्ये जीवपरयोर्व्यतिहारानुसन्धानं प्रतिपाद्यत इत्युच्यत इत्याहुः; तत् सर्वं खल्विदं ब्रह्म (छा.३.१४.१) ऐतदात्म्यमिदं सर्वम् (छा.६.१६.३) तत्त्वमसि (छां.६.१६.३) इत्यवगतसर्वात्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनीयमपूर्वमस्तीत्यनादरणीयम् । तत्तु वक्ष्यते – आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति । न च सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानम्, जीवे च परब्रह्मत्वानुसन्धानं, तथ्यं सम्भवति ।

परेषां उत्तरसूत्रार्थवर्णनेष्वनौचित्यम्

उत्तरेण च सूत्रेण स यो ह वै तन्महति यक्षं प्रथमजं वेद सत्यं ब्रह्म (बृ.७.४.१) इत्यादिवाक्यप्रतिपादितस्य सत्योपासनस्य तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन् (बृह.७.५.१) इत्यादिवाक्यप्रतिपादितोपासनस्य चैक्यं प्रतिपाद्यत इति; तदप्ययुक्तम्, उत्तरवाक्ये अक्ष्यादित्यस्थानभेदेन विद्याभेदस्य पूर्वमेव न वा विशेषात् (शारी.३.३.२१) इत्यनेन प्रतिपादितत्वात्।

अनौचित्योपपादनम्

न च द्वयोरनयोर्व्याहृत्यादिशरीरकत्वेन रूपवतोः हन्ति पाप्मानं जहाति च य एवं वेद (बृ.७.५.२) स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमान् लोकान् (बृ.७.४.१) इति पृथक्संयोगचोदनावतोर्द्वयोरुपासनयोः स यो ह वै तन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमान् लोकान् (बृ.४.७.१) इति संयोगरूपादिमत्तया निरपेक्षेण पूर्वेणैकेनोपासनेनाभेदस्सम्भवति ।

गुणफलाधिकारत्वासम्भवः

न च हन्ति पाप्मानं जहाति (बृ.७.५.१) इति गुणफलाधिकारत्वम्, प्रमाणाभावात् । पूर्वेणैकविद्यात्वं प्रमाणमिति चेत् – न, इतरेतराश्रयत्वात् । एकविद्यात्वे निश्चिते पूर्वफलस्यैव प्रधानफलत्वेनोत्तरयोः फलयोर्गुणफलत्वम्, तयोर्गुणफलत्वे निश्चिते सति संयोगभेदाभावात्पूर्वेण विद्यैक्यमितीतरेतराश्रयत्वमिति। एवमादिभिर्यथोक्तप्रकारमेव सूत्रद्वयम् ॥३७॥

इति श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम् ॥१५॥