०६ समानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥

अधिकरणार्थः

अग्निरहस्य-बृहदारण्यकोक्तयोः शाण्डिल्यविद्ययोरैक्यम्

३७३. समान एवं चाभेदात् ॥ ३–३–१९ ॥

विचारणीयविषयोपस्थापनम्

वाजसनेयके अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता सत्यं ब्रह्मेत्युपासीत, अथ खलु क्रतुमयोऽयं पुरुषः (वाजसनेयके अग्निरहस्ये १०.६) इत्यारभ्य स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (वाजसनेयके अग्निरहस्ये १०.६) इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किञ्च (बृ.७.६.१) इति।

संशयाकारप्रदर्शनम्

तत्र संशयः – किमत्र विद्या भिद्यते, उत नेति ।

पूर्वपक्षः

संयोगचोदनाख्यानामविशेषेऽपि वशित्वाद्युपास्यगुणभेदेन रूपभेदाद्विद्याभेदः ।

सिद्धान्तः सूत्रतः

इति प्राप्ते उच्यते – समान एवमिति । यथाऽग्निरहस्ये मनोमयप्राणशरीरभारूप-सत्यसङ्कल्पत्वगुणगणः श्रुतः; एवं बृहदारण्यकेऽपि मनोमयत्वादिके समाने सत्यधिकस्य वशित्वादेश्च सत्यसङ्कल्पत्वगुणाभेदान्न रूपभेदः; अतो विद्यैक्यम् ॥१९॥

इति श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥