११ हान्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये हान्यधिकरणम्॥११॥

अधिकरणार्थः

विविधश्रुतिप्रतिपन्नयोरपि विदुषः पुण्य-पापहानोपायनयोः समन्येन सर्वविद्यासु चिन्तनम्

३८०. हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ॥ ३–३–२६ ॥

विचारणीयविषयोपस्थापनम्

छन्दोगा आमनन्ति – अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१३.१) इति; आथर्वणिकाश्च तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति (मु.३.१.३) इति; शाट्यायिनस्तु तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम् इत्यादि; कौषीतकिनस्तु तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् (कौषी.१.अ.४) इति। एवं क्वचित्पुण्यपापयोर्हानिः, क्वचित्प्रियाप्रियेषु तत्प्राप्तिः, क्वचिदुभयं च श्रुतम्। तदुभयमेकैकविद्यायां श्रुतमपि सर्वविद्याङ्गमास्थेयम्, सर्वब्रह्मविद्यानिष्ठस्यापि ब्रह्म प्राप्नुवतः पुण्यपापप्रहाणस्यावश्यंभावित्वात् प्रहीणविषयत्वाच्चोपायनस्य। तच्चिन्तनं च विधीयमानं सर्वविद्याङ्गं भवितुमर्हाति। तत्रेदं विचार्यते – हानिचिन्तनमुपायनचिन्तनमुभयचिन्तनं च विकल्प्येरन्, उपसंह्रियेरन्वा । किं युक्तम्? विकल्प्येरन्निति। कुतः? पृथगाम्नानसामर्थ्यात् । समुच्चये हि सर्वत्रोभयानुसन्धानं स्यात्, तच्च कौषीतकीवाक्यैनैव सिद्धमित्यन्यत्राम्नानमनर्थकमेव स्यात् । अतोऽनेकत्राम्नानस्य विकल्प एव प्रयोजनम्। न चाध्येतृभेदेन परिहर्तुं शक्यमनेकत्राम्नानम्, अविशेषपुनश्श्रवणं ह्यध्येतृभेदपरिहार्यम्, अत्र तु हानिरेव द्वयोः शाखयोः, उपायनमेव चैकस्याम् । न च विद्याभेदेन व्यवस्थापयितुं शक्यम्, सर्वशेषभूतमिदमनुसन्धानमित्युक्तत्वात्॥

अत्र सूत्रविवरणतः सिद्धान्तः

अत्रेदमुच्यते – हानौ तूपायनशब्दशेषत्वात् – इति। तु शब्दः पक्षं व्यावर्तयति, हानाविति प्रदर्शनार्थम्, केवलायां हानौ केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽवश्यंभावी; कुतः? उपायनशब्दशेषत्वात् उपायनशब्दस्य हानिवाक्यशेषत्वात् । उपायनवाक्यस्य हि हानिवाक्यशेषत्वेमेवोचितम्, विदुषा त्यक्तयोः पुण्यपापयोः प्रवेशस्थानवाचित्वादुपायनवाक्यस्य ।

सूत्रोत्तरखण्डोक्तदृष्टान्तविवरणम्

प्रदेशान्तराम्नातस्य वाक्यस्य प्रदेशान्तराम्नातवाक्यशेषत्वे दृष्टान्ता उपन्यस्यन्ते – कुशाच्छन्दस्स्तुत्युपगानवदिति। कालापिनः कुशा वानस्पत्याः इत्यामनन्ति; शाट्यायनिनां तु औदुम्बर्यः कुशाः इति वाक्यं सामान्येन वानस्पत्यत्वेनावगताः कुशाः औदुम्बर्य इति विशिंषत्तद्वाक्यशेषतामापद्यते; तथा देवासुराणां छन्दोभिः इत्यादिना अविशेषेण देवासुराणां छन्दसां प्रसङ्गे देवच्छन्दांसि पूर्वम् इति वचनं क्रमविशेषं प्रतिपादयत्तद्वाक्यशेषतां गच्छति; तथा हिरण्येन षोडशिनः स्तोत्रमुपाकरोति इत्यविशेषेण प्राप्ते समयाविशिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति (तै.सं.कां.६.११) इति विशेषविषयं वाक्यं तद्वाक्यशेषतां भजते; तथा ऋत्विज उपगायन्ति (पू.मी.१०.४.६) इत्यविशेषप्राप्तस्य नाध्वर्युरुपगायेत् (तै.सं.६.कां.३.१.६) इति वाक्यमनध्वर्युविषयतामवगमयत् तद्वाक्यशेषत्वमृच्छति; एवं सामान्येनावगतमर्थं विशेषे व्यवस्थापयितुं क्षमस्य वाक्यस्य तत्छेषत्वमनभ्युपगच्छद्भिस्तयोरर्थयोर्विकल्पस्समाश्रयितव्यः; स च सम्भवन्त्यां गतौ न युज्यते ।

तदुक्तमिति सूत्रखण्डविवरणम्

तदुक्तं पूर्वस्मिन् काण्डे अपि तु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात् (जैमि.सू.१०.८.४) इति। तदेवं केवलहानोपायनवाक्ययोरेकवाक्यत्वात्केवलस्य हानस्य, केवलस्यचोपायनस्याभावाद्विकल्पो नोपपद्यते। कौषीतकिनामुभयाम्नानमविशेषपुनश्श्रवणत्वेन प्रतिपत्तृभेदादविरुद्धम् ॥२६॥

इति श्रीशारीकमीमांसाभाष्ये हान्यधिकरणम्॥११॥