१४ अक्षरध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम्॥१४॥

अधिकरणार्थः

अक्षरपरब्रह्मविद्योक्तानां अस्थूलत्वादीनां ब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः

३८७. अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३–३–३३ ॥

विचारणीयविषयोपस्थापनम्

बृहदारण्यके श्रूयते एतद्वै तदक्षरं गार्गि ब्रह्मणा अभिवदन्ति अस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुश्श्रोत्रं अवाङ्मनः अतेजस्कं अप्राणमसुखममात्रमनंतरमबाह्यं न तदश्नाति किञ्चन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृह.५.८.८) इति। तथा आथर्वणे अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् (मु.१.१.५) इति ।

संशयस्वरूपम्

तत्र संशयः – किमिमे अक्षरशब्दनिर्दिष्टब्रह्मसम्बन्धितया श्रुताः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतास्वरूपास्सर्वासु ब्रह्मविद्यास्वनुसन्धेयाः, उत यत्र श्रूयन्ते तत्रैव – इति ।

पूर्वपक्षः

किं युक्तम्? यत्र श्रुतास्तत्रैवेति। कुतः? विद्यान्तरस्य रूपभूतानां गुणानां विद्यान्तरस्य रूपत्वे प्रमाणाभावात्, प्रतिषेधरूपाणामेषामानन्दादिवत् स्वरूपावगमोपायत्वाभावाच्च । आनन्दादिभिरवगतस्वरूपे हि ब्रह्मणि स्थूलत्वादयः प्रपञ्चधर्माः प्रतिषिध्यन्ते, निरालम्बनप्रतिषेधायोगात् ॥

सूत्रार्थविवरणतः सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे – अक्षरधियां त्ववरोधः इति। अक्षरब्रह्मसम्बन्धिनामस्थूलत्वादिधियां सर्वब्रह्मविद्यास्ववरोधः – संग्रहणमित्यर्थः। कुतः? सामान्यतद्भावाभ्यां – सर्वेषूपासनेषूपास्यस्य अक्षरस्य ब्रह्मणः समानत्वादस्थूलत्वादीनां तत्स्वरूपप्रतीतौ भावाच्च ।

अस्थूलत्वादीनां ब्रह्मस्वरूपप्रतीत्यनुबन्धिता

एतदुक्तं भवति – असाधारणाकारेण ग्रहणं हि वस्तुनो ग्रहणम् । न च केवलमानन्दादि ब्रह्मणोऽसाधारणमाकारमुपस्थापयति, प्रत्यगात्मन्यपि आनन्दादेर्विद्यमानत्वात्। हेयप्रत्यनीको ह्यानन्दादिर्ब्रह्मणोऽसाधारणं रूपम् । प्रत्यगात्मनस्तु स्वतो हेयविरहिणोऽपि हेयसम्बन्धयोग्यता अस्ति; हेयप्रत्यनीकत्वं च चिदचिदात्मकप्रपञ्चधर्मभूतस्थूलत्वादि विपरीतरूपम् । अतोऽसाधारणाकारेण ब्रह्मानुसन्दधताऽस्थूलत्वादिविशेषितज्ञानानन्दाद्याकारं ब्रह्मानुसन्धेयमिति अस्थूलत्वादीनामानन्दादिवद्ब्रह्मस्वरूपप्रतीत्यन्तर्भावात्सर्वासु ब्रह्मविद्यासु तथैव ब्रह्मानुसन्धेयमिति ।

सूत्रोक्तदृष्टान्तविवरणम्

गुणानां प्रधानानुवर्तित्वे दृष्टान्तमाह – औपसदवत् इति । यथा जामदग्न्यचतूरात्र-पुरोडाश्युपसद्गुणभूतः सामवेदपठितः अग्निर्वै होत्रं वेतु (ताण्ड्य.ब्रा.२१.१०.११) इत्यादिको मन्त्रः प्रधानानुवर्तितया याजुर्वैदिकेनोपांशुत्वेन प्रयुज्यते। तदुक्तं प्रथमे काण्डे गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः (जै.सू.३.२.९) इति॥३३॥

उक्तार्थानुरोधे प्राप्ताया अव्यवस्थायाः परिहारः

नन्वेवं सर्वासु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वाद्गुणानां च प्रधानानुवर्तित्वात्।

सर्वकर्मा सर्वगन्धस्सर्वरसः (छा.३.१४.४) इत्यादेर्गुणजातस्य प्रतिविद्यं व्यवस्थितस्याप्यव्यवस्था स्यात्; तत्राह-

३८८. इयदामननात् ॥ ३–३–३४ ॥

आमननम् – आभिमुख्येन मननम् – अनुचिन्तनम् । आमननाद्धेतोरियदेव गुणजातं सर्वत्रानुसन्धेयत्वेन प्राप्तम्; यदस्थूलत्वादिविशेषितमानन्दादिकम् । येन गुणजातेन विना ब्रह्मस्वरूपस्येतरव्यावृत्तस्यानुसन्धानं न सम्भवति, तदेव सर्वत्रानुवर्तयनीयम्; तच्चेयदेवेत्यर्थः । इतरे तु सर्वकर्मत्वादयः प्रधानानुवर्तिनोऽपि चिन्तनीयत्वेन प्रतिविद्यं व्यवस्थिताः ॥३४॥

इति श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम् ॥१४॥