०८ सम्भृत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥

अधिकरणार्थः

शास्त्राविशेषश्रुतानां सम्भृत्यादीनां ब्रह्मगुणानां सर्वविद्यास्वनुपसंहारः

३७७. सम्भृतिद्युव्याप्त्यपि चातः ॥ ३–३–२३ ॥

विचारणीयविषयोपस्थापनम्

तैत्तिरीयके नारायणीयानां खिलेषु च ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हाति ब्रह्मणा स्पर्धितुं कः इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृतिः द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम् ।

अधिकरणीयपूर्वपक्षशरीरम्

तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्यासूपसंहारे प्राप्त

सूत्रतः सिद्धान्तार्थः

उच्यते – सम्भृतिद्युव्याप्त्यपि इति । सम्भृतिद्युव्याप्तीति समाहारद्वन्द्वत्वात् एकवद्भावः । सम्भृत्यादिकमनारभ्याधीतमपि अत एव स्थानभेदाद्व्यवस्थाप्यम्; न सर्वत्रोपसंहर्तव्यम्। कथमनारभ्याधीतानां स्थानविशेषनियतत्वम्? स्वसामर्थ्यादिति ब्रूमः। द्युव्याप्तिस्तावत् हृदयाद्यल्पस्थानगोचरासु विद्यासु नोपसंहर्तुं शक्या; सम्भृत्यादयोऽपि तत्सहचारिणस्तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्यास्वनुपसंहार्याः ।

अल्पस्थानविषयोपासनेषु ज्यायस्त्वोक्तेराशयः

शाण्डिल्यदहरादिविद्यास्वल्पस्थानविषयासु ज्यायान् पृथिव्याः (छा.३.१४.३) यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृादय आकाशः (छा.८.१.३) इत्यादयस्तत्रतत्राशक्योपसंहाराः मनोमयत्वापहतपाप्मत्वादि विशिष्टस्योपास्यस्य माहात्म्यप्रतिपादनपराः॥

इति श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥