१० वेधाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम्॥१०॥

अधिकरणार्थः

शुक्रं प्रविध्येत्येवमादीनां आथर्वणिकादिभिरधीयमानानां मन्त्राणां अध्ययनाङ्गत्वमेव, न विद्याङ्गता

विचारणीयविषयोपस्थानम्

३७९. वेधाद्यर्थभेदात् ॥ ३–३–२५ ॥

विचारणीयविषयोपस्थानम्

आथर्वणिका उपनिषदारम्भे शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) इत्यादीन्मन्त्रानधीयते; सामगाश्च रहस्यब्राह्मणारम्भे देव सवितः प्रसुव यज्ञं प्रसुव (साम.ब्रा.१.१.१) इत्याद्यामनन्ति, काठकास्तैत्तिरीयकाश्च शं नो मित्रश्शंवरुणः (तै.शि.१) इत्यादिकम्; शाट्यायनिश्च श्वेतोऽश्वो हरिनीलोऽसि इत्यादिकम्; ऐतरेयिणस्तु महाव्रतब्राह्मणमधीयते इन्द्रो ह वै वृत्रं हत्वा महानभवत् इत्यादि; कौषीतकिनोऽपि महाव्रतब्राह्मणमेव प्रजापतिर्वै संवत्सरस्तस्यैष आत्मा यन्महाव्रतम् इति, वाजसनेयिनस्तु प्रवर्ग्यब्राह्मणं देवा हवै सत्रं निषेदुः इत्यादि।

संशयीयकोटिस्वरूपम्

तत्र संशयः – किमुपनिषदारम्भेष्वधीताः शुक्रं प्रविध्य (अथर्व.उ.१), शं नो मित्रः (तै.शिक्षा.१) इत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्याङ्गम्, उत नेति।

पूर्वपक्षः सहेतुकः

किं युक्तम्? विद्याङ्गमिति। कुतः? सन्निधिसमाम्नानात् विद्याङ्गत्वप्रतीतेः।

वेधमन्त्रस्य अन्याङ्गत्वेऽपि शन्न आदेः विद्याङ्गत्वशङ्का

यद्यपि शुक्रं प्रविध्य इत्यादीनां मन्त्राणां प्रवर्ग्यादेश्च कर्मणः श्रुतिलिङ्गवाक्यैर्बलवद्भिर्यथायथं कर्मसु विनियोगोऽवगम्यते, तथाऽपि शं नो मित्रः (तै.शी) सह नाववतु (तै.आन.१) इत्यादेर्मन्त्रस्यान्यत्र विनियोगाभावाद्विद्याधिकाराच्च विद्याङ्गत्वमवर्जनीयिमिति सर्वासु विद्यासु इमे मन्त्राः उपसंहर्तव्याः-

सूत्रार्थविवरणतः सिद्धान्तः

एवं प्राप्ते प्रचक्ष्महे – वेधाद्यर्थभेदात् । शुक्रं प्रविध्य हृदयं प्रविध्य, ऋतं वदिष्यामि, सत्यं वदिष्यामि (तै.शिक्षा.१) ऋतमवादिषं, सत्यमवादिषं (तै.उ.शिक्षा.१२.१) तेजिस्वनाऽवधीतमस्तु मा विद्वषावहै (तै.भृगु.१.१) इत्यादिभिर्लिङ्गैरभिचाराध्ययनादिष्वेषां विनियोगावगमान्न विद्याङ्गत्वम् ।

सूत्रे वेधकण्ठोक्तेः दृष्टान्ततयाऽन्वयः

एतदुक्तं भवति- यथा हृदयं प्रविध्य इत्यादिमन्त्रसामर्थ्यात् शुक्रं प्रविध्य इत्यादीनामभिचारादिशेषत्वमवगम्यते, एवमेव ऋतं वदिष्यामि (तै.शिक्षा.१.अनु) तेजिस्वनावधीतमस्तुु इत्यादिमन्त्रसामर्थ्यादेव स्वाध्यायशेषत्वं शं नो मित्रः (तै.शिक्षा.१) इत्यादिमन्त्राणामवगम्यते; अतो न तेषां विद्याङ्गत्वम् इति शुक्रं प्रविध्य इत्यादीनां प्रवर्ग्यादिब्राह्मणानां चेह पाठो दिवाकीर्त्यत्वारण्येऽनुवाक्यत्वकृतः॥२५॥

इति श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम् ॥१०॥