श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम्॥५॥
प्राणवासस्त्वदृष्टिविद्या छा. 5.2, बृ. 8.1.14
अधिकरणार्थः
आचमनीयानां अपां प्राणं प्रति वासस्त्वानुसन्धानस्याप्राप्तस्य विधिः, न तु आचमनस्य
३७२. कार्याख्यानादपूर्वम्॥३–३–१८॥
विचारणीयविषयोपस्थापनम्
पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानीं चिन्त्यते। छान्दोग्यवाजसनेयकयोः ज्येष्ठं च श्रेष्ठं च प्राणमुपास्यमुक्त्वा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते; छान्दोग्ये तावत् स होवाच किं मे वासो भविष्यतीति । आप इति होचुः । तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति । लम्भुको ह वासो भवत्यनग्नो भवति (छा.५.२.२) इति। वाजसनेयके किं मे वासः (बृ.८.१.१४) इति प्राणेन पृष्टा वागादयः ऊचुः आपो वास इति । तद्विद्वांसश्श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचमन्त्येतमेव तदनमनग्नंकुर्वन्तो मन्यन्ते (बृ.८.१.१४) तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते (बृ.८.१.१४) इति ।
विचारणीयोंशः
तत्र संशयः – किमत्राचमनं विधीयते, उतापां प्राणवासस्त्वानुसन्धानमिति।
पूर्वपक्षः
अशिष्यन्नाचामेदशित्वा चाचामेत् (बृ.८.१.१४) इत्याचमने विधिप्रत्ययश्रवणात्, एतमेव तदनमनग्नं कुरुते (बृ.८.१.१४) इति वेदने विधिप्रत्ययाभावादनग्नतासङ्कीर्तनस्य स्तुत्यर्थतयाऽन्वयोपपत्तेश्च, भोजनाङ्गस्याचमनस्य स्मृत्याचारप्राप्तत्वेन विधिप्रत्ययबलात् प्राणविद्याङ्गम् आचमनान्तरं विधीयते –
सयुक्तिकः सिद्धान्तः
इति प्राप्ते ब्रूमः – आचमनीयानामपां प्राणस्य वासस्त्वानुसन्धानमेवेह – अपूर्वम् – अप्राप्तं विधीयते, कार्याख्यानात् – अप्राप्ताख्यानात्, अप्राप्ताख्याने शब्दस्यार्थवत्त्वादित्यर्थः।
भोजनाङ्गाचमनस्याप्राप्तत्वतो विधेयत्वाशङ्काया निरासः
एतदुक्तं भवति – किं मे वासः (बृ.८.१.१४) आपो वासः (बृ.८.१.१४) अद्भिःपरिदधति (छा.५.२.२) एतमेव तदनमनग्नं कुरुते इत्युपक्रमोपसंहारयोर्वाक्यस्यापां प्राणवासोदृष्टिपरत्वप्रतीतेराचमनस्य स्मृत्याचारप्राप्तत्वात् आचमनमनूद्य आचमनीयासु अप्सु प्राणवासस्त्वानुसन्धानं विधीयते इति । अत एव च्छान्दोग्ये, तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति (छा.५.२.२) इत्यद्भिः परिधानमेवोक्तम्; नाचमनम्॥१८॥
इति श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम्॥ ५॥