श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम्॥१२॥
पर्यङ्कविद्या – कौषी.उ.1
अधिकरणार्थः
विदुषः देहादपक्रमणसमये एव पुण्यपापयोर्निरवशेषहानचिन्तनम्
३८१. साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ३–३–२७ ॥
उक्तानुवादेन सङ्गत्यभिव्यञ्जनम्
सुकृतदुष्कृतयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम् ।
विचारोपयोगी संशयः
तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये
युक्त्या पूर्वपक्षः
उभयत्रेति युक्तम्, उभयथा श्रुतत्वात्; एवं हि कौषीतकिनस्समामनन्ति स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति (कौषी.१.३.४) इत्युपक्रम्य स आगच्छति विरजां नदीं तां मनसाऽत्येति तत्सुकृतदुष्कृते धूनुते (कौषी.१.३.४) इति। अत्र वाक्ये अध्वनि सुकृतदुष्कृतहानिः प्रतीयते । ताण्डिनस्तु अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१.१३) इति। अत्र तु देहवियोगकाल इति प्रतीयते; शाट्यायनकेऽपि तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम् इति पुत्रेषु दायसंक्रान्तिसमकालं सुकृतदुष्कृतसंक्रमणं श्रूयमाणं देहवियोगकाल इति गम्यते। अतस्सुकृतदुष्कृतयोरेकदेशो देहवियोगकाले हीयते; शेषस्त्वध्वनि –
सिद्धान्तार्थः सूत्रतः
इति प्राप्त उच्यते – साम्पराये – इति। साम्पराये – देहादपक्रमणकाले एव विदुषस्सुकृतदुष्कृते निरवशेषं हीयेते।
कुतः? तर्तव्याभावात् – विदुषो देहवियोगात्पश्चात्सुकृतदुष्कृताभ्यां तरितव्यभोगाभावात्। विद्याफलभूतब्रह्मप्राप्तिव्यतिरेकेण हि सुकृतदुष्कृताभ्यां भोक्तव्ये सुखदुःखे न विद्येते । तथा ह्यन्ये – देहिवयोगादूर्ध्वं ब्रह्मप्राप्तिव्यतिरिक्तसुखदुःखोपभोगाभावमधीयते अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः (छां.८.१२.१) एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छां.६.१२.२) तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा.६.१४.२) इति ॥२७॥
श्रुतेः अर्थस्वाभाव्यस्य चाविरोधतः अन्वयोपपादनम्
३८२. छन्दत उभयाविरोधात् ॥ ३–३–२८ ॥
एवमर्थस्वाभाव्यात्सुकृतदुष्कृतहानिकालेऽवधृते सत्युभयाविरोधेन श्रुतेरर्थस्वभावस्य चाविरोधेन छन्दतः – यथेष्टं पदानामन्वयो वर्णनीयः। कौषीतकीवाक्ये तत्सुकृतदुष्कृते धूनुते (कौषी.१.४.३) इति चरमश्रुतो वाक्यावयवः एतं देवयानं पन्थानमापद्य (कौषी.१.४.३) इति प्रथमश्रुतावयवात्प्रागनुगमयितव्य इत्यर्थः ॥२८॥
विदुषो गतिश्रवणान्यथानुपपत्त्या कर्मशेषानुवृत्तिशङ्का
अत्र पूर्वपक्षी प्रत्यवतिष्ठते –
३८३. गतेरर्थवत्त्वमुभथाऽन्यथा हि विरोधः ॥ ३–३–२९ ॥
सुकृतदुष्कृतयोरेकदेशस्य देहवियोगकाले हानिः, शेषस्य च पश्चादिति उभयथा कर्मक्षये सत्येव गतेरर्थवत्त्वम् – देवयानगतिश्रुतेरर्थवत्त्वमित्यर्थः । अन्यथा हि विरोधः – देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्यापि विनाशस्स्यात्; तथा सति केवलस्यात्मनो गमनं नोपपद्यते। अत उत्क्रान्तिसमये विदुषो निश्शेषकर्मक्षयो नोपपन्नः॥२९॥
उक्ताशङ्कासमाधानम्
अत्रोत्तरम् –
३८४. उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३–३–३० ॥
उपपन्न एवोत्क्रान्तिकाले सर्वकर्मक्षयः; कथम्? तल्लक्षणार्थोपलब्धेः, क्षीणकर्मणोऽप्याविर्भूस्वरूपस्य देहसम्बन्धलक्षणार्थोपलब्धेः । परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) स तत्र पर्येति जक्षत्क्रीडन् रममाणः (छां.८.१२.३) स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७.२५.२) स एकधा भवति त्रिधा भवति (छां.७.२६.२) इत्यादिषु देहसम्बन्धाख्योऽर्थो ह्युपलभ्यते । अतः क्षीणकर्माणोऽपि सूक्ष्मशरीरयुक्तस्य देवयानेन गमनमुपपद्यते।
कर्मणो निरवशेषक्षयेऽपि गमनोपयोगिदेहान्वयोपपत्तिः
कथं सूक्ष्मशरीरमप्यारम्भकर्मविनाशेऽवतिष्ठत इति चेत् विद्यामाहात्म्यादिति ब्रूमः । विद्या हि स्वयं सूक्ष्मशरीरस्यानारम्भिकाऽपि प्राकृतसुखदुःखोपभोगसाधनस्थूलशरीरस्य सर्वकर्मणां च निरवशेषक्षयेऽपि स्वफलभूतब्रह्मप्राप्तिप्रदानाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति; लोकवत् – यथा लोके सस्यादिसमृद्ध्यर्थमारब्धे तटाकादिके तद्धेतुषु तदिच्छादिषु विनष्टेष्वपि तदेव तटाकादिकमशिथिलं कुर्वन्तस्तत्र पानीयपानादि कुर्वन्ति; तद्वत् ॥३०॥
विदुषां देहपातानन्तरमपि सूक्ष्मशरीरानुवृत्तेर्विमर्शः
अथ स्यात् – ज्ञानिनां साक्षात्कृतपरतत्त्वानां देहपातसमये कर्मणो निरवशेषक्षयाद्देहपातादूर्ध्वं सूक्ष्मशरीरमात्रं गत्यर्थमनुवर्तते, सुखदुःखानुभवो न विद्यत – इति यदुक्तम्; तन्नोपपद्यते; वसिष्ठावान्तरतपःप्रभृतीनां साक्षात्कृतपरतत्त्वानां देहपातादूर्ध्वं देहान्तरसङ्गमः, पुत्रजन्मविपत्त्यादि-निमित्तसुखदुःखानुभवश्च दृश्यते – इति । अत उत्तरं पठति –
३८५. यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३–३–३१ ॥ (सि)
नास्माभिस्सर्वेषां ज्ञानिनां देहपातसमये सुकृतदुष्कृतयोर्विनाश उक्तः; अपि तु येषां ज्ञानिनां देहपातानन्तरं अर्चिरादिका गतिः प्राप्ता, तेषां देहपातसमये सुकृतदुष्कृतहानिरुक्ता। वसिष्ठादीनां त्वाधिकारिकाणां न देहपातानन्तरमर्चिरादिगतिप्राप्तिः, प्रारब्धस्याधिकारस्य असमाप्तत्वात् । तेषां कर्मविशेषेणाधिकारविशेषं प्राप्तानां यावदधिकारसमाप्ति तदारम्भकं कर्म न क्षीयते। प्रारब्धस्य हि कर्मणो भोगादेव क्षयः। अत आधिकारिकाणां तदारम्भकं कर्म यावदधिकारमवतिष्ठते। अतस्तेषां न देहपातादनन्तरमर्चिरादिगतिप्राप्तिः ॥३१॥
इति श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम् ॥१२॥