०७ सम्बन्धाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम्॥७॥

व्याहृतिशरीरकाक्ष्यादित्यविद्या – बृ. 7-4, 5

अधिकरणार्थः

उपासनाधिष्ठानभेदात् विद्याभेदनिरूपणम्

३७४. सम्बन्धादेवमन्यत्रापि ॥ ३–३–२० ॥

प्रकृतविचारणीयविषयोपस्थापनम्

बृहदारण्यके श्रूयते – सत्यं ब्रह्म (बृ.७.४२) इत्युपक्रम्य तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो, यश्चायं दक्षिणेऽक्षन् (बृ.७.५.१) इत्युपक्रम्य आदित्यमण्डलेऽक्षिणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा तस्योपनिषदहरित्यधिदैवतम् (बृ.७.५.३) तस्योपनिषदहमिति अध्यात्मम् (बृ.७.५.३) इति द्वे उपनिषदौ – रहस्यनामनी उपासनशेषतया आम्नायेते ।

विचारणीयविषये संशयः

ते किं यथाश्रुतस्थानविशेषनियतत्वेन व्यवस्थिते, उत उभयत्र उभे अनियमेनेति संशये

पूर्वपक्षः सूत्रतः

सत्यस्य, व्याहृतिशरीरस्यैवोपास्यस्य ब्रह्मणो द्वयोः स्थानयोस्सम्बन्धादुपास्यैक्येन रूपाभेदात् संयोगाद्यभेदाच्च विद्यैक्यादनियमेनेति प्राप्तम् । तदिदमुच्यते – सम्बन्धादेवमन्यत्रापीति।

सूत्रवाक्यार्थविवरणम्

यथा मनोमयत्वादिगुणविशिष्टस्यैकत्वादुपास्यैक्येन रूपाभेदाद्विद्यैक्याद्गुणोपसंहारः; एवमन्यत्राक्ष्यादित्यसम्बन्धिनो ब्रह्मणस्सत्यस्यैकत्वेन विद्यैक्यादुभयोरुभयत्रोपसंहारः इति ॥२०॥

सिद्धान्तारम्भः

एवं प्राप्ते प्रचक्ष्महे –

३७५. न वा विशेषात् ॥ ३–३–२१ ॥

न वा एतदस्ति – यद्विद्यैक्यादुपसंहारः इति । कुतः? विशेषात् – उपास्यरूपविशेषात्। ब्रह्मण एकत्वेऽप्येकत्रादित्यमण्डलस्थतया उपास्यत्वम्; इतरत्राक्ष्याधारतयोपास्यत्वमिति स्थानसम्बन्धित्वभेदेन रूपभेदाद्विद्याभेदः । नैवं शाण्डिल्यविद्यायाः उपास्यस्थानं भिद्यते, उभयत्र हृदयाधारत्वेनोपास्यत्वात् । अतो व्यवस्थिते इति ॥२१॥

श्रुत्या उक्तार्थदृढीकरणम्

३७६. दर्शयति च ॥ ३–३–२२ ॥

दर्शयति चाक्ष्याधारादित्याधारयोर्गुणानुपसंहारं तस्यैतस्य तदेव रूपं यदमुष्य रूपम् (छां.१.७.५) इत्यादिना रूपाद्यतिदेशेन । स्वतो ह्यप्राप्तावतिदेशेन प्राप्त्यपेक्षा॥२२॥

इति श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम् ॥ ७ ॥